सुदेहासुधर्मचरितवर्णनम्
सूत उवाच
अतः परं च घुश्मेशं ज्योतिर्लिंगमुदाहृतम् ।
तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमः
॥१॥दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः ।
महाशोभान्वितो नित्यं राजतेऽद्भुत दर्शनः
॥२॥तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः ।
सुधर्मा नाम विप्रश्च न्यवसद्ब्रह्मवित्तमः
॥३॥तस्य प्रिया सुदेहा च शिवधर्मपरायणः ।
पतिसेवापरा नित्यं गृहकर्मविचक्षणा
॥४॥सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः ।
वेदमार्गपरो नित्यमग्नि सेवापरायणः
॥५॥त्रिकालसंध्यया युक्तस्सूर्य्यरूपसमद्युतिः ।
शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः
॥६॥धनवांश्च परो दाता सौजन्यगुणभाजनः ।
शिवकर्मरतो नित्यं शैवश्शैवजनप्रियः
॥७॥आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः ।
पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः
॥८॥तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि ।
आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः
॥९॥इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा ।
सुदेहा च तदा दुःखं चकार पुत्रसम्भवम्
॥१०॥नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने ।
पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम्
॥११॥सोऽपि स्त्रियं तदा भर्त्स्य किं पुत्रश्च करिष्यति ।
का माता कः पिता पुत्रः को बंधुश्च प्रियश्च कः
॥१२॥सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः ।
जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु
॥१३॥तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् ।
नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते
॥१४॥एवं तां सन्निवार्य्यैव भगवद्धर्मतत्परः ।
आसीत्परमसंतुष्टो द्वन्द्वदुःखं समत्यजत्
॥१५॥कदाचिच्च सुदेहा वै गेहे च सहवासिनः ।
जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र संगतः
॥१६॥तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा ।
उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी
॥१७॥द्विजपत्न्युवाच
अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् ।
मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते
॥१८॥नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः ।
धिग्धिक्त्वां ते धनं धिक्च धिक्ते मानं हि वन्ध्यके
॥१९॥सूत उवाच
भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता ।
स्वामिने कथयामास तदुक्तं सर्वमादरात्
॥२०॥ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् ।
कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये
॥२१॥इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः ।
न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ
॥२२॥सुदेहोवाच
यथा तथा त्वया पुत्रस्समुत्पाद्यः प्रियोऽसि मे ।
त्यक्षामि ह्यन्यथाहं च देहं देहभृतां वर
॥२३॥सूत उवाच
एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः ।
शिवं सस्मार मनसा तदाग्रहनिपीडितः
॥२४॥अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतंद्रितः ।
मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम्
॥२५॥एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणस्स च ।
अनयोर्ग्राह्यमेकं ते पुष्पं पुत्र फलाप्तये
॥२६॥तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम ।
तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम्
॥२७॥इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा ।
नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम्
॥२८॥स्वामिना चिंतितं यच्च तद्गृहीतं तया न हि ।
सुदेहया विमोहेन शिवेच्छासंभवेन वै
॥२९॥तद्दृष्ट्वा पुरुषश्चैव निश्वासं पर्यमोचयत् ।
स्मृत्वा शिवपदांभोजमुवाच निजकामिनीम्
॥३०॥सुधर्मोवाच
निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् ।
आशां त्यज प्रिये त्वं च परिचर्य्यां कुरु प्रभोः
॥३१॥इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च ।
धर्मकार्यरतस्सोऽभूच्छंकरध्यानतत्परः
॥३२॥सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया ।
प्रत्युवाच पतिं प्रेम्णा सांजलिर्नतमस्तका
॥३३॥सुदेहोवाच
मयि पुत्रो न चास्त्वन्या पत्नीं कुरु मदाज्ञया ।
तस्यां नूनं सुतश्चैव भविष्यति न संशयः
॥३४॥सूत उवाच
तदैव प्रथितो वै स ब्रह्मणश्शैवसत्तमः ।
उवाच स्वप्रियां तां च सुदेहां धर्म तत्परः
॥३५॥सुधर्मोवाच
त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् ।
तस्मात्त्वं धर्मविघ्नं च प्रियो मा कुरु सांप्रतम्
॥३६॥सूत उवाच
इत्येवं वारिता सा च स्वामातुः पुत्रिकां तदा ।
गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ
॥३७॥सुधर्मोवाच
इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः ।
पुत्रसूश्च यदा स्याद्वै तदा स्पर्द्धां करिष्यसि
॥३८॥सूत उवाच
इत्युक्त्वा तेन पतिना सा सुदेहा च तत्प्रिया ।
पुनः प्राह करौ बद्ध्वा सुधर्माणं पतिं द्विजाः
॥३९॥( नाहं स्पर्द्धां भगिन्या वै करिष्ये द्विजसत्तम ।
उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च ।
) इत्येवं प्रार्थितस्सोऽपि सुधर्मा प्रियया तया ।
घुश्मां तां समुपायंस्त विवाहविधिना द्विजः
॥४०॥ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः ।
त्वदीयेयं कनिष्ठा हि सदा पोष्यानघे प्रिये
॥४१॥उक्तैव स च धर्मात्मा सुधर्मा शैवसत्तमः ।
यथायोग्यं चकाराशु धर्मसंग्रहमात्मनः
॥४२॥सा चापि मातृपुत्रीं तां दासीवत्पर्यवर्त्तत ।
परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया
॥४३॥कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च ।
पार्थिवान्सा चकाराशु श्रियमेकोत्तरं शतम्
॥४४॥विधानपूर्वकं घुष्मा सोपचारसमन्वितम् ।
कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते
॥४५॥एवं नित्यं सा चकार शिवपूजां स्वकामदाम् ।
विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः
॥४६॥कुर्वन्त्या नित्यमेवं हि तस्याश्शंकरपूजनम् ।
लक्षसंख्याभवत्पूर्णा सर्वकामफलप्रदा
॥४७॥कृपया शंकरस्यैव तस्याः पुत्रो व्यजायत ।
सुन्दरस्सुभगश्चैव कल्याणगुणभाजम्
॥४८॥तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः ।
अनासक्तस्सुखं भेजे ज्ञानधर्मपरायणः
॥४९॥सुदेहा तावदस्यास्तु स्पर्द्धामुग्रां चकार सा ।
प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः
॥५०॥ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् ।
सावधानेन मनसा श्रूयतां तन्मुनीश्वरा
॥५१॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां घुश्मेश्वरमाहात्म्ये सुदेहासुधर्मचरितवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥