माहात्म्यवर्णनम्
श्रीगणेशाय नम. ।
अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ।
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ।
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे
॥१॥कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ।
करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम्
॥२॥ऋषय ऊचुः
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ।
शिवावतारमाहात्म्यं नानाख्यानसमन्वितम्
॥३॥पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ।
लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः
॥४॥शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ।
शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम्
॥५॥पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ।
अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै
॥६॥तानि तानि च दिव्यानि लिंगानि परमेशितुः ।
व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया
॥७॥सूत उवाच
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया ।
कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः
॥८॥सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ।
सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत्
॥९॥लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ।
संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम्
॥१०॥यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ।
तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन
॥११॥तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम् ।
लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह
॥१२॥पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ।
सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः
॥१३॥त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम् ।
अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः
॥१४॥अनुग्रहाय लोकानां लिंगानि च महेश्वरः ।
दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा
॥१५॥यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ।
तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा
॥१६॥लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत् ।
तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति
॥१७॥पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ।
तथापि च प्रधानानि कथ्यते च मया द्विजाः
॥१८॥प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्
॥१९॥ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम ।
तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति
॥२०॥सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोंकारे परमेश्वरम्
॥२१॥केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम् ।
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे
॥२२॥वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।
सेतुबंधे च रामेशं घुश्मेशं च शिवालये
॥२३॥द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत्
॥२४॥यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ।
प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः
॥२५॥ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ।
तेषां च जननीगर्भे वासो नैव भविष्यति
॥२६॥एतेषां पूजनेनैव वर्णानां दुःखना शनम् ।
इह लोके परत्रापि मुक्तिर्भवति निश्चितम्
॥२७॥ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ।
तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात्
॥२८॥ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ।
विशेषतः फलं वक्तुं शक्यते न परैस्तथा
॥२९॥एकं च पूजितं येन षण्मासं तन्निरन्तरम् ।
तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम्
॥३०॥हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ।
तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः
॥३१॥सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ।
शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम्
॥३२॥म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः ।
द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत्
॥३३॥ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ।
. ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः
॥३४॥सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ।
मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम्
॥३५॥मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ।
रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम्
॥३६॥महाकालभवं लिंगं दुग्धेशमिति विश्रुतम् ।
नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम्
॥३७॥ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ।
प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम्
॥३८॥केदारेश्वरसंजातं भूतेशं यमुना तटे ।
महापापहरं प्रोक्तं पश्यतामर्चतान्तथा
॥३९॥भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ।
सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम्
॥४०॥नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम् ।
मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम्
॥४१॥रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ।
घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्
॥४२॥ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः ।
दर्शनात्पापहारीणि सर्वकामप्रदानि च
॥४३॥एतानि सुप्रधानानि मुख्यतां हि गतानि च ।
अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा
॥४४॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥