महाकालज्योतिर्लिंगमाहात्म्यवर्णनम्
ऋषय ऊचुः
महाकालसमाह्वस्थज्योतिर्लिंगस्य रक्षिणः ।
भक्तानां महिमानं च पुनर्ब्रूहि महामते
॥१॥सूत उवाच
शृणुतादरतो विप्रो भक्तरक्षाविधायिनः ।
महाकालस्य लिंगस्य माहात्म्यं भक्तिवर्द्धनम्
॥२॥उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ।
सर्वशास्त्रार्थतत्त्वज्ञश्शिवभक्तो जितेन्द्रियः
॥३॥तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ।
गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः
॥४॥एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ।
मणिभद्रो ददौ तस्मै चिंतामणिमुदारधीः
॥५॥स वै मणिः कौस्तुभवद्द्योतमानोर्कसन्निभः ।
ध्यातो दृष्टः श्रुतो वापि मंगलं यच्छति ध्रुवम्
॥६॥तस्य कांतितलस्पृष्टं कांस्यं ताम्रमयं त्रपु ।
पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम्
॥७॥स तु चिन्तामणिं कंठे बिभ्रद्राजा शिवाश्रयः ।
चन्द्रसेनो रराजाति देवमध्येव भानुमान्
॥८॥श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ।
निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन्
॥९॥नृपा मत्सरिणस्सर्वे तं मणिं चन्द्रसेनतः ।
नानोपायैरयाचंत देवलब्धमबुद्धयः
॥१०॥सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ।
व्यर्थीकृता महाकालदृढभक्तेन भूसुराः
॥११॥ते कदर्थीकृतास्सर्वे चन्द्रसेनेन भूभृता ।
राजानस्सर्वदेशानां संरम्भं चक्रिरे तदा
॥१२॥अथ ते सर्वराजानश्चतुरंगबलान्विताः ।
चन्द्रसेनं रणे जेतुं संबभूवुः किलोद्यताः
॥१३॥ते तु सर्वे समेता वै कृतसंकेतसंविदः ।
उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः
॥१४॥संरुध्यमानां स्वपुरीं दृष्ट्वा निखिल राजभिः ।
तमेव शरणं राजा महाकालेश्वरं ययौ
॥१५॥निर्विकल्पो निराहारस्स नृपो दृढनिश्चयः ।
समानर्च महाकालं दिवा नक्तमनन्यधीः
॥१६॥ततस्स भगवाञ्छंभुर्महाकालः प्रसन्नधीः ।
तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात्
॥१७॥तदैव समये गोपि काचित्तत्र पुरोत्तमे ।
चरंती सशिशुर्विप्रा महाकालांतिकं ययौ
॥१८॥पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ।
राज्ञा कृतां महाकालपूजां सापश्यदादरात्
॥१९॥सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ।
प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत
॥२०॥तत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ।
कुतूहलेन तां कर्त्तुं शिवपूजां मनोदधे
॥२१॥आनीय हृद्यं पाषाणं शून्ये तु शिविरांतरे ।
अविदूरे स्वशिबिराच्छिवलिगं स भक्तितः
॥२२॥गन्धालंकारवासोभिर्धूपदीपाक्षतादिभिः ।
विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत्
॥२३॥भूयोभूयस्समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।
नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः
॥२४॥एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ।
प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत्
॥२५॥यदाहूतोऽपि बहुशश्शिवपूजाक्तमानसः ।
बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः
॥२६॥तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ।
चकर्ष पाणिं संगृह्य कोपेन समताडयत्
॥२७॥आकृष्टस्ताडितश्चापि नागच्छत्स्वसुतो यदा ।
तां पूजां नाशयामास क्षिप्त्वा लिंगं च दूरतः
॥२८॥हाहेति दूयमानं तं निर्भर्त्स्य स्वसुतं च सा ।
पुनर्विवेश स्वगृहं गोपी क्रोधसमन्विता
॥२९॥मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ।
देवदेवेति चुक्रोश निपपात स बालकः
॥३०॥प्रनष्टसंज्ञः सहसा स बभूव शुचाकुलः ।
लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत्
॥३१॥तदैव जातं शिबिरं महाकालस्य सुन्दरम् ।
ददर्श स शिशुस्तत्र शिवानुग्रहतोऽचिरात्
॥३२॥हिरण्मयबृहद्द्वारं कपाटवरतोरणम् ।
महार्हनीलविमलवज्रवेदीविराजितम्
॥३३॥संतप्तहेमकलशैर्विचित्रैर्बहुभिर्युतम् ।
प्रोद्भासितमणिस्तंभैर्बद्धस्फटिकभूतलैः
॥३४॥तन्मध्ये रत्नलिंगं हि शंकरस्य कृपानिधे ।
स्वकृतार्चनसंयुक्तमपश्यद्गोपिकासुतः
॥३५॥स दृष्ट्वा सहसोत्थाय शिशुर्विस्मितमानसः ।
संनिमग्न इवासीद्वै परमानंदसागरे
॥३६॥ततः स्तुत्वा स गिरिशं भूयोभूयः प्रणम्य च ।
सूर्ये चास्तं गते बालो निर्जगाम शिवालयात्
॥३७॥अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम् ।
सद्यो हिरण्मयीभूतं विचित्रं परमोज्ज्वलम्
॥३८॥सोन्तर्विवेश भवनं सर्वशोभासमन्वितम् ।
मणिहेमगणाकीर्ण मोदमानो निशामुखे
॥३९॥तत्रापश्यत्स्वजननीं स्वपंतीं दिव्यलक्षणाम् ।
रत्नालंकारदीप्तांगीं साक्षात्सुरवधूमिव
॥४०॥अथो स तनयो विप्राश्शिवानुग्रहभाजनम् ।
जवेनोत्थापयामास मातरं सुखविह्वलः
॥४१॥सोत्थिताद्भुतमालक्ष्यापूर्वं सर्वमिवाभवत् ।
महानंदसुमग्ना हि सस्वजे स्वसुतं च तम्
॥४२॥श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ।
प्रभुं विज्ञापयामास यो भजत्यनिशं शिवम्
॥४३॥स राजा सहसागत्य समाप्तनियमो निशि ।
ददर्श गोपिकासूनोः प्रभावं शिवतोषणम्
॥४४॥दृष्ट्वा महीपतिस्सर्वं तत्सामात्यपुरोहितः ।
आसीन्निमग्नो विधृतिः परमानंदसागरे
॥४५॥प्रेम्णा वाष्पजलं मुञ्चञ्चन्द्रसेनो नृपो हि सः ।
शिवनामोच्चरन्प्रीत्या परिरेभे तमर्भकम्
॥४६॥महामहोत्सवस्तत्र प्रबभूवाद्भुतो द्विजाः ।
महेशकीर्तनं चक्रुस्सर्वे च सुखविह्वलाः
॥४७॥एवमत्यद्भुताचाराच्छिवमाहात्म्यदर्शनात् ।
पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात्
॥४८॥अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ।
राजानश्चारवक्त्रेभ्यश्शुश्रुवुश्चरितं च तत्
॥४९॥ते समेताश्च राजानः सर्वे येये समागताः ।
परस्परमिति प्रोचुस्तच्छ्रुत्वा चकित अति
॥५०॥राजान ऊचुः
अयं राजा चन्द्रसेनश्शिवभक्तोति दुर्जयः ।
उज्जयिन्या महाकालपुर्याः पतिरनाकुलः
॥५१॥ईदृशाश्शिशवो यस्य पुर्य्यां संति शिवव्रताः ।
स राजा चन्द्रसेनस्तु महाशंकरसेवकः
॥५२॥नूनमस्य विरोधेन शिवः क्रोधं करिष्यति ।
तत्क्रोधाद्धि वयं सर्वे भविष्यामो विनष्टकाः
॥५३॥तस्मादनेन राज्ञा वै मिलापः कार्य एव हि ।
एवं सति महेशानः करिष्यति कृपां पराम्
॥५४॥सूत उवाच
इति निश्चित्य ते भूपास्त्यक्तवैरास्सदाशयाः ।
सर्वे बभूवुस्सुप्रीता न्यस्तशस्त्रास्त्रपाणयः
॥५५॥विविशुस्ते पुरीं रम्यां महाकालस्य भूभृतः ।
महाकालं समानर्चुश्चंद्रसेनानुमोदिताः
॥५६॥ततस्ते गोपवनिता गेहं जग्मुर्महीभृतः ।
प्रसंशंतश्च तद्भाग्यं सर्वे दिव्यमहोदयम्
॥५७॥ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभिपूजिताः ।
महार्हविष्टरगताः प्रत्यनंदन्सुविस्मिताः
॥५८॥गोपसूनोः प्रसादात्तत्प्रादुर्भूतं शिवालयम् ।
संवीक्ष्य शिवलिंगं च शिवे चकुः परां मतिम्
॥५९॥ततस्ते गोपशिशवे प्रीता निखिलभूभुजः ।
ददुर्बहूनि वस्तूनि तस्मै शिवकृपार्थिनः
॥६०॥येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ।
तेषां तमेव राजानं चक्रिरे सर्वपार्थिवाः
॥६१॥अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ।
प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः
॥६२॥ते तस्याभिगमादेव राजानो जातसंभ्रमाः ।
प्रत्युत्थाय नमश्चकुर्भक्तिनम्रात्ममूर्तयः
॥६३॥तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ।
गोपात्मजं तमालिंग्य राज्ञो वीक्ष्येदमब्रवीत्
॥६४॥हनूमानुवाच
सर्वे शृण्वन्तु भद्रं वो राजानो ये च देहिनः ।
ऋते शिवं नान्यतमो गतिरस्ति शरीरिणाम्
॥६५॥एवं गोपसुतो दिष्ट्या शिवपूजां विलोक्य च ।
अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान्
॥६६॥एष भक्तवरश्शंभोर्गोपानां कीर्तिवर्द्धनः ।
इह भुक्त्वाखिलान्भोगानंते मोक्षमवाप्स्यति
॥६७॥अस्य वंशेऽष्टमो भावी नन्दो नाम महायशाः ।
प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारायणस्स्वयम्
॥६८॥अद्यप्रभृति लोकेस्मिन्नेष गोप कुमारकः ।
नाम्ना श्रीकर इत्युच्चैर्लोकख्यातिं गमिष्यति
॥६९॥सूत उवाच
एवमुक्त्वाञ्जनीसूनुः शिवरूपो हरीश्वरः ।
सर्वान्राज्ञश्चन्द्रसेनं कृपादृष्ट्या ददर्श ह
॥७०॥अथ तस्मै श्रीकराय गोपपुत्राय धीमते ।
उपादिदेश सुप्रीत्या शिवाचारं शिवप्रियम्
॥७१॥हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजः ।
चन्द्रसेनं श्रीकरं च तत्रैवान्तरधी यत
॥७२॥तं सर्वे च महीपालास्संहृष्टाः प्रतिपूजिताः ।
चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम्
॥७३॥श्रीकरोपि महातेजा उपदिष्टो हनूमता ।
ब्राह्मणैस्सहधर्मज्ञैश्चक्रे शम्भोस्समर्हणम्
॥७४॥चन्द्रसेनो महाराजः श्रीकरो गोपबालकः ।
उभावपि परप्रीत्या महाकालं च भेजतुः
॥७५॥कालेन श्रीकरस्सोपि चन्द्रसेनश्च भूपतिः ।
समाराध्य महाकालं भेजतुः परमं पदम्
॥७६॥एवंविधो महाकालश्शिवलिंगस्सतां गतिः ।
सर्वथा दुष्टहंता च शंकरो भक्तवत्सलः
॥७७॥इदं पवित्रं परमं रहस्यं सर्वसौख्यदम् ।
आख्यानं कथितं स्वर्ग्यं शिवभक्तिविवर्द्धनम्
॥७८॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥