मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय २५

3
कोटिरुद्रसंहिता · 25

गौतमव्यवस्थावर्णनम्

सूत उवाच

कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।

शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः

॥१॥

शिष्याञ्जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ।

जलार्थमगतांस्तत्र चर्षिपत्न्योप्यनेकशः

॥२॥

ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ।

पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन्

॥३॥

परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ।

सा चापि तान्समादाय समाश्वास्य च तैः स्वयम्

॥४॥

जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ।

नित्यं निर्वाहयामास जलेन ऋषिसत्तमः

॥५॥

ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ।

परावृत्य गतास्सर्वास्तूटजान्कुटिलाशयाः

॥६॥

स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः ।

दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम्

॥७॥

अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ।

गौतमाय च संकुद्धाश्चासंस्ते परमर्षयः

॥८॥

विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः ।

गणेशं पूजयामासुस्संकुद्धास्ते कुबुद्धयः

॥९॥

आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ।

उवाच वचनं तत्र भक्ताधीनः फलप्रदः

॥१०॥

गणेश उवाच

प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ।

तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽबुवंस्तदा

॥११॥

ऋषय ऊचुः

त्वया यदि वरो देयो गौतमस्स्वाश्रमाद्बहिः ।

निष्कास्यं नो ऋषिभिः परिभर्त्स्य तथा कुरु

॥१२॥

सूत उवाच

स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ।

प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः

॥१३॥

गणेश उवाच

श्रूयतामृषयस्सर्वे युक्तं न क्रियतेऽधुना ।

अपराधं विना तस्मै क्रुध्यतां हानिरेव च

॥१४॥

उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ।

यदा च दीयते दुःखं तदा नाशो भवेदिह

॥१५॥

ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ।

शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः

॥१६॥

सूत उवाच

इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ।

बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन्

॥१७॥

ऋषय ऊचुः

कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ।

इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत्

॥१८॥

गणेश उवाच

असाधुस्साधुतां चैव साधुश्चासाधुतां तथा ।

कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम्

॥१९॥

यदा च भवतां दुःखं जातं चानशनात्पुरा ।

तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा

॥२०॥

इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ।

नेतद्युक्ततमं लोके सर्वथा सुविचार्यताम्

॥२१॥

स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ।

एतद्धिततमं तस्य भविष्यति न संशयः

॥२२॥

पुनश्चायमृषिश्रेष्ठो दास्यते वस्सुखं ध्रुवम् ।

तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै

॥२३॥

सूत उवाच

इत्येवं वचनं तेन गणेशेन महात्मना ।

यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे

॥२४॥

भक्ताधीनतया सोथ शिवपुत्रोब्रवीत्तदा ।

उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन्

॥२५॥

गणेश उवाच

भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ।

पश्चाद्भावि भवेदेव इत्युक्त्वांतर्दधे पुनः

॥२६॥

गौतमस्स न जानाति मुनीनां वै दुराशयम् ।

आनन्दमनसा नित्यं पत्न्या कर्म चकार तत्

॥२७॥

तदन्तरे च यज्जातं चरितं वरयोगतः ।

तद्दुष्टर्षिप्रभावात्तु श्रूयतां तन्मुनीश्वराः

॥२८॥

गौतमस्य च केदारे तत्रासन्व्रीहयो यवाः ।

गणेशस्तत्र गौर्भूत्वा जगाम किल दुर्बला

॥२९॥

कंपमाना च सा गत्वा तत्र तद्वरयोगतः ।

व्रीहीन्संभक्षयामास यवांश्च मुनिसत्तमाः

॥३०॥

एतस्मिन्नन्तरे दैवाद्गौतमस्तत्र चागतः ।

स दयालुस्तृणस्तंम्बैर्वारयामास तां तदा

॥३१॥

तृणस्तंबेन सा स्पृष्टा पपात पृथिवीतले ।

मृता च तत्क्षणादेव तदृषेः पश्यतस्तदा

॥३२॥

ऋषयश्छन्नरूपास्ते ऋषिपत्न्यस्तथाशुभाः ।

ऊचुस्तत्र तदा सर्वे किं कृतं गौतमेन च

॥३३॥

गौतमोऽपि तथाहल्यामाहूयासीत्सुविस्मितः ।

उवाच दुःखतो विप्रा दूयमानेन चेतसा

॥३४॥

गौतम उवाच

किं जातं च कथं देवि कुपितः परमेश्वरः ।

किं कर्तव्यं क्व गन्तव्यं हत्या च समुपस्थिता

॥३५॥

सूत उवाच

एतस्मिन्नन्तरे विप्रो गौतमं पर्यभर्त्सयन् ।

विप्रपत्न्यस्तथाऽहल्यां दुर्वचोभिर्व्यथां ददुः

॥३६॥

दुर्बुद्धयश्च तच्छिष्यास्सुतास्तेषां तथैव च ।

गौतम परिभर्त्स्यैव प्रत्यूचुर्धिग्वचो मुहुः

॥३७॥

ऋषय ऊचुः

मुखं न दर्शनीयं ते गम्यतां गम्यतामिति ।

दृष्ट्वा गोघ्नमुखं सद्यस्सचैलं स्नानमाचरेत्

॥३८॥

यावदाश्रममध्ये त्वं तावदेव हविर्भुजः ।

पितरश्च न गृह्णंति ह्यस्मद्दत्तं हि किञ्चन

॥३९॥

तस्माद्गच्छान्यतस्त्वं च परिवारसमन्वितः ।

विलम्बं कुरु नैव त्वं धेनुहन्पापकारक

॥४०॥

सूत उवाच

इत्युक्त्वा ते च तं सर्वे पाषाणैस्समताडयन् ।

व्यथां ददुरतीवास्मै त्वहल्यां च दुरुक्तिभिः

॥४१॥

ताडितो भर्त्सितो दुष्टैर्गौतमो गिरमब्रवीत् ।

इतो गच्छामि मुनयो ह्यन्यत्र निवसाम्यहम्

॥४२॥

इत्युक्त्वा गौतमस्तस्मात्स्थानाच्च निर्गतस्तदा ।

गत्वा क्रोशं तदा चक्रे ह्याश्रमं तदनुज्ञया

॥४३॥

यावच्चैवाभिशापो वै तावत्कार्य्यं न किंचन ।

न कर्मण्यधिकारोऽस्ति दैवे पित्र्येऽथ वैदिके

॥४४॥

मासार्धं च ततो नीत्वा मुनीन्संप्रार्थयत्तदा ।

गौतमो मुनिवर्य्यस्स तेन दुःखेन दुखितः

॥४५॥

गौतम उवाच

अनुकंप्यो भवद्भिश्च कथ्यतां क्रियते मया ।

यथा मदीयं पापं च गच्छत्विति निवेद्यताम्

॥४६॥

सूत उवाच

इत्युक्तास्ते तदा विप्रा नोचुश्चैव परस्परम् ।

अत्यंतं सेवया पृष्टा मिलिता ह्येकतस्स्थिताः

॥४७॥

गौतमो दूरतः स्थित्वा नत्वा तानृषिसत्तमान् ।

पप्रच्छ विनयाविष्टः किं कार्यं हि मयाधुना

॥४८॥

इत्युक्ते मुनिना तेन गौतमेन महात्मना ।

मिलितास्सकलास्ते वै मुनयो वाक्यमब्रुवन्

॥४९॥

ऋषय ऊचुः

निष्कृतिं हि विना शुद्धिर्जायते न कदाचन ।

तस्मात्त्वं देहशुद्ध्यर्थं प्रायश्चित्तं समाचर

॥५०॥

त्रिवारं पृथिवीं सर्वां क्रम पापं प्रकाशयन् ।

पुनरागत्य चात्रैव चर मासव्रतं तथा

॥५१॥

शतमेकोत्तरं चैव ब्रह्मणोऽस्य गिरेस्तथा ।

प्रक्रमणं विधायैवं शुद्धिस्ते च भविष्यति

॥५२॥

अथवा त्वं समानीय गंगास्नानं समाचर ।

पार्थिवानां तथा कोटिं कृत्वा देवं निषेवय

॥५३॥

गंगायां च ततः स्नात्वा पुनश्चैव भविष्यति ।

पुरा दश तथा चैकं गिरेस्त्वं क्रमणं कुरु

॥५४॥

शत कुंभैस्तथा स्नात्वा पार्थिवं निष्कृतिर्भवेत् ।

इति तैर्षिभिः प्रोक्तस्तथेत्योमिति तद्वचः

॥५५॥

पार्थिवानां तथा पूजां गिरेः प्रक्रमणं तथा ।

करिष्यामि मुनिश्रेष्ठा आज्ञया श्रीमतामिह

॥५६॥

इत्युक्त्वा सर्षिवर्यश्च कृत्वा प्रक्रमणं गिरेः ।

पूजयामास निर्माय पार्थिवान्मुनिसत्तमः

॥५७॥

अहल्या च ततस्साध्वी तच्च सर्वं चकार सा ।

शिष्याश्च प्रतिशिष्याश्च चक्रुस्सेवां तयोस्तदा

॥५८॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ।