एकोनविंशतिशिवावतारवर्णनम्
शिव उवाच
दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ।
हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे
॥१॥तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ।
बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः
॥२॥एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ।
गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा
॥३॥लम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ।
तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः
॥४॥द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ।
तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह
॥५॥हेमकंचुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः ।
व्यासस्यैव साहाय्यार्थं निवृत्तिपथरोषणः
॥६॥सर्वज्ञः समबुद्धिश्च साध्यः शर्वसुयोगिनः ।
तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने
॥७॥त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा ।
व्यासस्तदाहं भविता बलिर्नाम महामुनिः
॥८॥बालखिल्याश्रमे गंधमादने पर्वतोत्तमे ।
सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः
॥९॥यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे ।
वंश आङ्गिरसे तत्र भविताहं च गौतमः
॥१०॥तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ।
अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः
॥११॥व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ।
तदाहं भविता वेदशिरा वेदशिरस्तथा
॥१२॥महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ।
हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे
॥१३॥तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः
॥१४॥व्यासो युगे षोडशे तु यदा देवो भविष्यति ।
तदा योगप्रदानाय गोकर्णो भविता ह्यहम्
॥१५॥तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम् ।
तत्रापि योगिनः पुत्र भविष्यंतित्यम्बुसंमिताः
॥१६॥काश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ।
तेपि तेनैव मार्गेण गमिष्यन्ति शिवालयम्
॥१७॥परिवर्त्ते सप्तदशे व्यासो देवकृतंजयः ।
गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे
॥१८॥महालये महोत्तुंगे शिवक्षेत्रं हिमाल यम् ।
उतथ्यो वामदेवश्च महायोगो महाबलः
॥१९॥परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतंजयः ।
शिखाण्डीनामतोहं तद्धिमवच्छिखरे शुभे
॥२०॥सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः ।
शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम्
॥२१॥वाचःश्रवा रुचीकश्च स्यावास्यश्च यतीश्वरः ।
एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः
॥२२॥एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः ।
तदाप्यहं भविष्यामि जटी माली च नामतः
॥२३॥हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः ।
हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा
॥२४॥परिवर्त्ते विंशतिमे भविता व्यास गौतमः ।
तत्राट्टहासनामाहमट्टहासप्रिया नराः
॥२५॥तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ।
देवमानुषयक्षेन्द्रसिद्धचारणसेवितः
॥२६॥तत्रापि मम ते पुत्रा भवि ष्यन्ति सुयोगिनः ।
सुमन्तुर्बबरिर्विद्वान् कबंधः कुशिकन्धरः
॥२७॥एकविंशे युगे तस्मिन् व्यासो वाचःश्रवा यदा ।
तदाहं दारुको नाम तस्माद्दारुवनं शुभम्
॥२८॥तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ।
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा
॥२९॥द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ।
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः
॥३०॥नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ।
द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम्
॥३१॥तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ।
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च
॥३२॥परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ।
श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे
॥३३॥तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।
उशिको बृहदश्वश्च देवलः कविरेव च
॥३४॥परिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ।
शूली नाम महायोगी तद्युगे नैमिषे तदा
॥३५॥तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः
॥३६॥पंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ।
तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः
॥३७॥तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः
॥३८॥व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ।
पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः
॥३९॥तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः
॥४०॥सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ।
प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम्
॥४१॥तत्रापि मम ते शिष्या भविष्यंति तपस्विनः ।
अक्षपादः कुमारश्चोलूको वत्सस्तथैव च
॥४२॥अष्टाविंशे द्रापरे तु पराशरसुतो हरिः ।
यदा व्यासो भविष्यामि नाम्ना द्वैपायनः प्रमुः
॥४३॥तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ।
वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति
॥४४॥तदाप्यहं भविष्यामि योगात्मा योगमायया ।
लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः
॥४५॥श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम् ।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया
॥४६॥दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना ।
भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः
॥४७॥कायावतार इत्येवं सिद्धक्षेत्रं परं तदा ।
भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति
॥४८॥तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च
॥४९॥योगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ।
प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम्
॥५०॥वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना ।
योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः
॥५१॥व्यासाश्चैवाष्टविंशत्का द्वापरेद्वापरे विभो ।
योगेश्वरावतारश्च प्रारंभे च कलौ कलौ
॥५२॥योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः ।
महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्यया
॥५३॥एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः ।
रुद्राक्षमालाभरणास्त्रिपुण्ड्रांकितमस्तकाः
॥५४॥शिष्या धर्मरताः सर्वे वेदवेदांगपारगाः ।
लिंगार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः
॥५५॥भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ।
संख्यया द्वादशाधिक्य शतं च गणिता बुधैः
॥५६॥इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ।
मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात्
॥५७॥तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् ।
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा
॥५८॥इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ।
पुनः संप्रेक्ष्य देवेशस्तत्रैवान्तरधीयत
॥५९॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
इति द्विचत्वारिंशावताराः
॥४२॥