मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ३६

3
कोटिरुद्रसंहिता · 36

श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम्

सूत उवाच

श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम् ।

सहस्रनामस्वस्तोत्रं प्रसन्नोऽभून्महेश्वरः

॥१॥

परीक्षार्थं हरेरीशः कमलेषु महेश्वरः ।

गोपयामास कमलं तदैकं भुवनेश्वरः

॥२॥

पंकजेषु तदा तेषु सहस्रेषु बभूव च ।

न्यूनमेकं तदा विष्णुर्विह्वलश्शिवपूजने

॥३॥

हृदा विचारितं तेन कुतो वै कमलं गतम् ।

यातं यातु सुखेनैव मन्नेत्रं कमलं न किम्

॥४॥

ज्ञात्वेति नेत्रमुद्धृत्य सर्वसत्त्वावलम्बनात् ।

पूजयामास भावेन स्तवयामास तेन च

॥५॥

ततः स्तुतमथो दृष्ट्वा तथाभूतं हरो हरिम् ।

मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः

॥६॥

तस्मादवतताराशु मण्डलात्पार्थिवस्य च ।

प्रतिष्ठितस्य हरिणा स्वलिंगस्य महेश्वरः

॥७॥

यथोक्तरूपिणं शम्भुं तेजोराशिसमुत्थितम् ।

नमस्कृत्य पुरः स्थित्वा स तुष्टाव विशेषतः

॥८॥

तदा प्राह महादेवः प्रसन्नः प्रहसन्निव ।

सम्प्रेक्ष्य कृपया विष्णुं कृतांजलिपुटं स्थितम्

॥९॥

शङ्कर उवाच

ज्ञातं मयेदं सकलं तव चित्तेप्सितं हरे ।

देवकार्यं विशेषेण देवकार्य्यरतात्मनः

॥१०॥

देवकार्य्यस्य सिद्ध्यर्थं दैत्यनाशाय चाश्रमम् ।

सुदर्शनाख्यं चक्रं च ददामि तव शोभनम्

॥११॥

यद्रूपं भवता दृष्टं सर्वलोकसुखावहम् ।

हिताय तव देवेश धृतं भावय तद्ध्रुवम्

॥१२॥

रणाजिरे स्मृतं तद्वै देवानां दुःखनाशनम् ।

इदं चक्रमिदं रूपमिदं नामसहस्रकम्

॥१३॥

ये शृण्वन्ति सदा भक्त्या सिद्धि स्यादनपायिनी ।

कामानां सकलानां च प्रसादान्मम सुव्रत

॥१४॥

सूत उवाच

एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।

सुदर्शनं स्वपादोत्थं सर्वशत्रुविनाशनम्

॥१५॥

विष्णुश्चापि सुसंस्कृत्य जग्राहोदङ्मुखस्तदा ।

नमस्कृत्य महादेवं विष्णुर्वचनमब्रवीत्

॥१६॥

विष्णुरुवाच

शृणु देव मया ध्येयं पठनीयं च किं प्रभो ।

दुःखानां नाशनार्थं हि वद त्वं लोकशंकर

॥१७॥

सूत उवाच

इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् ।

प्रसन्नमानसो भूत्वा विष्णुं देवसहायकम्

॥१८॥

शिव उवाच

रूपं ध्येयं हरे मे हि सर्वानर्थप्रशान्तये ।

अनेकदुःखनाशार्थं पठ नामसहस्रकम्

॥१९॥

धार्य्यं चक्रं सदा मे हि सवार्भीष्टस्य सिद्धये ।

त्वया विष्णो प्रयत्नेन सर्वचक्रवरं त्विदम्

॥२०॥

अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः ।

तेषां दुःखं न स्वप्नेऽपि जायते नात्र संशयः

॥२१॥

राज्ञा च संकटे प्राप्ते शतावृत्तिं चरेद्यदा ।

साङ्गः च विधिसंयुक्तं कल्याणं लभते नरः

॥२२॥

रोगनाशकरं ह्येतद्विद्यावित्तदमुत्तमम् ।

सर्वकामप्रदं पुण्यं शिवभक्तिप्रदं सदा

॥२३॥

यदुद्दिश्य फलं श्रेष्ठं पठिष्यन्ति नरास्त्विह ।

सप्स्यन्ते नात्र संदेहः फलं तत्सत्यमुत्तमम्

॥२४॥

यश्च प्रातस्समुत्थाय पूजां कृत्वा मदीयिकाम् ।

पठते मत्समक्षं वै नित्यं सिद्धिर्न दूरतः

॥२५॥

ऐहिकीं सिद्धिमाप्नोति निखिलां सर्वकामिकाम् ।

अन्ते सायुज्यमुक्तिं वै प्राप्नोत्यत्र न संशयः

॥२६॥

सूत उवाच

एवमुक्त्वा तदा विष्णुं शंकरः प्रीतमानसः ।

उपस्पृश्य कराभ्यां तमुवाच गिरिशः पुनः

॥२७॥

शिव उवाच

वरदोऽस्मि सुरश्रेष्ठ वरान्वृणु यथेप्सितान् ।

भक्त्या वशीकृतो नूनं स्तवेनानेन सुव्रतः

॥२८॥

सूत उवाच

इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।

सुप्रसन्नतरो विष्णुस्सांजलिर्वाक्यमब्रवीत्

॥२९॥

विष्णुरुवाच

यथेदानीं कृपानाथ क्रियते चान्यतः परा ।

कार्य्या चैव विशेषेण कृपालुत्वात्त्वया प्रभो

॥३०॥

त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ।

नान्यमिच्छामि भक्तानामार्त्तयो नैव यत्प्रभो

॥३१॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्य दया वान्सुतरां भवः ।

पस्पर्श च तदंगं वै प्राह शीतांशुशेखरः

॥३२॥

शिव उवाच

मयि भक्तिस्सदा ते तु हरे स्यादनपायिनी ।

सदा वन्द्यश्च पूज्यश्च लोके भव सुरैरपि

॥३३॥

विष्वंभरेति ते नाम सर्वपापहरं परम् ।

भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम

॥३४॥

सूत उवाच

इत्युक्त्वांतर्दधे रुद्रस्सर्वदेवेश्वरः प्रभुः ।

पश्यतस्तस्य विष्णोस्तु तत्रैव च मुनीश्वराः

॥३५॥

जनार्दनोऽपि भगवान्वचनाच्छङ्करस्य च ।

प्राप्य चक्रं शुभं तद्वै जहर्षाति स्वचेतसि

॥३६॥

कृत्वा ध्यानं च तच्छम्भोः स्तोत्रमेतन्निरन्तरम् ।

पपाठाध्यापयामास भक्तेभ्यस्तदुपादिशत्

॥३७॥

इति पृष्टं मयाख्यातं शृण्वताम्पापहारकम् ।

अतःपरं च किं श्रेष्ठाः प्रष्टुमिच्छथ वै पुनः

॥३८॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामस्तोत्रफलवर्णनं नाम षट्त्रिंशोध्यायः ॥ ३६ ॥