सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः
नन्दीश्वर उवाच
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।
अवतारं शृणु विभोस्सुनर्तकनटाह्वयम्
॥१॥यदा हि कालिका देवी पार्वती हिमवत्सुता ।
तेपे तपस्तुविमलं वनं गत्वा शिवाप्तये
॥२॥तदा शिवः प्रसन्नो भूत्तस्यास्सुतपसो मुने ।
तद्वृत्तसुपरीक्षार्थं वरं दातुम्मुदा ययौ
॥३॥स्वरूपन्दर्शयामास तस्यै सुप्रीतमानसः ।
वरम्ब्रूहीति चोवाच तां शिवां शंकरो मुने
॥४॥तच्छ्रुत्वा शम्भुवचनं दृष्ट्वा तद्रूपमुत्तमम् ।
सुजहर्ष शिवातीव प्राह तं सुप्रणम्य सा
॥५॥पार्वत्युवाच
यदि प्रसन्नो देवेश मह्यं देयो वरो यदि ।
पतिर्भव ममेशान कृपां कुरु ममोपरि
॥६॥पितुर्गृहे मया सम्यग्गम्यते त्वदनुज्ञया ।
गन्तव्यम्भवता नाथ मत्पितुः पार्श्वतः प्रभो
॥७॥याचस्व मान्ततो भिक्षुः ख्यापयंश्च यशः शुभम् ।
पितुर्मे सफलं सर्वं कुरु प्रीत्या गृहा श्रमम्
॥८॥ततो यथोक्तविधिना कर्तुमर्हसि भो प्रभो ।
विवाहं त्वं महेशान देवानां कार्य्यसिद्धये
॥९॥कामं मे पूरय विभो निर्विकारो भवान्सदा ।
भक्तवत्सलनामा हि तव भक्तास्म्यमहं सदा
॥१०॥नन्दीश्वर उवाच
इत्युक्तस्स तया शंभुर्महेशो भक्तवत्सलः ।
तथास्त्विति वचः प्रोच्यान्तर्हितस्स्वगिरिं ययौ
॥११॥पार्वत्यपि ततः प्रीत्या स्वसखीभ्यां वयोन्विता ।
जगाम स्वपितुर्गेहं रूपं कृत्वा तु सार्थकम् ।
पार्वत्यागमनं श्रुत्वा मेनया स हिमाचलः ।
परिवारयुतो द्रष्टुं स्वसुतां तां ययौ मुदा ।
दृष्ट्वा तां सुप्रसन्नास्यामानयामासतुर्गृहम् ।
कारयामासतुः प्रीत्या महानन्दी महोत्सवम्
॥१४॥. धनन्ददौ द्विजादिभ्यो मेनागिरिवरस्तथा ।
मंगलं कारयामास सवेदध्वनिमादरात्
॥१५॥ततः स्वकन्यया सार्द्धमुवास प्रांगणे मुदा ।
मेना च हिमवाञ्छैलः स्नातुं गंगां जगाम सः
॥१६॥एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः ।
सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ
॥१७॥शृंगं वामे करे धृत्वा दक्षिणे डमरुन्तथा ।
पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः
॥१८॥ततस्तु नटरूपोऽसौ मेनकाप्रांगणे मुदा ।
चक्रे स नृत्यं विविधं गानञ्चाति।
मनोहरम्
॥१९॥शृंगञ्च डमरुन्तत्र वादयामास सुध्वनिम् ।
महोतिं विविधाम्प्रीत्या स चकार मनोहराम्
॥२०॥तन्द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ।
आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम्
॥२१॥श्रुत्वा संगीतं तन्दृष्ट्वा सुनृत्यं च मनोहरम् ।
सहसा मुर्मुहुः सर्वे मेनापि च तदा मुने
॥२२॥ततो मेनाशु रत्नानि स्वर्णपात्रस्थितानि च ।
तस्मै दातुं ययौ प्रीत्या तदूतिप्री तमानसा
॥२३॥तानि न स्वीचकारासौ भिक्षां चेते शिवां च ताम् ।
पुनस्तु नृत्यं गानं च कौतुकात्कर्तुमुद्यतः
॥२४॥मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ।
भिक्षुकम्भर्त्सयामास बहिष्कर्तुमियेष सा
॥२५॥एतस्मिन्नन्तरे तत्र गंगातो गिरिराड्ययौ ।
ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम्
॥२६॥श्रुत्वा मेनामुखाद्वृत्तन्तत्सर्वं सुचुकोप सः ।
आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम्
॥२७॥महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ।
न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम
॥२८॥ततः स भिक्षुकस्तात नानालीलाविशारदः ।
दर्शयामास शैलाय स्वप्रभावमनन्तकम्
॥२९॥शैलो ददर्श तन्तत्र विष्णुरूपधरन्द्रुतम् ।
ततो ब्रह्मस्वरूपं च सूर्य्यरूपं ततः क्षणात्
॥३०॥ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ।
पार्वती सहितं रम्यं विहसन्तं सुतेजसम्
॥३१॥एवं सुबहुरूपाणि तस्य तत्र ददर्श सः ।
सुविस्मितो बभूवाशु परमानन्दसंप्लुतः
॥३२॥अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ।
भिक्षां ययाचे दुर्गान्तान्नान्यज्जग्राह किञ्चन
॥३३॥ततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ।
स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः
॥३४॥तदा बभूव सुज्ञानं मेनाशैलेशयोरपि ।
आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः
॥३५॥अस्मै देया स्वकन्येयं पार्वती सुतप स्विनी ।
एवं विचार्य च तयोः शिवेभक्तिरभूत्परा
॥३६॥अतो रुद्रो महोतीश्च कृत्वा भक्तमुदावहम् ।
विवाहं कृतवान्प्रीत्या पार्वत्या स विधानतः
॥३७॥इति प्रोक्तस्तु ते तात सुनर्तकनटाह्वयः ।
शिवावतारो हि मया शिवावाक्यप्रपूरकः
॥३८॥इदमाख्यानमनघं परमं व्याहृतम्मया ।
य एतच्छृणुयात्प्रीत्या स सुखी गतिमाप्नुयात्
॥३९॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुनर्तकनटाह्वशिवावतारवर्णनंनाम चतुस्त्रिंशोध्यायः ॥ ३४ ॥