एकादशवतारान्वै शृण्वथो शांकरान्वरान्
नन्दीश्वर उवाच
एकादशवतारान्वै शृण्वथो शांकरान्वरान् ।
याञ्छ्रुत्वा न हि बाध्येत बाधासत्यादिसम्भवा
॥१॥पुरा सर्वे सुराश्शक्रमुखा दैत्यपराजिताः ।
त्यक्त्वामरावतीम्भीत्याऽपलायन्त निजाम्पुरीम्
॥२॥दैत्यप्रपीडिता देवा जग्मुस्ते कश्यपा न्तिकम् ।
बद्ध्वा करान्नतस्कन्धाः प्रणेमुस्तं सुविह्वलम्
॥३॥सुनुत्वा तं सुरास्सर्व्वे कृत्वा विज्ञप्तिमादरात् ।
सर्वं निवेदयामा स्स्वदुःखन्तत्पराजयम्
॥४॥ततस्स कश्यपस्तात तत्पिता शिवसक्तधीः ।
तदाकर्ण्यामराकं वै दुखितोभून्न चाधिकम्
॥५॥तानाश्वास्य मुनिस्सोऽथ धैर्यमाधाय शान्तधीः ।
काशीं जगाम सुप्रीत्या विश्वेश्वरपुरीम्मुने
॥६॥गंगाम्भसि ततः स्नात्वा कृत्वा तं विधिमादरात् ।
विश्वेश्वरं समानर्च साम्बं सर्वेश्वरम्प्रभुम्
॥७॥शिवलिंगं सुसंस्थाप्य चकार विपुलन्तपः ।
शम्भुमुद्दिश्य सुप्रीत्या देवानां हितकाम्यया
॥८॥महान्कालो व्यतीयाय तपतस्तस्य वै मुनेः ।
शिवपादाम्बुजासक्तमनसो धैर्य्यशालिनः
॥९॥अथ प्रादुरभूच्छम्भुर्वरन्दातुन्तदर्षये ।
स्वपदासक्तमनसे दीनबन्धुस्सतांगतिः
॥१०॥वरम्ब्रूहीति चोवाच सुप्रसन्नो महेश्वरः ।
कश्यपं मुनिशार्दूलं स्वभक्तं भक्तवत्सलः ।
दृष्ट्वाथ तं महेशानं स प्रणम्य कृताञ्जलिः ।
तुष्टाव कश्यपो हृष्टो देवतातः प्रस न्नधीः
॥१२॥कश्यप उवाच
देवदेव महेशान शरणागतवत्सल ।
सर्वेश्वरः परात्मा त्वं ध्यानगम्योद्वयोऽव्ययः
॥१३॥बलनिग्रह कर्ता त्वं महेश्वर सतां गतिः ।
दीनबन्धुर्दयासिन्धुर्भक्तरक्षणदक्षधीः
॥१४॥एते सुरास्त्वदीया हि त्वद्भक्ताश्च विशेषतः ।
दैत्यैः पराजिताश्चाथ पाहि तान्दुःखितान् प्रभो
॥१५॥असमर्थो रमेशोपि दुःखदस्ते मुहुर्मुहुः ।
अतः सुरा मच्छरणा वेदयन्तोऽसुखं च तत्
॥१६॥तदर्थं देवदेवेश देवदुःखविनाशकः ।
तत्पूरितुं तपोनिष्ठां प्रसन्नार्थं तवासदम्
॥१७॥शरणं ते प्रपन्नोऽस्मि सर्वथाहं महेश्वर ।
कामं मे पूरय स्वामिन्देवदुःखं विनाशय
॥१८॥पुत्रदुःखैश्च देवेश दुःखितोऽहं विशेषतः ।
सुखिनं कुरु मामीश सहाय स्त्वन्दिवौकसाम्
॥१९॥भूत्वा मम सुतो नाथ देवा यक्षाः पराजिताः ।
दैत्यैर्महाबलैश्शम्भो सुरानन्दप्रदो भव
॥२०॥सदैवास्तु महेशान सर्वलेखसहायकः ।
यथा दैत्यकृता बाधा न बाधेत सुरान्प्रभो
॥२१॥नंदीश्वर उवाच
इत्युक्तस्स तु सर्वेशस्तथेति प्रोच्य शंकरः ।
पश्यतस्तस्य भगवांस्तत्रैवांतर्दधे हरः
॥२२॥कश्यपोऽपि महाहृष्टः स्वस्थानमगमद्द्रुतम् ।
देवेशः कथयामास सर्ववृत्तान्तमादरात्
॥२३॥ततस्स शंकरश्शर्वस्सत्यं कर्तुं स्वकं वचः ।
सुरभ्यां कश्यपाज्जज्ञे एकादशस्वरूपवान्
॥२४॥महोत्सवस्तदासीद्वे सर्वं शिवमयं त्वभूत् ।
आसन्हृष्टाः सुराश्चाथ मुनिना कश्यपेन च
॥२५॥कपाली १ पिंगलो २ भीमो ३ विरूपाक्षो ४ विलोहितः ५ ।
शास्ताऽ ६ जपाद ७ हिर्बुध्न्य ८ श्शंभु ९ श्चण्डो १० भवस्तथा ११
॥२६॥एकादशैते रुद्रास्तु सुरभतिनयाः स्मृताः ।
देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम्
॥२७॥ते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ।
दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः
॥२८॥तद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः ।
चक्रु- स्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः
॥२९॥अद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः ।
देवानां रक्षणार्थाय विराजन्ते सदा दिवि
॥३०॥ऐशान्याम्पुरि ते वासं चक्रिरे भक्तवत्सलाः ।
विरमन्ते सदा तत्र नानालीलाविशारदाः
॥३१॥तेषामनुचरा रुद्राः कोटिशः परिकीर्तिताः ।
सर्वत्र संस्थितास्तत्र त्रिलोकेष्वभिभागशः
॥३२॥इति ते वर्णितास्तातावताराश्शंकरस्य वै ।
एकादशमिता रुद्रास्सर्वलोकसुखावहाः
॥३३॥इदमाख्यानममलं सर्वपापप्रणाशकम् ।
धन्यं यशस्यमायुष्यं सर्वकामप्रदायकम्
॥३४॥य इदं शृणुयात्तात श्रावयेद्वै समाहितः ।
इह सर्वसुखम्भुक्त्वा ततो मुक्तिं लभेत सः
॥३५॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां एकादशावतारवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥