अथान्यच्चरितं शम्भो श्शृणु प्रीत्या महामुने
नन्दीश्वर उवाच
अथान्यच्चरितं शम्भो श्शृणु प्रीत्या महामुने ।
यथा बभूव दुर्वासाश्शंकरो धर्महेतवे
॥१॥ब्रह्मपुत्रो बभूवातितपस्वी ब्रह्मवित्प्रभुः ।
अनसूयापतिर्धीमान्ब्रह्माज्ञाप्रतिपालकः
॥२॥सुनिर्देशाद्ब्रह्मणो हि सस्त्रीकः पुत्रकाम्यया ।
स त्र्यक्षकुलनामानं ययौ च तपसे गिरिम्
॥३॥प्राणानायम्य विधिवन्निर्विन्ध्यातटिनीतटे ।
तपश्चचार सुमहदद्वन्द्वोऽब्दशतम्मुनिः
॥४॥य एक ईश्वरः कश्चिदविकारो महाप्रभुः ।
स मे पुत्रवरं दद्यादिति निश्चितमानसः
॥५॥बहुकालो व्यतीयाय तस्मिंस्तपति सत्तपः ।
आविर्बभूव तत्कात्तु शुचिर्ज्वाला महीयसी
॥६॥तया सन्निखिला लोका दग्धप्राया मुनीश्वराः ।
तथा सुरर्षयः सर्वे पीडिता वासवादयः
॥७॥अथ सर्वे वासवाद्या सुराश्च मुनयो मुने ।
ब्रह्मस्थानं ययुश्शीघ्रं तज्ज्वालातिप्रपीडिताः
॥८॥नत्वा नुत्वा विधिन्देवास्तत्स्वदुःखन्न्यवेदयन् ।
ब्रह्मा सह सुरैस्तात विष्णुलोकं ययावरम्
॥९॥तत्र गत्वा रमानाथं नत्वा नुत्वा विधिस्सुरैः ।
स्वदुःखन्तत्समाचख्यौ विष्णवेऽनन्तकं मुने
॥१०॥विष्णुश्च विधिना देवै रुद्रस्थानं ययौ द्रुतम् ।
हरं प्रणम्य तत्रेत्य तुष्टाव परमेश्वरम् ।
स्तुत्वा बहुतया विष्णुं स्वदुःखं च न्यवेदयत् ।
शर्वं ज्वालासमुद्भूतमत्रेश्च तपसः परम्
॥१२॥अथ तत्र समेस्तास्तु ब्रह्मविष्णुमहेश्वराः ।
मुने संमन्त्रयाञ्चक्रुरन्योन्यं जगतां हितम्
॥१३॥तदा ब्रह्मादयो देवास्त्रयस्ते वरदर्षभाः ।
जग्मुस्तदाश्रमं शीघ्रं वरन्दातुन्तदर्षये
॥१४॥स्वचिह्नचिह्नितांस्तान्स दृष्ट्वात्रिर्मुनिसत्तमः ।
प्रणनाम च तुष्टाव वाग्भिरिष्टाभिरादरात्
॥१५॥ततस्स विस्मितो विप्रस्तानुवाच कृताञ्जलिः ।
ब्रह्मपुत्रो विनीतात्मा ब्रह्मविष्णुहराभिधान्
॥१६॥अत्रिरुवाच
हे ब्रह्मन् हे हरे रुद्र पूज्यास्त्रिजगताम्मताः ।
प्रभवश्चेश्वराः सृष्टिरक्षासंहारकारकाः
॥१७॥एक एव मया ध्यात ईश्वरः पुत्रहेतवे ।
यः कश्चिदीश्वरः ख्यातो जगतां स्वस्त्रिया सह
॥१८॥यूयं त्रयस्तुराः कस्मादागता वरदर्षभाः ।
एतन्मे संशयं छित्त्वा ततो दत्तेप्सितं वरम्
॥१९॥इति श्रुत्वा वचस्तस्य प्रत्यूचुस्ते सुरास्त्रयः ।
यादृक्कृतस्ते संकल्पस्तथैवाभून्मुनीश्वर
॥२०॥वयं त्रयो भवेशानास्समाना वरदर्षभाः ।
अस्मदंशभवास्तस्माद्भविष्यन्ति सुतास्त्रयः
॥२१॥विदिता भुवने सर्वे पित्रोः कीर्तिविवर्द्धनाः ।
इत्युक्तास्ते त्रयो देवास्स्वधामानि ययुर्मुदा
॥२२॥वरं लब्ध्वा मुनिस्सोऽथ जगाम स्वाश्रमं मुदा ।
युतोऽनुसूयया प्रीतो ब्रह्मानंदप्रदो मुने
॥२३॥अथ ब्रह्मा हरिश्शम्भुरवतेरुः स्त्रियां ततः ।
पुत्ररूपैः प्रसन्नात्मनानालीला प्रकाशकाः
॥२४॥विधेरंशाद्विधुर्जज्ञेऽनसूयायां मुनीश्वरात् ।
आविर्बभूवोदधितः शिप्तो देवेस्स एव हि
॥२५॥विष्णोरंशात्स्त्रियान्तस्यामत्रेर्दत्तो व्यजायत ।
संन्यासपद्धतिर्येन वर्द्धिता परमा मुने
॥२६॥दुर्वासा मुनिशार्दूलः शिवांशान्मुनिसत्तमः ।
जज्ञे तस्यां स्त्रियामत्रेर्वरधर्मप्रवर्तकः
॥२७॥भूत्वा रुद्रश्च दुर्वासा ब्रह्मतेजोविवर्द्धनः ।
चक्रे धर्मपरीक्षाञ्च बहूनां स दयापरः
॥२८॥सूर्यवंशे समुत्पन्नो योऽम्बरीषो नृपोऽभवत् ।
तत्परीक्षामकार्षीत्स तां शृणु त्वं मुनीश्वर
॥२९॥सोऽम्बरीषो नृपवरः सप्तद्वीपरसापतिः ।
नियमं हि चकारासावेकादश्या व्रते दृढम्
॥३०॥एकादश्या व्रतं कृत्वा द्वादश्यां चैव पारणाम् ।
करिष्यामीति सुदृढसंकल्पस्तु नराधिपः
॥३१॥ज्ञात्वा तन्नियमन्तस्य दुर्वासा मुनिसत्तमः ।
तदन्तिकं गतश्शिष्यैर्बहुभिश्शंकरांशजः
॥३२॥पारणे द्वादशीं स्वल्पां ज्ञात्वा यावत्स भोजनम् ।
कर्त्तुं व्यवसितस्तावदागतं स न्यमन्त्रयत्
॥३३॥ततः स्नानार्थमगमद्दुर्वासाः शिष्यसंयुतः ।
विलम्बं कृतवांस्तत्र परीक्षार्थं मुनिर्बहु
॥३४॥धर्मविघ्नं तदा ज्ञात्वा स नृपः शास्त्रशासनात् ।
जलम्प्राश्यास्थितस्तत्र तदागमनकांक्षया
॥३५॥एतस्मिन्नन्तरे तत्र दुर्वासा मुनिरागतः ।
कृताशनं नृपं ज्ञात्वा परीक्षार्थं धृताकृतिः
॥३६॥चुक्रोधाति नृपे तस्मिन्परीक्षार्थं वृषस्य सः ।
प्रोवाच वचनन्तूग्रं स मुनिश्शंकरांशजः
॥३७॥दुर्वासा उवाच
मां निमन्त्र्य नृपाभोज्य जलं पीतन्त्वयाधम ।
दर्शयामि फलं तस्य दुष्टदण्डधरो ह्यहम्
॥३८॥इत्युक्त्वा क्रोधताम्राक्षो नृपं दग्धुं समुद्यतः ।
समुत्तस्थौ द्रुतं चक्रं तत्स्थं रक्षार्थमैश्वरम्
॥३९॥प्रजज्वालाति तं चक्रं मुनिं दग्धुं सुदर्शनम् ।
शिवरूपं तमज्ञात्वा शिवमायाविमोहितम्
॥४०॥एतस्मिन्नन्तरे व्योमवाण्युवाचाशरीरिणी ।
अम्बरीषम्महात्मानं ब्रह्मभक्तं च वैष्णवम्
॥४१॥व्योमवाण्युवाच
सुदर्शनमिदं चक्रं हरये शम्भुनार्पितम् ।
शांतं कुरु प्रज्वलितमद्य दुर्वाससे नृप
॥४२॥दुर्वासायं शिवः साक्षात्स चक्रं हरयेऽर्पितम् ।
एवं साधारणमुनिं न जानीहि नृपोत्तम
॥४३॥तव धर्मपरीक्षार्थमागतोऽयं मुनीश्वरः ।
शरणं याहि तस्याशु भविष्यत्यन्यथा लयः
॥४४॥नन्दीश्वर उवाच
इत्युक्त्वा च नभोवाणी विरराम मुनीश्वर ।
अस्तावीत्स हरांशं तमम्बरीषोऽपि चादरात्
॥४५॥अम्बरीष उवाच
यद्यस्ति दत्तमिष्टं च स्वधर्मो वा स्वनुष्ठितः ।
कुलं नो विप्रदैवं चेद्धरेरस्त्रं प्रशाम्यतु
॥४६॥यदि नो भगवान्प्रीतो मद्भक्तो भक्तवत्सलः ।
सुदर्शनमिदं चास्त्रं प्रशाम्यतु विशेषतः
॥४७॥नन्दीश्वर उवाच
इति स्तुवति रुद्राग्रे शैवं चक्रं सुदर्शनम् ।
अशाम्यत्सर्वथा ज्ञात्वा तं शिवांशं सुलब्धधीः
॥४८॥अथाम्बरीषस्स नृपः प्रणनाम च तं मुनिम् ।
शिवावतारं संज्ञाय स्वपरीक्षार्थमागतम्
॥४९॥सुप्रसन्नो बभूवाथ स मुनिः शंकरांशजः ।
भुक्त्वा तस्मै वरं दत्त्वा स्वाभीष्टं स्वालयं ययौ
॥५०॥अम्बरीषपरीक्षायां दुर्वासश्चरितम्मुने ।
प्रोक्तामन्यच्चरित्रन्त्वं शृणु तस्य मुनीश्वर
॥५१॥पुनर्दाशरथेश्चक्रे परीक्षां नियमेन वै ।
मुनिरूपेण कालेन यः कृतो नियमो मुने
॥५२॥तदैव मुनिना तेन सौमित्रिः प्रेषितो हठात् ।
तन्तत्याज द्रुतं रामो बन्धुं पणवशान्मुने
॥५३॥सा कथा विहिता लोके मुनिभिर्बहुधोदिता ।
नातो मे विस्तरात्प्रोक्ता ज्ञाता यत्सर्वधा बुधैः
॥५४॥नियमं सुदृढं दृष्ट्वा सुप्रसन्नोऽभवन्मुनिः ।
दुर्वासास्सुप्रसन्नात्मा वरन्तस्मै प्रदत्तवान्
॥५५॥श्रीकृष्णनियमस्यापि परीक्षां स चकार ह ।
तां शृणु त्वं मुनिश्रेष्ठ कथयामि कथां च ताम्
॥५६॥ब्रह्मप्रार्थनया विष्णुर्वसुदेवसुतोऽभवत् ।
धराभारावतारार्थं साधूनां रक्षणाय च
॥५७॥हत्वा दुष्टान्महापापान् ब्रह्मद्रोहकरान्मलान् ।
ररक्ष निखिलान्साधून्ब्राह्मणान्कृष्णनामभाक्
॥५८॥ब्रह्मभक्तिं चकाराति स कृष्णो वसुदेवजः ।
नित्यं हि भोजयामास सुरसान्ब्राह्मणान्बहून्
॥५९॥ब्रह्मभक्तो विशेषेण कृष्णश्चेति प्रथामगात ।
संद्रष्टुकामस्स मुनिः कृष्णान्तिकमगान्मुने
॥६०॥रुक्मणीसहितं कृष्णं सन्नं? कृत्वा रथे स्वयम् ।
संयोज्य संस्थितो वाहं सुप्रसन्न उवाह तम्
॥६१॥मुनी रथात्समुत्तीर्य दृष्ट्वा तां दृढताम्पराम् ।
तस्मै भूत्वा सुप्रसन्नो वज्राङ्गत्ववरन्ददौ
॥६२॥द्युनद्यामेकदा स्नानं कुर्वन्नग्नो बभूव ह ।
लज्जितोभून्मुनिश्रेष्ठो दुर्वासाः कौतुकी मुने
॥६३॥तज्ज्ञात्वा द्रौपदी स्नानं कुर्वती तत्र चादरात् ।
तल्लज्जां छादयामास भिन्नस्वाञ्चलदानतः
॥६४॥तदादाय प्रवाहेनागतं स्वनिकटं मुनिः ।
तेनाच्छाद्य स्वगुह्यं च तस्यै तुष्टो बभूव सः
॥६५॥द्रौपद्यै च वरम्प्रादात्तदञ्चलविवर्द्धनम् ।
पाण्डवान्सुखिनश्चक्रे द्रौपदी तद्वरात्पुनः
॥६६॥हंसडिम्भौ नृपौ कौचित्सावमानकरौ खलौ ।
दत्त्वा निदेशं च हरेर्नाशयामास स प्रभुः
॥६७॥ब्रह्मतेजोविशेषेण स्थापयामास भूतले ।
संन्यासपद्धतिञ्चैव यथाशास्त्र विधिक्रमम्
॥६८॥बहूनुद्धारयामास सूपदेशं विबोध्य च ।
ज्ञानं दत्त्वा विशेषेण बहून्मुक्तांश्चकार सः
॥६९॥इत्थं चक्रे स दुर्वासा विचित्रं चरितम्बहु ।
धन्यं यशस्यमायुष्यं शृण्वतस्सर्वकामदम्
॥७०॥य इदं शृणुयाद्भक्त्या दुर्वासश्चरितम्मुदा ।
श्रावयेद्वा परां यश्च स सुखीह परत्र च
॥७१॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां दुर्वासश्चरित्रवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥