मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १४

3
शतरुद्रसंहिता · 14

गृहपत्यवतारवर्णनम्

नन्दीश्वर उवाच

स विप्रो गृहमागत्य महाहर्षसमन्वितः ।

प्रियायै कथयामास तद्वृत्तान्तमशेषतः

॥१॥

तच्छ्रुत्वा विप्रपत्नी सा मुदम्प्राप शुचिष्मती ।

अतीव प्रेमसंयुक्ता प्रशशंस विधिन्निजम् २ ।

अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह ।

विधिवद्विहिते तेन गर्भाधानाख्यकर्मणि

॥३॥

ततः पुंसवनन्तेन स्यन्दनात्प्राग्विपश्चिता ।

गृह्योक्तविधिना सम्यक्कृतम्पुंस्त्वविवृद्धये

॥४॥

सीमन्तोऽथाष्टमे मासे गर्भरूपसमृद्धिकृत् ।

सुखप्रसवसिद्धौ च तेनाकारि कृपाविदा

॥५॥

अथातश्शुभतारासु ताराधिपवराननः ।

केन्द्रे गुरौ शुभे लग्ने सुग्रहेषु युगेषु च

॥६॥

अरिष्टदीपनिर्वाणस्सर्वारिष्टविनाशकृत् ।

तनयो नाम तस्यान्तु शुचिष्मत्याम्बभूव ह

॥७॥

शर्वस्समस्तसुखदो भूर्भुवः स्वर्न्निवासिनाम् ।

गन्धवाहनवाहाश्च दिग्वधूर्मुखवाससः

॥८॥

इष्टगन्धप्रसूनौघैर्ववृषुस्ते घनाघनाः ।

देवदुन्दुभयो नेदुः प्रसेदुस्सर्व्वतो दिशः

॥९॥

परितस्सरितस्स्वच्छा भूतानां मानसैस्सह ।

तमोऽताम्यत्तु नितरां रजोऽपि विरजोऽभवत्

॥१०॥

सत्त्वास्सत्त्वसमायुक्ताः सुधावृष्टिर्बभूव वै ।

कल्याणी सर्वथा वाणी प्राणिनः प्रियवत्यभूत्

॥११॥

रंभामुख्या अप्सरसो मङ्गलद्रव्यपाणयः ।

विद्याधर्यश्च किन्नर्य्यस्तथा मर्य्यस्सहस्रशः

॥१२॥

गन्धर्वोरगयक्षाणां सुमानियः शुभस्वराः ।

गायन्त्यो मंगलं गीतन्तत्राजग्मुरनेकशः

॥१३॥

मारीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।

वसिष्ठः कश्यपोऽगस्त्यो विभाण्डो माण्डवीसुतः

॥१४॥

लोमशो रोमचरणो भरद्वाजोऽथ गौतमः ।

भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः

॥१५॥

आपस्तम्बो याज्ञवल्क्यो दक्षवाल्मीकिमुद्गलाः ।

शातातपश्च लिखितश्शिलादः शंख उञ्छभुक्

॥१६॥

जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ।

व्यासः कात्यायनः कुत्सः शौनकस्तु श्रुतश्शुकः

॥१७॥

ऋष्यशृङ्गोऽथ दुर्व्वासाश्शुचिर्नारद तुम्बुरुः ।

उत्तंको वामदेवश्च पवनोऽसितदेवलौ

॥१८॥

सालंकायनहारीतौ विश्वामित्रोऽथ भार्गवः ।

मृकण्डस्सह पुत्रेण पर्व्वतो दारुकस्तथा

॥१९॥

धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः ।

तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्

॥२०॥

ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ।

नन्दिभृङ्गि समायुक्तो गौर्य्या सह वृषध्वजः

॥२१॥

महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः ।

रत्नान्यादाय बहुशस्ससरित्का महाब्धयः

॥२२॥

स्थावरा जंगमं रूपं धृत्वा यातास्सहस्रशः ।

महामहोत्सवे तस्मिन्बभूवाकालकौमुदी

॥२३॥

जातकर्म स्वयं तस्य कृतवान्विधिरानतः ।

श्रुतिं विचार्य्य तद्रूपन्नाम्ना गृहपतिस्त्वयम्

॥२४॥

इति नाम ददौ तस्मै देयमेकादशेऽहनि ।

नामकर्मविधानेन तदर्थश्रुतिमुच्चरन्

॥२५॥

चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च ।

समयाद्धंसमारुह्य सर्वेषाञ्च पितामहः

॥२६॥

कृत्वा बालोचितां रक्षां लौकिकीं गतिमाश्रितः ।

आरुह्य यानं स्वन्धाम हरोऽपि हरिणा ययौ

॥२७॥

अहो रूपमहो तेजस्त्वहो सर्वांगलक्षणम् ।

अहो शुचिष्मती भाग्यमाविरासीत्स्वयं हरः

॥२८॥

अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो ।

स्वयमाविरभूद्रुद्रो ययो रुद्रस्तदर्चितः

॥२९॥

इति स्तुवन्तस्तेन्योन्यं सम्प्रहृष्टतनूरुहः ।

विश्वानरं समापृच्छ्य जग्मुः सर्वे यथागतम्

॥३०॥

अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः ।

पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी

॥३१॥

अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा ।

अपुत्रस्य तपश्छिन्नं नो पवित्रत्यपुत्रतः

॥३२॥

न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ।

न पुत्रात्परमं मित्रम्परत्रेह च कुत्रचित्

॥३३॥

निष्क्रमोऽथ चतुर्थेऽस्य मासि पित्रा कृतो गृहात् ।

अन्नप्राशनमब्दार्द्धे चूडार्द्धे चार्थवत्कृता

॥३४॥

कर्णवेधन्ततः कृत्वा श्रवणर्क्षे स कर्मवित् ।

ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतन्ददौ

॥३५॥

उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः ।

अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान्

॥३६॥

विद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात् ।

विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान्

॥३७॥

ततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम् ।

वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः

॥३८॥

विश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी ।

अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात्

॥३९॥

ततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ।

वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम्

॥४०॥

नन्दीश्वर उवाच

इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ।

प्रणम्य नारदं श्रीमान् भक्त्या प्रह्व उपाविशत

॥४१॥

वैश्वानर समभ्येहि ममोत्संगे निषीद भोः ।

लक्षणानि परीक्षेऽहं पाणिन्दर्शय दक्षिणम्

॥४२॥

ततो दृष्ट्वा तु सर्वं हि तालुजिह्वादि नारदः ।

विश्वानरं समवदच्छिवप्रेरणया सुधीः

॥४३॥

नारद उवाच

विश्वानर मुने वच्मि शृणु पुत्रांकमादरात् ।

सर्वांगस्वंकवान्पुत्रो महालक्षणवानयम्

॥४४॥

किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ।

सम्पूर्णनिर्मलकलं पालयेद्विधुवद्विधिः

॥४५॥

तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशु ।

गुणोऽपि दोषतां याति वक्रीभूते विधातरि

॥४६॥

शंकेऽस्य द्वादशे मासि प्रत्यूहो विद्युदग्नितः ।

इत्युक्त्वा नारदोऽगच्छद्देवलोकं यथागतम्

॥४७॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारोपाख्याने गृहपत्यवतारवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥