देवर्षिनृपशैवत्ववर्णनम्
ऋषय ऊचुः
सूतसूत महाभाग ज्ञानवानसि सुव्रत ।
पुनरेव शिवस्य वै चरितं ब्रूहि विस्तरात्
॥१॥पुरातनाश्च राजान ऋषयो देवतास्तथा ।
आराधनञ्च तस्यैव चकुर्देववरस्य हि
॥२॥सूत उवाच
साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः ।
चरित्रं शांकरं रम्यं शृण्वतां भुक्तिमुक्तिदम्
॥३॥एतदेव पुरा पृष्टो नारदेन पितामहः ।
प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम्
॥४॥ब्रह्मोवाच
शृणु नारद सुप्रीत्या शांकरं चरितं वरम् ।
प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम्
॥५॥रमया सहितो विष्णुश्शिवपूजां चकार ह ।
कृपया परमेशस्य सर्वान्कामानवाप हि
॥६॥अहं पितामहश्चापि शिवपूजनकारकः ।
तस्यैव कृपया तात विश्वसृष्टिकरस्सदा
॥७॥शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः ।
अन्ये च ऋषयो ये ते शिवपूजनकारकाः
॥८॥नारद त्वं विशेषेण शिवपूजनकारकः ।
सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः
॥९॥अरुंधती मदासाध्वी लोपामुद्रा तथैव च ।
अहल्या गौतमस्त्री च शिवपूजनकारिकाः
॥१०॥दुर्वासाः कौशिकश्शक्तिर्दधीचो गौतमस्तथा ।
कणादो भार्गवो जीवो वैशंपायन एव च
॥११॥एते च मुनयस्सर्वे शिवपूजाकरा मताः ।
तथा पराशरो व्यासश्शिवपूजारतस्सदा
॥१२॥उपमन्युर्महाभक्तश्शिवस्य परमात्मनः ।
याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च
॥१३॥शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः ।
अन्येऽपि बहवस्सन्ति मुनयो मुनिसत्तमाः
॥१४॥अदितिर्देवमाता च नित्यं प्रीत्या चकार ह ।
पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा
॥१५॥शक्रादयो लोकपाला वसवश्च सुरास्तथा ।
महाराजिकदेवाश्च साध्याश्च शिवपूजकाः
॥१६॥गन्धर्वा किन्नराद्याश्चोपसुराश्शिवपूजकाः ।
तथाऽसुरा महात्मानश्शिवपूजाकरा मताः
॥१७॥हिरण्यकशिपुर्देत्यस्सानुजत्ससुतो मुने ।
शिवपूजाकरो नित्यं विरोचनबली तथा
॥१८॥महाशैव स्मृतो बाणो हिरण्याक्षसुतास्तथा ।
वृषपर्वा दनुस्तात दानवाः शिवपूजकाः
॥१९॥शेषश्च वासुकिश्चैव तक्षकश्च तथा परे ।
शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः
॥२०॥सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्त्तकौ ।
शिवसेवारतौ नित्यं सवंश्यौ तौ मुनीश्वर
॥२१॥मनवश्च तथा चक्रुस्स्वायंभुवपुरस्सराः ।
शिवपूजां विशेषेण शिववेषधरा मुने
॥२२॥प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः ।
तद्वंशाश्चैव राजानश्शिवपूजनकारकाः
॥२३॥ध्रुवश्च ऋषभश्चैव भरतो नव योगिनः ।
तद्भ्रातरः परे चापि शिवपूजनकारकाः
॥२४॥वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः ।
शिवपूजारतात्मानः सर्वदा सुखभोगिनः
॥२५॥ककुत्स्थश्चापि मांधाता सगरश्शैवसत्तमः ।
मुचुकुन्दो हरिश्चन्द्रः कल्माषांघ्रिस्तथैव च
॥२६॥भगीरथादयो भूपा बहवो नृपसत्तमाः ।
शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः
॥२७॥खट्वांगश्च महाराजो देवसाहाय्यकारकः ।
विधितः पार्थिवीम्मूर्तिं शिवस्यापूजयत्सदा
॥२८॥तत्पुत्रो हि दिलीपश्च शिवपूजनकृत्सदा ।
रघुस्तत्तनयः शैवः सुप्रीत्याः शिवपूजकः
॥२९॥अजश्शिवार्चकस्तस्य तनयो धर्मयुद्धकृत् ।
जातो दशरथो भूयो महाराजो विशेषतः
॥३०॥पुत्रार्थे पार्थिवी मूर्त्ति शैवी दशरथो हि सः ।
समानर्च विशेषेण वसि ष्ठस्याज्ञया मुनेः
॥३१॥पुत्रेष्टिं च चकारासौ पार्थिवो भवभक्तिमान् ।
ऋष्यशृङ्गमुनेराज्ञां संप्राप्य नृपसत्तमः
॥३२॥कौसल्या तत्प्रिया मूर्त्ति पार्थिवीं शांकरीं मुदा ।
ऋष्यशृंगसमादिष्टा समानर्च सुताप्तये
॥३३॥सुमित्रा च शिवं प्रीत्या कैकेयी नृपवल्लभा ।
पूजयामास सत्पुत्रप्राप्तये मुनिसत्तम
॥३४॥शिवप्रसादतस्ता वै पुत्रान्प्रापुश्शुभंकरान् ।
महाप्रतापिनो वीरान्सन्मार्गनिरतान्मुने
॥३५॥ततः शिवाज्ञया तस्मात्तासु राज्ञस्स्वयं हरिः ।
चतुर्भिश्चैव रूपैश्चाविर्बभूव नृपात्मजः
॥३६॥कौसल्यायाः सुतो राम सुमित्रायाश्च लक्ष्मण ।
शत्रुघ्नश्चैव कैकेय्या भरतश्चेति सुव्रताः
॥३७॥रामस्ससहजो नित्यं पार्थिवं समपूजयत् ।
भस्म रुद्राक्षधारी च विरजागममास्थितः
॥३८॥तद्वंशे ये समुत्पन्ना राजानः सानुगा मुने ।
ते सर्वे पार्थिवं लिंगं शिवस्य समपूजयन्
॥३९॥सुद्युम्नश्च महाराजश्शैवो मुनिसुतो मुने ।
शिवशापात्प्रियाहेतोरभून्नारी ससेवकः
॥४०॥पार्थिवेशसमर्चातः पुनस्सोऽभूत्पुमान्वरः ।
मासं स्त्री पुरुषो मासमेवं स्त्रीत्वं न्यवर्त्तत
॥४१॥ततो राज्यं परित्यज्य शिवधर्मपरायणः ।
शिववेषधरो भक्त्या दुर्लभं मोक्षमाप्तवान्
॥४२॥पुरूरवाश्च तत्पुत्रो महाराजस्तु पूजक ।
शिवस्य देवदेवस्य तत्सुतः शिवपूजकः
॥४३॥भरतस्तु महापूजां शिवस्यैव सदाकरोत् ।
नहुषश्च महा शैवः शिवपूजारतो ह्यभूत्
॥४४॥ययातिः शिवपूजातः सर्वान्कामानवाप्तवान् ।
अजीजनत्सुतान्पंच शिवधर्मपरायणान्
॥४५॥तत्सुता यदुमुख्याश्च पंचापि शिवपूजकाः ।
शिवपूजाप्रभावेण सर्वान्कामांश्च लेभिरे
॥४६॥अन्येऽपि ये महाभागाः समानर्चुश्शिवं हि ते ।
तद्वंश्या अन्यवंश्याश्च भुक्तिमुक्तिप्रदं मुने
॥४७॥कृष्णेन च कृतं नित्यं बदरीपर्वतोत्तमे ।
पूजनं तु शिवस्यैव सप्तमासावधि स्वयम्
॥४८॥प्रसन्नाद्भगवांस्तस्माद्वरान्दिव्यानने कशः ।
सम्प्राप्य च जगत्सर्वं वशेऽनयत शङ्करात्
॥४९॥प्रद्युम्नः तत्सुतस्तात शिवपूजाकरस्सदा ।
अन्ये च कार्ष्णिप्रवरास्साम्बाद्याश्शिवपूजकाः ।
4.37.५० जरासंधो महाशैवस्तद्वंश्याश्च नृपास्तथा ।
निमिश्शैवश्च जनकस्तत्पुत्राश्शिवपूजकाः
॥५१॥नलेन च कृता पूजा वीरसेनसुतेन वै ।
पूर्वजन्मनि यो भिल्लो वने पान्थसुरक्षकः
॥५२॥यतिश्च रक्षितस्तेन पुरा हरसमीपतः ।
स्वयंव्याघ्रादिभी रात्रौ भक्षितश्च मृतो वृषात्
॥५३॥तेन पुण्यप्रभावेण स भिल्लो हि नलोऽभवत् ।
चक्रवर्ती महाराजो दमयन्ती प्रियोऽभवत्
॥५४॥इति ते कथितं तात यत्पृष्टं भवतानघ ।
शाङ्करं चरितं दिव्यं किमन्यत्प्रष्टुमिच्छसि
॥५५॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां देवर्षिनृपशैवत्ववर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥