विष्णूपद्रववृषावतारवर्णनम्
नन्दीश्वर उवाच
शृणु ब्रह्मसुत प्राज्ञ वृषेशाख्यं मुनीश्वर ।
शिवावतारं सल्लीलं हरिगर्वहरं वरम्
॥१॥पुरा देवासुराः सर्वे जरामृत्युभयार्दिताः ।
परस्परं च संधाय रत्नान्यादित्सवोऽभवन्
॥२॥ततः सुराऽसुराः सर्वे क्षीरोदं सागरोत्तमम् ।
उद्यता मथितुं तं च बभूवुर्मुनि नन्दन
॥३॥आसञ्छुचिस्मितास्सर्वे केनेदं मन्थनं भवेत् ।
स्वकार्यसिद्धये तस्य ब्रह्मन्निति सुरासुराः
॥४॥तदा नभोगता वाणी मेघगम्भीरनिस्वना ।
उवाच देवान्दैत्यांश्च श्वासयन्तीश्वराज्ञया
॥५॥नभोवाण्युवाच
हे देवा असुराश्चैव मन्थध्वं क्षीरसागरम् ।
भवताम्बलबुद्धिर्हि भविष्यति न संशयः
॥६॥मन्दरं चैव मन्थानं रज्जुं कुरुत वासुकिम् ।
मिथस्सर्वे मिलित्वा तु मंथनं कुरुतादरात्
॥७॥नन्दीश्वर उवाच
नभोगता तदा वाणीं निशम्याथ सुरासुरः ।
उद्योगं चक्रिरे सर्वे तत्कर्तुं मुनिसत्तम
॥८॥सुसन्धायाखिलास्ते वै मन्दरम्पर्वतोत्तमम् ।
कनकाभं च सरलं नानाशोभार्चितं ययुः
॥९॥सुप्रसाद्य गिरीशं तं तदाज्ञप्ताः सुरासुराः ।
बलादुत्पाटयामासुर्नेतुकामाः पयोऽर्णवम्
॥१०॥भुजैरुत्पाट्य ते सर्व्वे जग्मुः क्षीरार्णव पुरे ।
अशक्ता अभवंस्तत्र तमानेतुं हतौजसः
॥११॥तद्भुजैस्स परिभ्रष्टः पतितो मंदरो गिरिः ।
सहसातिगुरुस्सद्यो देवदैत्योपरि ध्रुवम्
॥१२॥एवम्भग्नोद्यमा भग्नाः सम्बभूवुस्सुरासुरा ।
चेतनाः प्राप्य च ततस्तुष्टुवुर्जगदीश्वरम्
॥१३॥तदिच्छयोद्यतास्सर्वे पुनरुत्थाय तं गिरिम् ।
निचिक्षिपुर्जले नीत्वा क्षीरोदस्योत्तरे तटे
॥१४॥ततस्सुरासुरगणा रज्जुं कृत्वा च वासुकिम् ।
रत्नान्यादातुकामास्ते ममंथुः क्षीरसागरम्
॥१५॥क्षीरोदे मथ्यमाने तु श्रीस्स्वर्लोकमहेश्वरी ।
समुद्भूता समुद्राच्च भृगुपुत्री हरिप्रिया
॥१६॥धन्वन्तरिः शशांकश्च पारिजातो महाद्रुमः ।
उच्चैश्श्रवाश्च तुरगो गज ऐरावतस्तथा
॥१७॥सुरा हरिधनु श्शङ्खो गावः कामदुघास्ततः ।
कौस्तुभाख्यो मणिश्चैव तथा पीयूषमेव च
॥१८॥पुनश्च मथ्यमाने तु कालकूटं महाविषम् ।
युगान्तानलभ जातं सुरासुरभयावहम
॥१९॥पीयूषजन्मकाले तु बिन्दवो ये बहिर्गताः ।
तेभ्यः कान्ता समुद्भूता बह्वयो ह्यद्भुतदर्शनाः
॥२०॥शरत्पूर्णेन्दुवदनास्तडित्सूर्य्यानलप्रभाः ।
हारकेयूरकटकैर्दिव्यरत्नैरलङ्कृताः
॥२१॥लावण्यामृततोयेन तास्सिंचन्त्यो दिशो दश ।
जगदुन्मादयन्त्येव भ्रूभङ्गायतवीक्षणाः
॥२२॥कोटिशस्तास्समुत्पन्नास्त्वमृतात्कामनिस्सृताः ।
ततोऽमृतं समुत्पन्नं जरामृत्युनिवारणम्
॥२३॥लक्ष्मीं शंखं कौस्तुभं च खड्गं जग्राह केशवः ।
जग्राहार्को हयं दिव्यमुच्चैःश्रवसमादरात्
॥२४॥पारिजातं तरुवरमैरावतमिभेश्वरम् ।
शचीपतिश्च जग्राह निर्जरेशो महादरात
॥२५॥कालकूटं शशांकं च देवत्राणाय शंकरः ।
स्वकण्ठे धृतवाञ्छम्भुस्स्वेच्छया भक्तवत्सलः
॥२६॥दैत्यास्सुराख्यां रमणीमीश्वराज्ञाविमोहिताः ।
जगृहुः सकला व्यास सर्वे धन्वन्तरिं जनाः
॥२७॥जगृहुर्मुनयस्सर्वे कामधेनुम्मुनीश्वराः ।
सामान्यतस्त्रियस्ताश्च स्थिता आसन्विमोहिताः
॥२८॥अमृतार्थं महायुद्धं संबभूव जयैषिणाम् ।
सुराणामसुराणां च मिथः संक्षुब्धचेतसाम्
॥२९॥हृतं सोमं च दैतेयैर्बलाद्देवान्विजित्य च ।
बलिप्रभृतिभिर्व्यास युगान्ताग्न्यर्कसुप्रभैः
॥३०॥देवाश्शंकरमापन्ना विह्वलाश्शिवमायया ।
सर्वे शक्रादयस्तात दैतेयैरर्दिता बलात्
॥३१॥ततस्तदमृतं यत्नात्स्त्रीस्वरूपेण मायया ।
शिवाज्ञया रमेशेन दैत्येभ्यश्च हृतम्मुने
॥३२॥अपाययत्सुरांस्तांश्च मोहिनीस्त्रीस्वरूपधृक् ।
मोहयित्वा सुरान्सर्वान्हरिर्मायाविनां वरः
॥३३॥गत्वा निकटमेतस्या ऊचिरे दैत्यपुंगवाः ।
पाययस्व सुधामेतां मा भूद्भेदोऽत्र पंक्तिषु
॥३४॥एतदुक्त्वा ददुस्तस्मै विष्णवे छलरूपिणे ।
ते दैत्या दानवाः सर्वे शिवमायाविमोहिताः
॥३५॥एतस्मिन्नन्तरे दृष्ट्वा स्त्रियो दानवपुंगवाः ।
अनयन्नमृतोद्भूता यथास्थानं यथासुखम्
॥३६॥तासाम्पुराणि दिव्यानि स्वर्गाच्छगुणान्यपि ।
घोरैर्यन्त्रैस्सुगुप्तानि मयमायाकृतानि च
॥३७॥सुरक्षितानि सर्वाणि कृत्वा युद्धाय निर्ययुः ।
अस्पृष्टवक्षसो दैत्याः कृत्वा समयमेव हि
॥३८॥न स्पृशामः स्त्रियश्चेमा यदि देवैर्विनिर्जिताः ।
इत्युक्त्वा ते महावीरा दैत्यास्सर्वे युयुत्सवः
॥३९॥सिंहनादन्ततश्चक्रुश्शंखान्दध्मुः पृथक्पृथक् ।
पूरयन्त इवाकाशं तर्पयन्तो बलाहकान्
॥४०॥युद्धं बभूव देवानामसुरैस्सह भीकरम् ।
देवासुराख्यमतुलं प्रसिद्धं भुवनत्रये
॥४१॥जयं प्रापुस्सुरास्सर्वे विष्णुना परिरक्षिताः ।
दैत्याः पलायितास्तत्र हताः सामरविष्णुना
॥४२॥दैत्याः संमोहिता देवैर्विष्णुना च महात्मना ।
हतावशिष्टाः पातालं विविशुर्विवराणि च
॥४३॥अनुवव्राज तान्विष्णुश्चक्रपाणिर्महाबलः ।
पातालं परमं गत्वा संस्थितान्भीतभीतवत्
॥४४॥एतस्मिन्नन्तरे विष्णु ददर्शामृतसम्भवाः ।
कान्ताः पूर्णेन्दुवदना दिव्यलावण्यगर्विताः
॥४५॥संमोहितः कामबाणैर्लेभे तत्रैव निर्वृतिम् ।
ताभिश्च वरनारीभिः क्रीडमानो बभूव ह
॥४६॥ताभ्य पुत्रानजनयद्विष्णुर्वरपराक्रमान् ।
महीं सर्वां कंपयतो नानायुद्धविशारदान्
॥४७॥ततो वै हरिपुत्रास्ते महाबलपराक्रमाः ।
महोपद्रवमाचेरुस्स्वर्गे भुवि च दुःखदम्
॥४८॥लोकोपद्रवमालक्ष्य निर्जरा मुनयोऽथ वै ।
चक्रुर्निवेदनन्तेषां ब्रह्मणे प्रणिपत्य च
॥४९॥तच्छ्रुत्वादाय तान्ब्रह्मा ययौ कैलासपर्वतम् ।
तत्र दृष्ट्वा शिवं देवैः प्रणनाम पुनः पुनः
॥५०॥तुष्टाव विविधैस्तोत्रैर्नत स्कन्धः कृताञ्जलिः ।
जय देव महादेव सर्वस्वामिन्निति ब्रुवन्
॥५१॥ब्रह्मोवाच
देवदेव महादेव लोकान्रक्षाखिलान्प्रभो ।
उपद्रुतान्विष्णुपुत्रैः पातालस्थैर्विकारिभिः
॥५२॥नारीष्वमृतभूतासु संसक्तात्मा हरिर्विभो ।
पाताले तिष्ठतीदानीं रमते हि विकारवान्
॥५३॥नन्दीश्वर उवाच
इत्थं बहुस्तुतः शम्भुर्ब्रह्मणा सर्षिनिर्जरैः ।
लोकसंरक्षणार्थाय विष्णोरानयनाय च
॥५४॥ततस्स भगवाञ्छम्भुः कृपासिंधुर्महेश्वरः ।
तदुपद्रवमाज्ञाय वृषरूपो बभूव ह
॥५५॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां विष्णूपद्रववृषावतारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥