मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ३०

3
कोटिरुद्रसंहिता · 30

नागेश्वरज्योतिर्लिंगोद्भवमाहात्म्यवर्णनम्

सूत उवाच

कदाचित्सेवकस्तस्य राक्षसस्य दुरात्मनः ।

तदग्रे सुंदरं रूपं शंकरस्य ददर्श ह

॥१॥

तस्मै निवेदितं राज्ञे राक्षसानां यथार्थकम् ।

सर्वं तच्चरितं तेन सकौतुकमथाद्भुतम्

॥२॥

राजापि तत्र चागत्य राक्षसानां स दारुकः ।

विह्वलस्सबलश्शीघ्रं पर्यपृच्छच्च तं शिवम्

॥३॥

दारुक उवाच

किं ध्यायसि हि वैश्य त्वं सत्यं वद ममाग्रतः ।

एवं सति न मृत्युस्ते मम वाक्यं च नान्यथा

॥४॥

सूत उवाच

तेनोक्तं च न जानामि तच्छ्रुत्वा कुपितस्य वै ।

राक्षसान्प्रेरयामास हन्यतां राक्षसा अयम्

॥५॥

तदुक्तास्ते तदा हंतुं नानायुधधरा गताः ।

द्रुतं तं वैश्यशार्दूलं शंकरासक्तचेतसम्

॥६॥

तानागतांस्तदा दृष्ट्वा भयवित्रस्तलोचनः ।

शिवं सस्मार सुप्रीत्या तन्नामानि जगौ मुहुः

॥७॥

वैश्यपतिरुवाच

पाहि शंकर देवेश पाहि शंभो शिवेति च ।

दुष्टादस्मात्त्रिलोकेश खलहन्भक्तवत्सल

॥८॥

सर्वस्वं च भवानद्य मम देव त्वमेव हि ।

त्वदधीनस्त्वदीयोऽहं त्वत्प्राणस्सर्वदा प्रभो

॥९॥

सूत उवाच

इति संप्रार्थितश्शंभुर्विवरान्निर्गतस्तदा ।

भवनेनोत्तमेनाथ चतुर्द्वारयुतेन च

॥१०॥

मध्यज्योतिस्स्वरूपं च शिवरूपं तदद्भुतम् ।

परिवारसमायुक्तं दृष्ट्वा चापूजयत्स वै

॥११॥

पूजितश्च तदा शंभुः प्रसन्नो ह्यभवत्स्वयम् ।

अस्त्रं पाशुपतं नाम दत्त्वा राक्षसपुंगवान्

॥१२॥

जघान सोपकरणांस्तान्सर्वान्सगणान्द्रुतम् ।

अरक्षच्च स्वभक्तं वै दुष्टहा स हि शंकरः

॥१३॥

सर्वांस्तांश्च तदा हत्वा वरं प्रादाद्वनस्य च ।

अत्यद्भुतकरश्शंभुस्स्वलीलात्तसुविग्रहः

॥१४॥

अस्मिन्वने सदा वर्णधर्मा वै संभवंतु च ।

ब्राह्मणक्षत्रियविशां शूद्राणां हि तथैव च

॥१५॥

भवत्वत्र मुनिश्रेष्ठास्तामसा न कदाचन ।

शिवधर्मप्रवक्तारश्शिवधर्मप्रवर्तकाः

॥१६॥

सूत उवाच

एतस्मिन्समये सा वै राक्षसी दारुकाह्वया ।

देव्याः स्तुतिं चकारासौ पार्वत्या दीनमानसा

॥१७॥

प्रसन्ना च तदा देवी किं करोमीत्युवाच हि ।

साप्युवाच पुनस्तत्र वंशो मे रक्ष्यतां त्वया

॥१८॥

रक्षयिष्यामि ते वंशं सत्यं च कथ्यते मया ।

इत्युक्त्वा च शिवेनैव विग्रहं सा चकार ह

॥१९॥

शिवोपि कुपितां देवीं दृष्ट्वा वरवशः प्रभुः ।

प्रत्युवाचेति सुप्रीत्या यथेच्छसि तथा कुरु

॥२०॥

सूत् उवाच

इति श्रुत्वा वचस्तस्य स्वपतेश्शंकरस्य वै ।

सुप्रसन्ना विहस्याशु पार्वती वाक्यमब्रवीत्

॥२१॥

पार्वत्युवाच

भवदीयं वचस्तथ्यं युगांते संभविष्यति ।

तावच्च तामसी सृष्टिर्भवत्विति मतं मम

॥२२॥

अन्यथा प्रलयस्स्याद्वै सत्यं मे व्याहृतं शिव ।

प्रमाणीक्रियतां नाथ त्वदीयास्मि त्वदाश्रया

॥२३॥

इयं च दारुका देवी राक्षसी शक्तिका मम ।

बलिष्ठा राक्षसीनां च रक्षोराज्यं प्रशास्तु च

॥२४॥

इमा राक्षसपत्न्यस्तु प्रसविष्यंति पुत्रकान् ।

ते सर्वे मिलिताश्चैव वने वासाय मे मताः

॥२५॥

सूत उवाच

इत्येवं वचनं श्रुत्वा पार्वत्यास्स्वस्त्रियाः प्रभुः ।

प्रसन्नमानसो भूत्वा शंकरो वाक्यमब्रवीत्

॥२६॥

शङ्कर उवाच

इति ब्रवीषि त्वं वै चेच्छृणु मद्वचनं प्रिये ।

स्थास्याम्यस्मिन्वने प्रीत्या भक्तानां पालनाय च

॥२७॥

अत्र मे वर्णधर्मस्थो दर्शनं प्रीतिसंयुतम् ।

करिष्यति च यो वै स चक्रवर्ती भविष्यति

॥२८॥

अन्यथा कलिपर्याये सत्यस्यादौ नृपेश्वर ।

महासेनसुतो यो वै वीरसेनेति विश्रुतः

॥२९॥

स मे भक्त्यातिविक्रांतो दर्शनं मे करिष्यति ।

दर्शनं मे स कृत्वैव चक्रवर्ती भविष्यति

॥३०॥

सूत उवाच

इत्येवं दंपती तौ च कृत्वा हास्यं परस्परम् ।

स्थितौ तत्र स्वयं साक्षान्महत्त्वकारकौ द्विजाः

॥३१॥

ज्योतिर्लिंगस्वरूपो हि नाम्ना नागेश्वरश्शिवः ।

नागेश्वरी शिवा देवी बभूव च सतां प्रियौ

॥३२॥

ऋषय ऊचुः

वीरसेनः कथं तत्र यास्यते दारुकावने ।

कथमर्चिष्यति शिवं त्वं तद्वद महामते

॥३३॥

सूत उवाच

निषधे सुंदरे देशे क्षत्रियाणां कुले च सः ।

महासेनसुतो वीरसेनश्चैव शिवप्रियः

॥३४॥

पार्थिवेशार्चनं कृत्वा तपः परमदुष्करम् ।

चकार वीरसेनो वै वर्षाणां द्वादशावधिः

॥३५॥

ततः प्रसन्नो देवेशः प्रत्यक्षं प्राह शंकरः ।

काष्ठस्य मत्स्यिकां कृत्वा त्रपुधातु विलेपनाम्

॥३६॥

विधाय योगमायां च दास्यामि वीरसेनक ।

तां गृहीत्वा प्रविश्यैतं नृभिस्सह व्रजाधुना

॥३७॥

ततस्त्वं तत्र गत्वा च विवरे च कृते मया ।

प्रविश्य च तदा पूजां कृत्वा नागेश्वरस्य च

॥३८॥

ततः पाशुपतं प्राप्य हत्वा च राक्षसीमुखान् ।

मयि दृष्टे तदा किंचिन्न्यूनं ते न भविष्यति

॥३९॥

पार्वत्याश्च बलं चैव संपूर्णं वै भविष्यति ।

अन्ये च म्लेच्छरूपा ये भविष्यंति वने शुभाः

॥४०॥

सूत उवाच

इत्युक्त्वा शंकरस्तत्र वीरसेनं हि दुःखह ।

कृत्वा कृपां च महतीं तत्रैवांतर्द्दधे प्रभुः

॥४१॥

इति दत्तवरस्सोऽपि शिवेन परमात्मना ।

शक्तस्स वै तदा कर्तुं संबभूव न संशयः

॥४२॥

एवं नागेश्वरो देव उत्पन्नो ज्योतिषां पतिः ।

लिंगरूपस्त्रिलोकस्य सर्वकामप्रदस्सदा

॥४३॥

एतद्यश्शृणुयान्नित्यं नागेशोद्भवमादरात् ।

सर्वान्कामानियाद्धीमान्महापातकनाशनान्

॥४४॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नागेश्वरज्योतिर्लिंगोद्भवमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥