मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३१

3
शतरुद्रसंहिता · 31

स्वभक्तदयया विप्र नारीसन्देहभंजकम्

नन्दीश्वर उवाच

अथ वक्ष्ये मुनिश्रेष्ठ शम्भोः शृण्ववतारकम् ।

स्वभक्तदयया विप्र नारीसन्देहभंजकम्

॥१॥

आसीत्सत्यरथो नाम्ना विदर्भविषये नृपः ।

धर्म्मात्मा सत्यशीलश्च महाशैवजनप्रियः

॥२॥

तस्य राज्ञस्सुधर्मेण महीं पालयतो मुने ।

महान्कालो व्यतीयाय सुखेन शिवधर्म्मतः

॥३॥

कदाचित्तस्य राज्ञस्तु शाल्वैश्च पुररोधिभिः ।

महान्रणो बभूवाथ बहुसैन्यैर्बलोद्धतैः

॥४॥

स विदर्भनृपः कृत्वा सार्धं तैर्दारुणं रणम् ।

प्रनष्टोरुबलः शाल्वैर्निहतो दैवयोगतः

॥५॥

तस्मिन्नृपे हते युद्धे शाल्वैस्तु भयविह्वलाः ।

सैनिका हतशेषाश्च मन्त्रिभिस्सह दुद्रुवुः

॥६॥

अथ तस्य महाराज्ञी रात्रौ स्वपुरतो मुने ।

संरुद्धा रिपुभिर्यत्नादन्तर्वत्नी बहिर्ययौ

॥७॥

निर्गता शोकसंतप्ता सा राजमहिषी शनैः ।

प्राचीं दिशं ययौ दूरं स्मरन्तीशपदाम्बुजम्

॥८॥

अथ प्रभाते सा राज्ञी ददर्श विमलं सरः ।

अतीता दूरमध्वानं दयया शङ्करस्य हि

॥९॥

तत्रागत्य प्रिया राज्ञस्संतप्ता सुकुमारिणी ।

निवासार्थं सरस्तीरे छायावृक्षमुपाश्रयत्

॥१०॥

तत्र दैववशाद्राज्ञी मुहूर्त्ते सद्गुणान्विते ।

असूत तनयं दिव्यं सर्वलक्षणलक्षितम्

॥११॥

अथ तज्जननी दैवात्तृषिताति नृपाङ्गना ।

सरोवतीर्णा पानार्थं ग्रस्ता ग्राहेण पाथसि

॥१२॥

स सुतो जातमात्रस्तु क्षुत्पिपासार्द्दितो भृशम् ।

रुरोद च सरस्तीरे विनष्ट पितृमातृकः

॥१३॥

तस्मिन्वने क्रन्दमाने जातमात्रे सुते मुने ।

कृपान्वितो महेशोऽभूदन्तर्यामी स रक्षक.

॥१४॥

प्रेरिता मनसा काचिदीशेन त्रासहारिणा ।

अकस्मादागता तत्र भ्रमन्ती भैक्ष्यजीविनी

॥१५॥

सा त्वेकहायनं बालं वहन्ती विधवा निजम् ।

अनाथमेकं क्रंदन्तं शिशुन्तत्र ददर्श ह

॥१६॥

सा दृष्ट्वा तत्र तम्बालं वने निर्मनुजे मुने ।

विस्मिताति द्विजस्त्री सा चिचिन्तं हृदये बहु

॥१७॥

अहो सुमहदाश्चर्य्यमिदं दृष्टम्मयाधुना ।

असंभाव्यमकथ्यं च सर्वथा मनसा गिरा

॥१८॥

अच्छिन्ननाभिनालोयं रसायां केवलं शिशुः ।

शेते मातृविहीनश्च क्रन्दंस्तेजस्विनां वरः

॥१९॥

अस्य पित्रादयः केऽपि न सन्तीह सहायिनः।

कारणं किं बभूवाथ ह्यहो दैवबलं महत्

॥२०॥

न जाने कस्य पुत्रोऽयमस्य ज्ञातात्र कोपि न ।

यतः पृच्छाम्यस्य जन्य जाता च करुणा मयि

॥२१॥

इच्छाम्येनं पोषितुं हि बालमौरसपुत्रवत् ।

संप्रष्टुं नोत्सहेऽज्ञात्वा कुलजन्मादि चास्य वै

॥२२॥

नन्दीश्वर उवाच

इति संचिन्त्यमानायां तस्यां विप्रवरस्त्रियाम् ।

कृपां चकार महतीं शंकरो भक्तवत्सल

॥२३॥

दध्रे भिक्षुस्वरूपं हि महालीलो महेश्वरः ।

सर्वथा भक्तसुखदो निरुपाधिः स्वयं सदा

॥२४॥

तत्राजगाम सहसा स भिक्षुः परमेश्वरः ।

यत्रास्ति संदेहवती द्विजस्त्री ज्ञातुमिच्छती

॥२५॥

भिक्षुवर्य्यस्वरूपोऽसावविज्ञातगतिः प्रभुः ।

तामाह विप्रवनितां विहस्य करुणानिधिः

॥२६॥

भिक्षुवर्य्य उवाच

सन्देहं कुरु नो चित्ते विप्रभामिनि मा खिद ।

रक्षैनम्बालकं प्रीत्या सुपवित्रं स्वपुत्रकम्

॥२७॥

अनेन शिशुना श्रेयः प्राप्स्यसे न चिरात्परम् ।

पुष्णीहि सर्वथा ह्येनं महातेजस्विनं शिशुम्

॥२८॥

नन्दीश्वर उवाच

इत्युक्तवन्तं तं भिक्षुस्वरूपं करुणानिधिम् ।

सा विप्रवनिता शम्भुं प्रीत्या पप्रच्छ सादरम्

॥२९॥

विप्रवनितोवाच

त्वदाज्ञयैनं बालं हि रक्षिष्यामि स्वपुत्रवत् ।

पौक्ष्यामि नात्र सन्देहो मद्भाग्यात्त्वमिहागतः

॥३०॥

तथापि ज्ञातुमिच्छामि विशेषेण तु तत्त्वतः ।

कोयं कस्य सुतश्चायं कस्त्वमत्र समागतः

॥३१॥

मुहुर्मम समायाति ज्ञानं भिक्षुवर प्रभो ।

त्वं शिवः करुणासिन्धुस्त्वद्भक्तोयं शिशुः पुरा

॥३२॥

केनचित्कर्मदोषेण सम्प्राप्तोयं दशामिमाम् ।

तद्भुक्त्वा परमं श्रेयः प्राप्स्यते त्वदनुग्रहात्

॥३३॥

त्वन्माययैव साहं वै मार्गभ्रष्टा विमोहिता ।

आगता प्रेषिता त्वत्तो ह्यस्य रक्षणहेतुतः

॥३४॥

नन्दीश्वर उवाच

इति तद्दर्शनप्राप्तविज्ञानां विप्रकामिनीम् ।

ज्ञातुकामां विशेषेण प्रोचे भिक्षुतनुश्शिवः

॥३५॥

भिक्षुवर्य्य उवाच

शृणु प्रीत्या विप्रपत्नि बालस्यास्य पुरेहितम् ।

सर्वमन्यस्य सुप्रीत्या वक्ष्यते तत्त्वतोऽनघे

॥३६॥

सुतो विदर्भराजस्य शिवभक्तस्य धीमतः ।

अयं सत्यरथस्यैव स्वधर्मनिरतस्य हि

॥३७॥

शृणु सत्यरथो राजा हतः शाल्वे रणे परैः ।

तत्पत्नी निशि सुव्यग्रा निर्ययौ स्वगृहाद्द्रुतम्

॥३८॥

असूत तनयं चैनं समायाता प्रगेऽत्र हि ।

सरोवतीर्णा तृषया ग्रस्ता ग्राहेण दैवतः

॥३९॥

नन्दीश्वर उवाच

इति तस्य समुत्पत्तिं तत्पितुः संगरे मृतिम् ।

तन्मातृमरणं ग्राहात्सर्वं तस्य न्यवेदयत्

॥४०॥

अथ सा ब्रह्माणी सा हि विस्मिताति मुनीश्वर ।

पुनः पप्रच्छ तं भिक्षुं ज्ञानिनं सिद्धरूपकम्

॥४१॥

ब्राह्मण्युवाच

स राजोऽस्य पिता भिक्षो वरभोगान्तरेव हि ।

कस्माच्छाल्वैस्स्वरिपुभिस्स्वल्पेहैश्च विघातितः

॥४२॥

कस्मादस्य शिशोर्माता ग्राहेणाशु सुभक्षिता ।

यस्मादनाथोयं जातो विबन्धुश्चैव जन्मतः

॥४३॥

कस्मात्सुतो ममापीह सुदरिद्रो हि भिक्षुकः ।

भवेत्कथं सुखं भिक्षो पुत्रयोरनयोर्वद

॥४४॥

नन्दीश्वर उवाच

इति तस्या वचः श्रुत्वा स भिक्षुः परमेश्वरः ।

विप्रपत्न्याः प्रसन्नात्मा प्रोवाच विहसंश्च ताम्

॥४५॥

भिक्षुवर्य्य उवाच

विप्रपत्नि विशेषेण सर्वप्रश्नान्वदामि ते ।

शृणु त्वं सावधानेन चरित्रमिदमुत्तमम्

॥४६॥

अमुष्य बालस्य पिता स विदर्भमहीपतिः ।

पूर्वजन्मनि पाण्ड्योऽसौ बभूव नृपसत्तमः

॥४७॥

स शैवनृपतिर्धर्मात्पालयन्निखिला महीम् ।

स्वप्रजां रंजयामास सर्वोपद्रवनाशनः

॥४८॥

कदाचित्स हि सर्वेशं प्रदोषे पर्यपूजयत् ।

त्रयोदश्यां निराहारो दिवानक्तव्रती शिवम्

॥४९॥

तस्य पूजयतः शम्भुं प्रदोषे गिरिशं रते ।

महाञ्छब्दो बभूवाथ विकटस्सर्वथा पुरे

॥५०॥

तमाकर्ण्य रवं सोऽथ राजा त्यक्तशिवार्चनः ।

रिप्वागमनशंकातो निर्ययौ भवनाद्बहिः

॥५१॥

एतस्मिन्नेव काले तु तस्यामात्यो महाबली ।

गृहीतशस्त्रसामन्तो राजान्तिकमुपाययौ

॥५२॥

तन्दृष्ट्वा शत्रुसामन्तं महाक्रोधेन विह्वलः ।

अविचार्य वृषन्तस्य शिरश्छेदमकारयत्

॥५३॥

असमाप्ये शपूजान्तामशुचिर्नष्टधीर्नृपः ।

रात्रौ चकार सुप्रीत्या भोजनन्नष्टमंगलः

॥५४॥

विदर्भे सोभवद्राजा जन्मनीह शिवव्रती ।

शिवार्चनान्तरायेण परैर्भोगांन्तरे हतः

॥५५॥

तत्पुत्रो यः पूर्वभवे सोऽस्मिञ्जन्मनि तत्सुतः ।

अहमेव हतैश्वर्य्यः शिवपूजा व्यतिक्रमात्

॥५६॥

अस्य माता पूर्वभवे सपत्नीं छद्मनाहरत् ।

भक्षिता तेन पापेन ग्राहेणाऽस्मिन्भवे हि सा

॥५७॥

एषा प्रवृत्तिरेतेषां भवत्यै परिकीर्तिता ।

अनर्चिता शिवा भक्त्या प्राप्नुवन्ति दरिद्रताम् ।

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।

प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैस्सुकर्मभिः

॥५९॥

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ।

तद्दोषपरिहारार्थं शरणं शंकरं व्रज

॥६०॥

एताभ्यां खलु बालाभ्यां शिवपूजाविधीयताम् ।

उपवीतानन्तरं हि शिवः श्रेयः करिष्यति

॥६१॥

नन्दीश्वर उवाच

इति तामुपदिश्याथ भिक्षुवर्ण्यतनुः शिवः ।

स्वरूपं दर्शयामास परमं भक्तवत्सलः

॥६२॥

अथ सा विप्रवनिता ज्ञात्वा तं शंकरम्प्रभुम् ।

सुप्रणम्य हि तुष्टाव प्रेम्णा गद्गदया गिरा

॥६३॥

ततस्स भगवाञ्च्छम्भुर्धृतभिक्षुतनुर्द्रुतम् ।

पश्यन्त्या विप्रपन्त्यास्तु तत्रैवान्तरधीयत

॥६४॥

अथ तस्मिन् गते भिक्षौ विश्रब्धा ब्राह्मणी च सा ।

तमर्भकं समादाय सस्वपुत्रा गृहं ययौ

॥६५॥

एकचक्राह्वये रम्ये ग्राम्ये कृत निकेतना ।

स्वपुत्रं राजपुत्रं च वरान्नैश्च व्यवर्द्धयत्

॥६६॥

ब्राह्मणै कृतसंस्कारौ कृतोपनयनौ च तौ ।

ववृधाते स्वगेहे च शिवपूजनतत्परौ

॥६७॥

तौ शाण्डिल्यमुनेस्तात निदेशान्नियम स्थितौ ।

प्रदोषे चक्रतुः शम्भोः पूजां कृत्वा व्रतं शुभम्

॥६८॥

कदाचिद्द्विजपुत्रेण विनाऽसौ राजनन्दनः ।

नद्यां स्नातुं गतः प्राप निधानकलशं वरम्

॥६९॥

एवं पूजयतोः शम्भुं राजद्विजकुमारयोः ।

सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम्

॥७०॥

एवमर्चयतोः शम्भुं भूयोपि परया मुदा ।

सम्वत्सरो व्यतीयाय तस्मिन्नेव तयोर्गृहे

॥७१॥

सम्वत्सरे व्यतिक्रान्ते स राजतनयो मुने ।

गत्वा वनान्ते विप्रेण शिवस्यानुग्रहाद्विभोः

॥७२॥

अकस्मादागतां तत्र दत्तां तज्जनकेन ह ।

विवाह्य गन्धर्वसुतां चक्रे राज्यमकण्टकम्

॥७३॥

या विप्रवनिता पूर्वंतमपुष्णात्स्वपुत्रवत् ।

सैव माताभवत्तस्य स भ्राता द्विजनन्दनः

॥७४॥

इत्थमाराध्य देवेशं धर्मगुप्ताह्वयस्स वै ।

विदर्भ विषये राज्ञ्या तया भोगं चकार ह

॥७५॥

भिक्षुवर्य्यावतारस्ते वर्णितश्च मयाधुना ।

शिवस्य धर्मगुप्ताह्व नृपबालसुखप्रदः

॥७६॥

एतदाख्यानमनघं पवित्रं पावनं महत् ।

धर्मार्थकाममोक्षाणां साधनं सर्वकामदम्

॥७७॥

य एतच्छ्रृणुयान्नित्यं श्रावयेद्वा समाहितः ।

स भुक्त्वेहाखिलान्कामान्सोन्ते शिवपुरम्व्रजेत्

॥७८॥

इति श्री शिवमहापुराणे तृती०शतरुद्रसंहितायां भिक्षुवर्य्याह्वशिवावता रचरित्रवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥