नन्दिकेश्वरावताराभिषेकविवाहवर्णनम्
नन्दिकेश्वर उवाच
तत्र गत्वा मुनेऽहं वै स्थित्वैकान्तस्थले सुधीः ।
अतपं तप उग्रं सन्मुनीनामपि दुष्करम्
॥१॥हृत्पुण्डरीकसुषिरे ध्यात्वा देवं त्रियम्बकम् ।
त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदा शिवम्
॥२॥रुद्रजाप्यमकार्षं वै परमध्यानमास्थितः ।
सरितश्चोत्तरे पुण्ये ह्येकचित्तः समाहितः
॥३॥तस्मिञ्जाप्येऽथ संप्रीतः स्थितं मां परमेश्वरः ।
तुष्टोऽब्रवीन्महादेवः सोमः सोमार्द्धभूषणः
॥४॥शिव उवाच
शैलादे वरदोहं ते तपसानेन तोषितः ।
साधु तप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम्
॥५॥स एवमुक्तो देवेन शिरसा पादयोर्नतः ।
अस्तवं परमेशानं जराशोकविनाशनम्
॥६॥अथ मां नन्दिनं शम्भुर्भक्त्या परामया युतम् ।
अश्रुपूर्णेक्षणं सम्यक् पादयोः शिरसा नतम्
॥७॥उत्थाय परमेशानः पस्पर्श परमार्तिहा ।
कराभ्यां संमुखाभ्यान्तु संगृह्य वृषभध्वजः
॥८॥निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ।
उवाच मां कृपादृष्ट्या समीक्ष्य जगताम्पतिः
॥९॥वत्स नन्दिन्महाप्राज्ञ मृत्योर्भीतिः कुतस्तव ।
मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः
॥१०॥अमरो जरया त्यक्तोऽदुःखी गणपतिः सदा ।
अव्ययश्चाक्षयश्चेष्टः स पिता स सुहृज्जनः
॥११॥मद्बलः पार्श्वगो नित्यं ममेष्टो भवितानिशम् ।
न जरा जन्म मृत्युर्वै मत्प्रसादाद्भविष्यति
॥१२॥नन्दीश्वर उवाच
एवमुक्त्वा शिरोमालां कुशेशयमयीं निजाम् ।
समुन्मुच्य बबन्धाशु मम कण्ठे कृपानिधिः
॥१३॥तयाहं मालया विप्र शुभया कण्ठसक्तया ।
त्र्यक्षो दशभुजश्चासं द्वितीय इव शङ्कर
॥१४॥तत एव समादाय हस्तेन परमेश्वरः ।
उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम्
॥१५॥ततो जटाश्रितं वारि गृहीत्वा हार निर्मलम् ।
उक्त्वा नन्दी भवेतीह विससर्ज वृषध्वजः
॥१६॥ततः पञ्चमिता नद्यः प्रावर्तत शुभावहाः ।
सुतोयाश्च महावेगा दिव्य रूपा च सुन्दरी
॥१७॥जटोदका त्रिस्रोताश्च वृषध्वनिरितीव हि ।
स्वर्णोदका जम्बुनदी पञ्चनद्यः प्रकीर्तिताः
॥१८॥एतत्पञ्चनदं नाम शिवपृष्ठतमं शुभम् ।
जपेश्वरसमीपे तु पवित्रं परमं मुने
॥१९॥यः पञ्चनदमासाद्य स्नात्वा जप्त्वेश्वरेश्वरम् ।
पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः
॥२०॥अथ शम्भुरुवाचोमामभिषिञ्चामि नन्दिनम्।
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये
॥२१॥उमोवाच
दातुमर्हसि देवेश नन्दिने परमेश्वर ।
महाप्रियतमो नाथ शैलादिस्तनयो मम
॥२२॥नन्दीश्वर उवाच
ततस्स शङ्करः स्वीयान्सस्मार गणपान्वरान् ।
स्वतन्त्रः परमेशानस्सर्वदो भक्तवत्सलः
॥२३॥स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ।
असङ्ख्याता महामोदाश्शङ्कराकृतयोऽखिलाः
॥२४॥ते गणेशाश्शिवं देवीं प्रणम्याहुः शुभं वचः ।
ते प्रणम्य करौ बद्ध्वा नतस्कन्धा महाबलाः
॥२५॥गणेशा ऊचुः
किमर्थं च स्मृता देव ह्याज्ञापय महाप्रभो ।
किङ्करान्नः समायातांस्त्रिपुरार्दन कामद
॥२६॥किं सागराञ्शोषयामो यमं वा सह किंकरैः ।
हन्मो मृत्युं महामृत्युं विशेषं वृद्धपद्मजम्
॥२७॥बद्ध्वेन्द्रं सह देवैश्च विष्णुं वा पार्षदैः सह ।
आनयामः सुसंकुद्धान्दैत्यान्वा दानवैः सह
॥२८॥कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये
॥२९॥नन्दीश्वर उवाच
इत्याकर्ण्य वचस्तेषां गणानां वीरवादिनाम् ।
उवाच तान्स प्रशंस्य गणेशान्परमेश्वरः
॥३०॥शिव उवाच
नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः ।
प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम
॥३१॥सर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ।
अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः
॥३२॥नन्दीश्वर उवाच
एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ।
एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः
॥३३॥ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ।
मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः
॥३४॥पितामहोपि भगवन्नियोगाच्छङ्करस्य वै ।
चकार नंदिनस्सर्व्वमभिषेकं समाहितः
॥३५॥ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ।
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः
॥३६॥स्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ।
शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः
॥३७॥प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ।
ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः
॥३८॥एवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ।
नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः
॥३९॥उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ।
महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम
॥४०॥मरुतां च सुता देवी सुयशास्तु मनोहरा ।
पत्नी सा मेऽभवद्दिव्या मनोनयननन्दिनी
॥४१॥लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ।
चामरैश्चामरासक्तहस्ताग्रैः स्त्रीगणैर्युतम्
॥४२॥सिंहासनं च परमं तया चाधिष्ठितं मया ।
अलंकृतो महालक्ष्म्या मुकुटाद्यैस्सुभूषणैः
॥४३॥लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ।
वृषेन्द्रश्च शितो नागस्सिंहस्सिंहध्वजस्तथा
॥४४॥रथश्च हेमहारश्च चन्द्रबिंबसमः शुभः ।
अन्यान्यपि च वस्तूनि लब्धानि हि मया मुने
॥४५॥एवं कृतविवाहोऽहं तया पत्न्या महामुने ।
पादौ ववन्दे शम्भोश्च शिवाया ब्रह्मणो हरेः
॥४६॥तथाविधं त्रिलोकेशस्सपत्नीकं च माम्प्रभुः ।
प्रोवाच परया प्रीत्या स शिवो भक्तवत्सलः
॥४७॥ईश्वर उवाच
शृणु सत्पुत्र तातस्त्वं सुयशेयन्तव प्रिया ।
ददामि ते वरम्प्रीत्या यत्ते मनसि वाञ्छितम्
॥४८॥सदाहन्तव नन्दीश सन्तुष्टोऽस्मि गणेश्वर ।
देव्या च सहितो वत्स शृणु मे परमं वचः
॥४९॥सदेष्टश्च विशिष्टश्च परमैश्वर्य्यसंयुतः ।
महायोगी महेष्वासः स पिता स पितामहः
॥५०॥अजेयस्सर्वजेता च सदा पूज्यो महाबलः ।
अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम्
॥५१॥अयं च ते पिता पुत्र परमैश्वर्य्यसंयुतः ।
भविष्यति गणाध्यक्षो मम भक्तो महाबलः
॥५२॥पितामहोऽपि ते वत्स तथास्तु नियमा इमे ।
मत्समीपं गमिष्यन्ति मया दत्तवरास्तथा
॥५३॥नन्दीश्वर उवाच
ततो देवी महाभागा नन्दिनं वरदाब्रवीत् ।
वरं ब्रूहीति माम्पुत्र सर्व्वान्कामान्यथेसितान्
॥५४॥तच्छ्रुत्वा वचनं देव्याः प्रावोचत्साञ्जलिस्तदा ।
भक्तिर्भवतु मे देवि पादयोस्ते सदा वरा
॥५५॥श्रुत्वा मम वचो देवी ह्येवमस्त्विति साब्रवीत् ।
सुयशां ताञ्च सुप्रीत्या नन्दिप्रियतमां शिवाम्
॥५६॥देव्युवाच
वत्से वरं यथेष्टं हि त्रिनेत्रा जन्मवर्जिता ।
पुत्रपौत्रेस्तु भक्तिर्मे तथा च भर्तुरेव हि
॥५७॥नन्द्युवाच
तदा ब्रह्मा च विष्णुश्च सर्व्वे देवगणाश्च वै ।
ताभ्यां वरान्ददुः प्रीत्या सुप्रसन्नाश्शिवाज्ञया
॥५८॥सान्वयं मां गृहीत्वेशस्ततस्सम्बन्धिबान्धवैः ।
आरुह्य वृषमीशानो गतो देव्या निजं गृहम्
॥५९॥विष्ण्वादयः सुरास्सर्व्वे प्रशंसन्तो ह्यमी तदा ।
स्वधामानि ययुः प्रीत्या संस्तुवन्तः शिवं शिवम्
॥६०॥इति ते कथितो वत्स स्वावतारो महामुने ।
सदानन्दकरः पुंसां शिवभक्तिप्रवर्द्धनः
॥६१॥य इदन्नन्दिनो जन्म वरदानन्तथा मम ।
अभिषेकं विवाहं च शृणुयाच्छ्रावयेत्तथा
॥६२॥पठेद्वा पाठयेद्वापि श्रद्धावान्भक्तिसंयुतः ।
इह सर्व्वसुखम्भुक्त्वा परत्र लभते गतिम्
॥६३॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेश्वरावताराभिषेकविवाह वर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
इति त्रिचत्वारिंशोवतारः
॥४३॥