सनत्कुमार शम्भोस्त्ववतारं परमं शृणु
नन्दीश्वर उवाच
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ।
नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम्
॥१॥इक्ष्वाकुप्रमुखा आसन्श्राद्धदेवसुताश्च ये ।
नभगस्तत्र नवमो नाभगस्तत्सुतः स्मृतः
॥२॥अम्बरीषस्सुतस्तस्य विष्णुभक्तो बभूव सः ।
यस्योपरि प्रसन्नोभूद्दुर्वासा ब्रह्मभक्तितः
॥३॥पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ।
तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः
॥४॥नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धि मान् ।
चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः
॥५॥एतस्मिन्समये ते वा इक्ष्वाकुप्रमुखास्सुताः ।
तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ।
स्वंस्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ।
अविषादं महाभागा पित्रादेशात्सुबुद्धयः
॥७॥स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ।
नभगोऽधीत्य सर्वाश्च सांगोपांगाः श्रुतीः क्रमात्
॥८॥भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ।
दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने
॥९॥नभग उवाच
भ्रातरोभक्तकं मह्यं दायं कृत्वा यथातथम् ।
सर्वे विभक्तास्सुप्रीत्या स्वदायार्थागताय च
॥१०॥तदा विस्मृतमस्माभिरिदानीं पितरं तव ।
विभजामो वयं भागं तं गृहाण न संशयः
॥११॥तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ।
तदोपकण्ठमागत्य पितरं समभाषत
॥१२॥नभग उवाच
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ।
पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले
॥१३॥तत आगत्य मे पृष्टा दायदानार्थमादरात् ।
ते त्वामूचुर्विभागं मे तदर्थमहमागतः
॥१४॥नन्दीश्वर उवाच
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः ।
आश्वास्य श्राद्धदेवस्स सत्यधर्मरतं मुने
॥१५॥मनुरुवाच
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ।
न ह्यहं परमं दायं सर्वथा भोगसाधनम्
॥१६॥तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ।
तव वै जीवनोपाय वदामि शृणु तत्त्वतः
॥१७॥सत्रमांगिरसा विप्राः कुर्वंत्यद्य सुमेधसः ।
तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति
॥१८॥तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ।
सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत्
॥१९॥तत्कर्मणि समाप्ते हि स्वयान्तो ब्राह्मणाश्च ते ।
धनं दास्यन्ति ते तुष्टास्स्वसत्रपरिशेषितम्
॥२०॥नन्दीश्वर उवाच
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ।
जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम्
॥२१॥तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ।
सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः
॥२२॥समाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ।
तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम्
॥२३॥तत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ।
विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत्
॥२४॥सर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ।
भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत्
॥२५॥अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ।
उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम्
॥२६॥ईश्वर उवाच
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ।
प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः
॥२७॥नन्दीश्वर उवाच
तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ।
प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम्
॥२८॥नभगः उवाच
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ।
कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम्
॥२९॥नन्दीश्वर उवाच
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ।
प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः
॥३०॥कृष्णदर्शन उवाच
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ।
याहि तम्पृच्छ स ब्रूयात्तत्प्रमाणन्तु सत्यतः
॥३१॥नन्दीश्वर उवाच
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ।
आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने
॥३२॥पुत्रोदितं समाकर्ण्य श्राद्धदेवस्स वै मनुः ।
स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम्
॥३३॥मनुरुवाच
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ।
तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः
॥३४॥अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ।
इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया
॥३५॥स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ।
यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः
॥३६॥अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ।
तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः
॥३७॥क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ।
सर्वप्रभुस्स एवेशो यज्ञाधीशोऽखिलेश्वरः
॥३८॥विष्णुब्रह्मादयो देवाः सिद्धास्सर्वर्षयोऽपि हि ।
तदनुग्रहतस्तात समर्थः सर्वकर्मणि
॥३९॥किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ।
प्रसादय महादेवं सर्वथा सकलेश्वरम्
॥४०॥नन्दीश्वर उवाच
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ।
प्रेषयामास निकटं शम्भोस्सोऽपि समेत्य तम्
॥४१॥नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ।
प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः
॥४२॥नभग उवाच
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ।
इत्याह मे पिता नूनं किमुताध्वरशेषितम्
॥४३॥अजानता मया नाथ यदुक्तन्तद्वचो भ्रमात् ।
अपराधन्त्वं क्षमस्व शिरसा त्वां प्रसादये
॥४४॥इत्युक्त्वा नभगस्सोतिदीनधीस्तु कृताञ्जलिः ।
तुष्टाव तं महेशानं कृष्णदर्शनमानतः
॥४५॥श्राद्धदेवोऽपि शुद्धात्मा नतकस्साञ्जलिस्सुधीः ।
तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयत्
॥४६॥एतस्मिन्नन्तरे तत्र विष्णुर्ब्रह्माखिलः सुधीः ।
वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि
॥४७॥महोत्सवं प्रकुर्वन्तः सुकृतालयोऽखिलाः ।
तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक्
॥४८॥अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान् ।
उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः
॥४९॥कृष्णदर्शन उवाच
यत्ते पितावदद्धर्म्यं वाक्यन्तत्तु तथैव हि ।
त्वयापि सत्यमुक्तं तत्साधुस्त्वन्नात्र संशयः
॥५०॥अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ।
ददामि कृपया ते हि ज्ञानम्ब्रह्म सनातनम्
॥५१॥महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ।
गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना
॥५२॥इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ।
सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम
॥५३॥नन्दीश्वर उवाच
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ।
सर्वेषाम्पश्यतान्तेषान्तत्रैवान्तर्दधे हरः
॥५४॥विष्णुर्ब्रह्मापि देवाद्यास्सर्वे ते मुनिसत्तम ।
स्वंस्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा
॥५५॥सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ।
भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुर ययौ
॥५६॥इत्थन्ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ।
कृष्णदर्शननामा वै नभगानन्ददायकः
॥५७॥इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ।
पठतां शृण्वतां वापि सर्व कामफलप्रदम्
॥५८॥य एतच्चरितम्प्रातस्सायं च स्मरते सुधीः ।
कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम्
॥५९॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥