ब्राह्मणीमरणवर्णनम्
सूत उवाच
कालंजरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ।
लिंगरूपस्सदा चैव भक्तानन्दप्रदः सदा
॥१॥महिमा तस्य दिव्योस्ति श्रुतिस्मृतिप्रकीतितः ।
तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत्
॥२॥रेवातीरे यानि सन्ति शिवलिंगानि सुव्रताः ।
सर्वसौख्यकराणीह तेषां संख्या न विद्यते
॥३॥सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ।
तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः
॥४॥तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ।
प्रधानशिवलिंगानि भुक्तिमुक्तिप्रदानि च
॥५॥आर्तेश्वरसुनामा हि वर्तते पापहारकः ।
परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः
॥६॥शर्मेशश्च तथा चात्र कुमारेश्वर एव च ।
पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च
॥७॥तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ।
धुंधुरेश्वरनामासीत्पापहा नर्मदातटे
॥८॥शूलेश्वर इति ख्यातस्तथा कुंभेश्वरः स्मृतः ।
कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः
॥९॥नीलकण्ठो मंगलेशो मंगलायतनो महान् ।
महाकपीश्वरो देवः स्थापितो हि हनूमता
॥१०॥ततश्च नंदिको देवो हत्याकोटिनिवारकः ।
सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तित.
॥११॥नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ।
नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः
॥१२॥तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ।
तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति
॥१३॥ऋषय ऊचुः
एवं तस्य च माहात्म्यं कथं तत्र महामते ।
नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना
॥१४॥सूत उवाच
सम्यक्पृष्टं भवद्भिश्च कथयामि यथाश्रुतम् ।
शौनकाद्याश्च मुनयः सर्वे हि शृणुतादरात्
॥१५॥पुरा युधिष्ठिरेणैव पृष्टश्च ऋषिसत्तमः ।
यथोवाच तथा वच्मि भवत्स्नेहानुसारतः
॥१६॥रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ।
विराजते सुशोभाढ्या चतुर्वर्णसमाकुला
॥१७॥तत्र द्विजवरः कश्चिदुत्तस्य? कुलसम्भवः ।
काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम्
॥१८॥तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतन्तदा ।
तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ
॥१९॥पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ।
पुत्रौ च वर्जयित्वा च विभक्तं वै धनं तया
॥२०॥स्वीयं च रक्षितं किंचिद्धनं मरणहेतवे ।
ततश्च द्विजपत्नी हि कियत्कालं मृता च सा
॥२१॥कदाचित्क्रियमाणा सा विविधं पुण्यमाचरत् ।
न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः
॥२२॥यदा प्राणान्न मुमुचे माता दैवात्तयोश्च सा ।
तद्दृष्ट्वा जननीकष्टं पुत्रकावूचतुस्तदा
॥२३॥पुत्रावूचतुः
किं न्यूनं विद्यते मातः कष्टं यद्विद्यते महत् ।
व्रियतां तदृतं प्रीत्या तदावां करवावहे
॥२४॥सूत उवाच
तच्छ्रुत्वोक्तं तया तत्र न्यूनं तु विद्यते बहु ।
तदेव क्रियते चेद्वै सुखेन मरणं भवेत्
॥२५॥ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतान्त्वया ।
करिष्यामि तदेतद्धि तया च कथितन्तदा
॥२६॥द्विजपत्न्युवाच
शृणु पुत्र वचः प्रीत्या पुरासीन्मे मनः स्पृहा ।
काश्यां गंतुं तथा नासीदिदानीं म्रियते पुनः
॥२७॥ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ।
गंगाजले शुभं तेद्य भविष्यति न संशयः
॥२८॥सूत उवाच
इत्युक्ते च तया मात्रा स ज्येष्ठतनयोब्रवीत् ।
मातरं मातृभक्तिस्तु सुव्रतां मरणोन्मुखीम्
॥२९॥पुत्र उवाच
मातस्त्वया सुखेनैव प्राणास्त्याज्या न संशयः ।
तव कार्यं पुरा कृत्वा पश्चात्कार्यं मदीयकम्
॥३०॥इति हस्ते जलं दत्त्वा यावत्पुत्रो गृहं गतः ।
तावत्सा च मृता तत्र हरस्मरणतत्परा
॥३१॥तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ।
मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे
॥३२॥द्वयोः श्रेष्ठतमो यो वै सुवादो नाम विश्रुतः ।
तदस्थीनि समादाय निस्सृतस्तीर्थकाम्यया
॥३३॥संगृह्य सेवकं कंचित्तेनैव सहितस्तदा ।
आश्वास्य भार्य्यापुत्राँश्च मातुः प्रियचिकीर्षया
॥३४॥श्राद्धदानादिकं भोज्यं कृत्वा विधिमनुत्तमम् ।
मंगलस्मरणं कृत्वा निर्जगाम गृहाद्द्विजः
॥३५॥तद्दिने योजनं गत्वा विंशति ग्रामके शुभे ।
उवासास्तं गते भानौ गृहे विप्रस्य कस्यचित्
॥३६॥चक्रे सन्ध्यादिसत्कर्म स द्विजो विधिपूर्वकम् ।
स्तवादि कृतवांस्तत्र शंभोरद्भुतकर्मणः
॥३७॥सेवकेन तदा युक्तो ब्राह्मणः संस्थितस्तदा ।
यामिनी च गता तत्र मुहूर्तद्वयसंमिता
॥३८॥एतस्मिन्नंतरे तत्रैकमाश्चर्य्यमभूत्तदा ।
शृणुतादरतस्तच्च मुनयो वो वदाम्यहम्
॥३९॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥