मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय १५

3
कोटिरुद्रसंहिता · 15

मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनम्

सूत उवाच

अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ।

यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते

॥१॥

पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ।

कुमारचरितं दिव्यं सर्वपापविनाशनम्

॥२॥

यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ।

कुमारस्स शिवापुत्रस्तारकारिर्महाबलः

॥३॥

तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ।

गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः

॥४॥

तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ।

जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि

॥५॥

कुमारस्य वियोगेन तन्माता गिरिजा यदा ।

दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत्

॥६॥

कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ।

आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम्

॥७॥

सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ।

तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः

॥८॥

देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ।

कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः

॥९॥

तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ।

विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात्

॥१०॥

देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ।

न मेने स कुमारो हि महाहंकारविह्वलः

॥११॥

ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ।

स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम्

॥१२॥

तदा च गिरिजादेवी विरहं पुत्रसंभवम् ।

शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते

॥१३॥

अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ।

जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः

॥१४॥

स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ।

ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च

॥१५॥

क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ।

तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ

॥१६॥

पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ।

दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः

॥१७॥

अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ।

पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम्

॥१८॥

तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ।

लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये

॥१९॥

तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ।

मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात्

॥२०॥

दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ।

जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः

॥२१॥

धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ।

अभीष्टफलसिद्धिश्च जायते नात्र संशयः

॥२२॥

ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ।

दर्शनात्सर्वसुखदं कथितं लोकहेतवे

॥२३॥

इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥