अवताराञ्छृणु विभोर्द्वादशप्रमितान्परान्
नन्दीश्वर उवाच
अवताराञ्छृणु विभोर्द्वादशप्रमितान्परान् ।
ज्योतिर्लिङ्गस्वरूपान्वै नानोति कारकान्मुने
॥१॥सौराष्ट्रे सोमनाथश्च श्रीशैले मल्लिकार्जुनः ।
उज्जयिन्यां महाकाल ओंकारे चामरेश्वरः
॥२॥केदारो हिमव त्पृष्टे डाकिन्याम्भीमशंकरः ।
वाराणस्यां च विश्वेशस्त्र्यम्बको गौतमीतटे
॥३॥वैद्यनाथश्चिताभूमौ नागेशो दारुकावने ।
सेतुबन्धे च रामेशो घुश्मेशश्च शिवालये
॥४॥अवतारद्वादशकमेतच्छम्भोः परात्मनः ।
सर्वानन्दकरं पुंसान्दर्शनात्स्पर्शनान्मुने
॥५॥तत्राद्यस्सोमनाथो हि चन्द्रदुःखक्षयंकरः ।
क्षयकुष्ठादिरोगाणां नाशकः पूजनान्मुने
॥६॥शिवावतारस्सोमेशो लिंगरूपेण संस्थितः ।
सौराष्ट्रे शुभदेशे च शशिना पूजितः पुरा
॥७॥चंद्रकुण्डं च तत्रैव सर्वपापविनाशकम् ।
तत्र स्नात्वा नरो धीमान्सर्वरोगैः प्रमुच्यते
॥८॥सोमेश्वरं महालिंगं शिवस्य परमात्मकम् ।
दृष्ट्वा प्रमुच्यते पापाद्भुक्तिं मुक्तिं च विन्दति
॥९॥मल्लिकार्जुनसंज्ञश्चावतारश्शंकरस्य वै ।
द्वितीयः श्रीगिरौ तात भक्ताभीष्टफलप्रदः
॥१०॥संस्तुतो लिंगरूपेण सुतदर्शनहेतुतः ।
गतस्तत्र महाप्रीत्या स शिवः स्वगिरेर्मुने
॥११॥ज्योतिर्लिंगं द्वितीयन्तद्दर्शनात्पूजनान्मुने ।
महासुखकरं चान्ते मुक्तिदन्नात्र संशयः
॥१२॥महाकालाभिधस्तातावतारश्शंकरस्य वै ।
उज्जयिन्यां नगर्य्यां च बभूव स्वजनावनः
॥१३॥दूषणाख्यासुरं यस्तु वेदधर्मप्रमर्दकम् ।
उज्जयिन्यां गतं विप्रद्वेषिणं सर्वनाशनम्
॥१४॥वेदविप्रसुतध्यातो हुङ्कारेणैव स द्रुतम् ।
भस्मसात्कृतवांस्तं च रत्नमाल निवासिनम्
॥१५॥तं हत्वा स महाकालो ज्योतिर्लिंगस्वरूपतः ।
देवैस्स प्रार्थितोऽतिष्ठत्स्वभक्तपरिपालकः
॥१६॥महाकालाह्वयं लिंगं दृष्ट्वाभ्यर्च्य प्रयत्नतः ।
सर्वान्कामानवाप्नोति लभते परतो गतिम्
॥१७॥ओङ्कारः परमेशानो धृतः शम्भो परात्मनः ।
अवतारश्चतुर्थो हि भक्ताभीष्टफलप्रदः
॥१८॥विधिना स्थापितो भक्त्या स्वलिंगात्पार्थिवान्मुने ।
प्रादुर्भूतो महादेवो विन्ध्यकामप्रपूरकः
॥१९॥देवैस्संप्रार्थितस्तत्र द्विधारूपेण संस्थितः ।
भुक्तिमुक्तिप्रदो लिंगरूपो वै शक्तवत्सल
॥२०॥प्रणवे चैव चोंकारनामासील्लिंगमुत्तमम् ।
परमेश्वरनामासीत्पार्थिवश्च मुनीश्वर
॥२१॥भक्ताभीष्टप्रदो ज्ञेयो योपि दृष्टोर्चितो मुने ।
ज्योतिर्लिंगे महादिव्ये वर्णिते ते महामुने
॥२२॥केदारेशोवतारस्तु पंचमः परमश्शिवः ।
ज्योतिर्लिंगस्वरूपेण केदारे संस्थितस्य च
॥२३॥नरनारायणाख्यौ याववतारौ हरेर्मुने ।
तत्प्रार्थितश्शिवस्तत्स्थैः केदारे हिमभूधरे
॥२४॥ताभ्यां च पूजितो नित्यं केदारेश्वरसंज्ञकः ।
भक्ताभीष्टप्रदः शम्भुर्दर्शनादर्चनादपि
॥२५॥अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ।
सर्वकामप्रदस्तात सोवतारश्शिवस्य वै
॥२६॥भीमशंकरसंज्ञस्तु षष्ठः शम्भोर्महाप्रभोः ।
अवतारो महालीलो भीमासुरविनाशनः
॥२७॥सुदक्षिणाभिधम्भक्तङ्कामरूपेश्वरन्नृपम् ।
यो ररक्षाद्भुतं हत्वासुरन्तं भक्तदुःखदम्
॥२८॥भीमशङ्करनामा स डाकिन्यां संस्थितस्स्वयम् ।
ज्योतिर्लिंगस्वरूपेण प्रार्थितस्तेन शंकरः
॥२९॥विश्वेश्वरावतारस्तु काश्यां जातो हि सप्तमः ।
सर्वब्रह्माण्डरूपश्च भुक्तिमुक्तिप्रदो मुने
॥३०॥पूजितस्सर्वदेवैश्च भक्त्या विष्ण्वादिभिस्सदा ।
कैलासपतिना चापि भैरवेणापि नित्यशः
॥३१॥ज्योतिर्लिंगस्वरूपेण संस्थितस्तत्र मुक्तिदः ।
स्वयं सिद्धस्वरूपो हि तथा स्वपुरि स प्रभुः
॥३२॥काशीविश्वेशयोर्भक्त्या तन्नामजपकारकाः ।
निर्लिप्ताः कर्मभिर्न्नित्यं केवल्यपदभागिनः
॥३३॥त्र्यंबकाख्योऽवतारो यः सोष्टमो गौतमीतटे ।
प्रार्थितो गौतमेनाविर्बभूव शशिमौलिनः
॥३४॥गौतमस्य प्रार्थनया ज्योतिर्लिंग स्वरूपतः ।
स्थितस्तत्राचलः प्रीत्या तन्मुनेः प्रीतिकाम्यया
॥३५॥तस्य सन्दर्शनात्स्पर्शाद्दर्शनाच्च महेशितुः ।
सर्वे कामाः प्रसिध्यन्ति ततो मुक्तिर्भवेदहो
॥३६॥शिवानुग्रहतस्तत्र गंगा नाम्ना तु गौतमी ।
संस्थिता गौतमप्रीत्या पावनी शंकरप्रिया
॥३७॥वैद्यनाथावतारो हि नवमस्तत्र कीर्तितः ।
आविर्भूतो रावणार्थं बहुलीलाकरः प्रभुः
॥३८॥तदानयनरूपं हि व्याजं कृत्वा महेश्वरः ।
ज्योतिर्लिंगस्वरूपेण चिताभूमौ प्रतिष्ठितः
॥३९॥वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ।
दर्शनात्पूजनाद्भक्त्या भुक्तिमुक्तिप्रदः स हि
॥४०॥वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ।
पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने
॥४१॥नागेश्वरावतारस्तु दशमः परिकीर्तितः ।
आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदस्सदा
॥४२॥हत्वा दारुकनामानं राक्षसन्धर्मघातकम् ।
स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम्
॥४३॥लोकानामुपकारार्थं ज्योतिर्लिंगस्वरूपधृक् ।
सन्तस्थौ सांबिकश्शम्भुर्बहुलीलाकरः परः
॥४४॥तद्दृष्ट्वा शिवलिंगन्तु मुने नागेश्वराभिधम् ।
विनश्यन्ति द्रुतं चार्च्य महापातकराशयः
॥४५॥रामेश्वरावतारस्तु शिवस्यैकादशः स्मृतः ।
रामचन्द्रप्रियकरो रामसंस्थापितो मुने
॥४६॥ददौ जयवरं प्रीत्या यो रामाय सुतोषितः ।
आविर्भूतस्य लिंगस्तु शंकरो भक्तवत्सलः
॥४७॥रामेण प्रार्थितोऽत्यर्थं ज्योतिर्लिंगस्वरूपतः ।
सन्तस्थौ सेतुबन्धे च रामसंसेवितो मुने
॥४८॥रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः
॥४९॥तं च गंगाजलेनैव स्नापयिष्यति यो नरः ।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि
॥५०॥इह भुक्त्वाखिलान्भोगान्देवतादुर्ल्लभानपि ।
अतः प्राप्य परं ज्ञानं कैवल्यं मोक्षमाप्नुयात्
॥५१॥घुश्मेश्वरावतारस्तु द्वादशश्शंकरस्य हि ।
नानालीलाकरो घुश्मानन्ददो भक्तवत्सलः
॥५२॥दक्षिणस्यान्दिशि मुने देवशैलसमीपतः ।
आविर्बभूव सरसि घुश्माप्रियकरः प्रभुः
॥५३॥सुदेह्यमारितं घुश्मापुत्रं साकल्यतो मुने ।
तुष्टस्तद्भक्तितश्शम्भुर्योरक्षद्भक्तवत्सलः
॥५४॥तत्प्रार्थितस्स वै शम्भुस्तडागे तत्र कामदाः ।
ज्योतिर्लिंग स्वरूपेण तस्थौ घुश्मेश्वराभिधः ।
तन्दृष्ट्वा शिवलिंगन्तु समभ्यर्च्य च भक्तितः ।
इह सर्वसुखम्भुक्त्वा ततो मुक्तिं च विन्दति
॥५६॥इति ते हि समाख्याता ज्योतिर्लिंगावली मया ।
द्वादशप्रमिता दिव्या भुक्तिमुक्तिप्रदायिनी
॥५७॥एतां ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि ।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति
॥५८॥शतरुद्राभिदा चेयम्वर्णिता संहिता मया ।
शतावतारसत्कीर्तिस्सर्वकामफलप्रदा
॥५९॥इमां यः पठते नित्यं शृणुयाद्वा समाहितः ।
सर्वान्कामानवाप्नोति ततो मुक्तिं लभेद्ध्रुवम्
॥६०॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सनत्कुमार .नन्दीश्वरसंवादे द्वादशज्योतिर्लिंगावतारवर्णनं नाम द्विचत्वारिंशोध्यायः ॥ ४२ ॥
समाप्तेयं तृतीया शतरुद्रसंहिता