मुक्तिर्नाम त्वया प्रोक्ता तस्यां किं नु भवेदिह
ऋषय ऊचुः
मुक्तिर्नाम त्वया प्रोक्ता तस्यां किं नु भवेदिह ।
अवस्था कीदृशी तत्र भवेदिति वदस्व नः
॥१॥सूत उवाच
मुक्तिश्चतुर्विधा प्रोक्ता श्रूयतां कथयामि वः ।
संसारक्लेशसंहर्त्री परमानन्ददायिनी
॥२॥सारूप्या चैव सालोक्या सान्निध्या च तथा परा ।
सायुज्या च चतुर्थी सा व्रतेनानेन या भवेत्
॥३॥मुक्तेर्दाता मुनिश्रेष्ठाः केवलं शिव उच्यते ।
ब्रह्माद्या न हि ते ज्ञेया केवलं च त्रिवर्गदाः
॥४॥ब्रह्माद्यास्त्रिगुणाधीशाश्शिवस्त्रिगुणतः परः ।
निर्विकारी परब्रह्म तुर्यः प्रकृतितः परः
॥५॥ज्ञानरूपोऽव्ययः साक्षी ज्ञानगम्योऽद्वयस्स्वयम् ।
कैवल्यमुक्तिदस्सोऽत्र त्रिवर्गस्य प्रदोऽपि हि
॥६॥कैवल्याख्या पंचमी च दुर्लभा सर्वथा नृणाम् ।
तल्लक्षणं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः
॥७॥उत्पद्यते यतः सर्वं येनैतत्पाल्यते जगत् ।
यस्मिंश्च लीयते तद्धि येन सर्वमिदं ततम्
॥८॥तदेव शिवरूपं हि पठ्यते च मुनीश्वराः ।
सकलं निष्कलं चेति द्विविधं वेदवर्णितम्
॥९॥विष्णुना तच्च न ज्ञातं ब्रह्मणा न च तत्तथा ।
कुमाराद्यैश्च न ज्ञातं न ज्ञातं नारदेन वै
॥१०॥शुकेन व्यास पुत्रेण व्यासेन च मुनीश्वरैः।
तत्पूर्वैश्चाखिलैर्देवैर्वेदैः शास्त्रैस्तथा न हि
॥११॥सत्यं ज्ञानमनंतं च सच्चिदानन्दसंज्ञितम् ।
निर्गुणो निरुपाधिश्चाव्ययः शुद्धो निरंजनः
॥१२॥न रक्तो नैव पीतश्च न श्वेतो नील एव च ।
न ह्रस्वो न च दीर्घश्च न स्थूलस्सूक्ष्म एव च
॥१३॥यतो वाचो निवर्तंते अप्राप्य मनसा सह ।
तदेव परमं प्रोक्तं ब्रह्मैव शिवसंज्ञकम्
॥१४॥आकाशं व्यापकं यद्वत्तथैव व्यापकन्त्विदम् ।
मायातीतं परात्मानं द्वन्द्वातीतं विमत्सरम्
॥१५॥तत्प्राप्तिश्च भवेदत्र शिवज्ञानोदयाद्ध्रुवम् ।
भजनाद्वा शिवस्यैव सूक्ष्ममत्या सतां द्विजाः
॥१६॥ज्ञानं तु दुष्करं लोके भजनं सुकरं मतम् ।
तस्माच्छिवं च भजत मुक्त्यर्थमपि सत्तमाः
॥१७॥शिवो हि भजनाधीनो ज्ञानात्मा मोक्षदः परः ।
भक्त्यैव बहवः सिद्धा मुक्तिं प्रापुः परां मुदा
॥१८॥ज्ञानमाता शंभुभक्तिर्मुक्तिभुक्तिप्रदा सदा ।
सुलभा यत्प्रसादाद्धि सत्प्रेमांकुर लक्षणा
॥१९॥सा भक्तिर्विविधा ज्ञेया सगुणा निर्गुणा द्विजाः ।
वैधी स्वाभाविकी याया वरा सासा स्मृता परा
॥२०॥नैष्ठिक्यनैष्ठिकीभेदाद्विविधैव हि कीर्तिता ।
षड्विधा नैष्ठिकी भेदाद्द्वितीयैकविधा स्मृता
॥२१॥विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।
तयोर्बहुविधत्वाच्च विस्तारो न हि वर्ण्यते
॥२२॥ते नवांगे उभे ज्ञेये श्रवणादिकभेदतः ।
सुदुष्करे तत्प्रसादं विना च सुकरे ततः
॥२३॥भक्तिज्ञाने न भिन्ने हि शंभुना वर्णिते द्विजाः ।
तस्माद्भेदो न कर्तव्यस्तत्कर्तुस्सर्वदा सुखम्
॥२४॥विज्ञानं न भवत्येव द्विजा भक्तिविरोधिनः ।
शंभुभक्तिकरस्यैव भवेज्ज्ञानोदयो द्रुतम्
॥२५॥तस्माद्भक्तिर्महेशस्य साधनीया मुनीश्वराः ।
तयैव निखिलं सिद्धं भविष्यति न संशयः
॥२६॥इति पृष्टं भवद्भिर्यत्तदेव कथितं मया ।
तच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥२७॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां मुक्तिनिरूपणं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥