श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम्
सूत उवाच
श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ।
विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ।
तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम्
॥१॥श्रीविष्णुरुवाच
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।
अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः
॥२॥चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ।
वेदांतसारसंदोहः कपाली नीललोहितः
॥३॥ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः
॥४॥ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।
वामदेवो महादेवः पटुः परिवृढो दृढः
॥५॥विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।
सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः
॥६॥ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ।
तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः
॥७॥कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।
उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः
॥८॥दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ।
अनादिमध्यनिधनो गिरीशो गिरिजाधवः
॥९॥कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ।
समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः
॥१०॥विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।
धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित्
॥११॥उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ।
दाता दयाकरो दक्षः कर्मंदीः कामशासनः
॥१२॥श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।
लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः
॥१३॥उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी
॥१४॥सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ।
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः
॥१५॥अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ।
लोककरो वेदकरः सूत्रकारः सनातनः
॥१६॥महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः
॥१७॥धातृधामा धामकरः सर्वगः सर्वगोचरः ।
ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः
॥१८॥शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।
गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः
॥१९॥विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः
॥२०॥कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।
भस्मप्रियो भस्मशायी कामी कांतः कृतागमः
॥२१॥समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ।
अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः
॥२२॥दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः
॥२३॥शुभांगो लोकसारंगो जगदीशो जनार्दनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः
॥२४॥असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।
हिरण्यरेताः पौराणो रिपुजीवहरो बली
॥२५॥महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ।
व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः
॥२६॥अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ।
पंचविंशतितत्त्वस्थः पारिजातः परात्परः
॥२७॥सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ।
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः
॥२८॥आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ।
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः
॥२९॥धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः ।
सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः
॥३०॥अनंतदृष्टिरानंदो दंडो दमयिता दमः ।
अभिचार्य्यो महामायो विश्वकर्म विशारदः
॥३१॥वीतरागो विनीतात्मा तपस्वीभूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः
॥३२॥कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः
॥३३॥लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ।
वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः
॥३४॥चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ।
भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः
॥३५॥अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः ।
सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः
॥३६॥महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः
॥३७॥संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ।
अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः
॥३८॥योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः
॥३९॥सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः
॥४०॥अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ।
कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः
॥४१॥अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ।
कालयोगी महानादो महोत्साहो महाबलः
॥४२॥महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः ।
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः
॥४३॥अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ।
बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः
॥४४॥तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ।
नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः
॥४५॥स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ।
युगादिकृद्युगावर्तो गंभीरो वृषवाहनः
॥४६॥इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ।
तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः
॥४७॥अपांनिधिरधिष्ठानं विजयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः
॥४८॥विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ।
वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः
॥४९॥करणं कारणं कर्ता सर्वबंधविमोचनः ।
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः
॥५०॥गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ।
वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः
॥५१॥वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ।
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः
॥५२॥बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ।
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः
॥५३॥मघवान्कौशिको गोमान्विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत्
॥५४॥अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ।
परमार्थः परोमायी शंबरो व्याघ्रलोचनः
॥५५॥रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ।
रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः
॥५६॥युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ।
कैलासाधिपतिः कांतः सविता रविलोचनः
॥५७॥विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ।
नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः
॥५८॥दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ।
उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः
॥५९॥अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।
विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः
॥६०॥जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ।
वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः
॥६१॥प्रणवः सत्पथाचारो महाकोशो महाधनः ।
जन्माधिपो महा देवः सकलागमपारगः
॥६२॥तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ।
ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः
॥६३॥पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ।
आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक्
॥६४॥गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा
॥६५॥अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ।
स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः
॥६६॥पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ।
ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः
॥६७॥भगो विवस्वानादित्यो गतपारो बृहस्पतिः ।
कल्याणगुणनामा च पापहा पुण्यदर्शनः
॥६८॥उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ।
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः
॥६९॥पवित्रः पापहारी च मणिपूरो नभोगतिः ।
हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः
॥७०॥उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ।
अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः
॥७१॥ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषी सुगतः कुमारः कुशलागमः
॥७२॥हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ।
आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः
॥७३॥ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक्
॥७४॥पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः
॥७५॥आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ।
लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः
॥७६॥व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः ।
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः
॥७७॥आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः ।
असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः
॥७८॥वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ।
जप्यो जरादिशमनो लोहितश्च तनूनपात्
॥७९॥पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघभक्षः परपुरंजयः
॥८०॥सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ।
वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः
॥८१॥अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ।
पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण
॥८२॥मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।
जमदग्निर्बलनिधिर्विगालो विश्वगालवः
॥८३॥अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ।
शैलो गगनकुंदाभो दानवारिररिंदमः
॥८४॥चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः
॥८५॥आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।
बहुरूपो महारूपस्सर्वरूपश्चराचरः
॥८६॥न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ।
सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः
॥८७॥मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ।
पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः
॥८८॥सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक् ।
पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः
॥८९॥पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।
परावरज्ञो वरदो वरेण्यश्च महास्वनः
॥९०॥देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहा मित्रो देवासुरमहेश्वरः
॥९१॥देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ।
देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः
॥९२॥सद्यो महासुरव्याधो देवसिंहो दिवाकरः ।
विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम
॥९३॥शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ।
वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः
॥९४॥ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।
नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः
॥९५॥लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ।
स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः
॥९६॥बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ।
दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः
॥९७॥श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः ।
लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः
॥९८॥अंधकारि मखद्वेषी विष्णुकंधरपातनः ।
हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित्
॥९९॥पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।
सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः
॥१००॥मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ।
जीवितांतकरो नित्यो वसुरेता वसुप्रदः
॥१०१॥सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः ।
कलाधरो महाकालभूतः सत्यपरायणः
॥१०२॥लोकलावण्यकर्ता च लोकोत्तरसुखालयः ।
चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः
॥१०३॥लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ।
अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः
॥१०४॥तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ।
शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः
॥१०५॥ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ।
तुम्बवीणो महाकायो विशोकश्शोकनाशनः
॥१०६॥त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ।
अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः
॥१०७॥परः शिवो वसुर्नासासारो मानधरो यमः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः
॥१०८॥वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सदागति
॥१०९॥हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ।
सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय
॥११०॥देवप्रियो देवनाथो देवको देवचिंतकः ।
विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः
॥१११॥निर्ममो निरहंकारो निर्मोहो निरुपद्रवः ।
दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः
॥११२॥सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ।
भूतभव्यभवन्नाथो विभवो भूतिनाशनः
॥११३॥अर्थोऽनर्थो महाकोश परकायैकपंडित ।
निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः
॥११४॥सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ।
अकंपितो गुणग्राही नैकात्मानैककर्मकृत्
॥११५॥सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ।
नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः
॥११६॥अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ।
अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः
॥११७॥वाराहशृंगधृक् शृंगी बलवानेकनायकः ।
श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक्
॥११८॥श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ।
भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः
॥११९॥अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ।
सत्यव्रती महात्यागी नित्यशांतिपरायणः
॥१२०॥परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ।
शुभदः शुभकर्ता च शुभनामा शुभः स्वयम्
॥१२१॥अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ।
स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः
॥१२२॥शिखंडी कवची शूली जटी मुंडी च कुंडली ।
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः
॥१२३॥असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ।
वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः
॥१२४॥अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।
सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः
॥१२५॥कालपक्षः कालकालः सुकृती कृतवासुकिः ।
महेष्वासो महीभर्ता निष्कलंको विशृंखल
॥१२६॥द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।
विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः
॥१२७॥सर्वयोनिर्निरातंको नरनारायणप्रियः ।
निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः
॥१२८॥स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ।
निरवद्यमयोपायो विद्याराशिश्च सत्कृतः
॥१२९॥प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ।
वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः
॥१३०॥परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ।
सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः
॥१३१॥एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ।
प्रार्थयामास शम्भुं वै पूजयामास पंकजः
॥१३२॥ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ।
महाद्भुतं सुखकरं तदेव शृणुतादरात्
॥१३३॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः ॥ ३५ ॥