मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय १४

3
कोटिरुद्रसंहिता · 14

सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनम्

ऋषय ऊचुः

ज्योतिषां चैव लिंगानां माहात्म्यं कथयाधुना ।

उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम्

॥१॥

सूत उवाच

शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ।

संक्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम्

॥२॥

एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ।

शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः

॥३॥

सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ।

तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः

॥४॥

सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ।

तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः

॥५॥

चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ।

चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम्

॥६॥

हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ।

एवं च समये तस्य यज्जातं श्रूयतामिति

॥७॥

सर्वास्वपि च पत्नीषु रोहिणीनाम या स्मृता ।

यथैका सा प्रिया चासीत्तथान्या न कदाचन

॥८॥

अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ।

गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम्

॥९॥

दक्षस्स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ।

समागत्य द्विजाश्चन्द्रं शान्त्यावोचद्वचस्तदा

॥१०॥

दक्ष उवाच

विमले च कुले त्वं हि समुत्पन्नः कलानिधे ।

आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव

॥११॥

कृतं चेत्तकृतं तच्च न कर्तव्यं त्वया पुनः ।

वर्तनं विषमत्वेन नरकप्रदमीरितम्

॥१२॥

सूत उवाच

दक्षश्चैव च संप्रार्थ्य चन्द्रं जामातरं स्वयम् ।

जगाम मन्दिरं स्वं वै निश्चयं परमं गतः

॥१३॥

चंद्रोऽपि वचनं तस्य न चकार विमोहितः ।

शिवमायाप्रभावेण यया संमोहितं जगत्

॥१४॥

शुभं भावि यदा यस्य शुभं भवति तस्य वै ।

अशुभं च यदा भावि कथं तस्य शुभं भवेत्

॥१५॥

चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ।

रोहिण्यां च समासक्तो नान्यां मेने कदाचन

॥१६॥

तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ।

प्रार्थयामास चन्द्रं स दक्षो दक्षस्सुनीतितः

॥१७॥

दक्ष उवाच

श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ।

न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव

॥१८॥

सूत उवाच

इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ।

हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते

॥१९॥

देवर्षयस्तदा सर्वे किं कार्य्यं हा कथं भवेत् ।

इति दुःखं समापन्ना विह्वला ह्यभवन्मुने

॥२०॥

विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयस्सुराः ।

ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययु

॥२१॥

गत्वापि तु तदा प्रोचुस्तद्वृत्तं निखिलं मुने ।

ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः

॥२२॥

ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ।

शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह

॥२३॥

ब्रह्मोवाच

अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ।

चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम्

॥२४॥

सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ।

श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम्

॥२५॥

बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ।

तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः

॥२६॥

समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ।

मयाऽत्रिणा निषिद्धश्च तस्मै तारां ददौ शशी

॥२७॥

तां च गर्भवतीं दृष्ट्वा न गृह्णामीति सोऽब्रवीत् ।

अस्माभिर्वारितो जीवः कृच्छ्राज्जग्राह तां तदा

॥२८॥

यदि गर्भं जहातीह गृह्णामीत्यब्रवीत्पुनः ।

गर्भे मया पुनस्तत्र त्याजिते मुनिसत्तमाः

॥२९॥

कस्यायं च पुनर्गर्भस्सोमस्येति च साऽब्रवीत् ।

पश्चात्तेन गृहीता सा मया च वारितेन वै

॥३०॥

एवंविधानि चन्द्रस्य दुश्चारित्राण्यनेकशः ।

वर्ण्यंते किं पुनस्तानि सोऽद्यापि कुरुते कथम्

॥३१॥

यज्जातं तत्सुसंजातं नान्यथा भवति ध्रुवम् ।

अतः परमुपायं वो वक्ष्यामि शृणुतादरात्

॥३२॥

प्रभासके शुभे क्षेत्रे व्रजेश्चन्द्रस्सदैवतैः ।

शिवमाराधयेत्तत्र मृत्युञ्जयविधानतः

॥३३॥

निधायेशं पुरस्तत्र चन्द्रस्तपतु नित्यशः ।

प्रसन्नश्च शिवः पश्चादक्षयं तं करिष्यति

॥३४॥

सूत उवाच

इति श्रुत्वा वचस्तस्य ब्रह्मणस्ते सुरर्षयः ।

संनिवृत्याययुस्सर्वे यत्र दक्षविधू ततः

॥३५॥

गृहीत्वा ते ततश्चन्द्रं दक्षं चाश्वास्य निर्जराः ।

प्रभासे ऋषयश्चक्रुस्तत्र गत्वाखिलाश्च वै

॥३६॥

आवाह्य तीर्थवर्याणि सरस्वत्यादिकानि च ।

पार्थिवेन तदा पूजां मृत्युञ्जयविधानतः

॥३७॥

ते देवाश्च तदा सर्वे ऋषयो निर्मलाशयाः ।

स्थाप्य चन्द्रं प्रभासे च स्वंस्वं धाम ययुर्मुदा

॥३८॥

चन्द्रेण च तपस्तप्तं पण्मासं च निरंतरम् ।

मृत्युंजयेन मंत्रेण पूजितो वृषभध्वजः

॥३९॥

दशकोटिमितं मन्त्रं समावृत्य शशी च तम् ।

ध्यात्वा मृत्युञ्जयं मन्त्रं तस्थौ निश्चलमानसः

॥४०॥

तं दृष्ट्वा शंकरो देवः प्रसन्नोऽभूत्ततः प्रभुः ।

आविर्भूय विधुं प्राह स्वभक्तं भक्तवत्सलः

॥४१॥

शंकर उवाच

वरं वृणीष्व भद्रं ते मनसा यत्समीप्सितम् ।

प्रसन्नोऽहं शशिन्सर्वं दास्ये वरमनुत्तमम्

॥४२॥

चंद्र उवाच

यदि प्रसन्नो देवेश किमसाध्यं भवेन्मम ।

तथापि मे शरीरस्य क्षयं वारय शंकर

॥४३॥

क्षंतव्यो मेऽपराधश्च कल्याणं कुरु सर्वदा ।

इत्युक्ते च तदा तेन शिवो वचनमब्रवीत्

॥४४॥

शिव उवाच

पक्षे च क्षीयतां चन्द्र कला ते च दिनेदिने ।

पुनश्च वर्द्धतां पक्षे सा कला च निरंतरम्

॥४५॥

सूत उवाच

एवं सति तदा देवा हर्षनिर्भरमानसाः ।

ऋषयश्च तथा सर्वे समाजग्मुर्द्रुतं द्विजाः

॥४६॥

आगत्य च तदा सर्वे चन्द्रायाशिषमब्रुवन् ।

शिवं नत्वा करौ बद्ध्वा प्रार्थयामासुरादरात्

॥४७॥

देवाः ऊचुः

देवदेव महादेव परमेश नमोऽस्तु ते ।

उमया सहितश्शंभो स्वामिन्नत्र स्थिरो भव

॥४८॥

सूत उवाच

ततश्चन्द्रेण सद्भक्त्या संस्तुतश्शंकरः पुरा ।

निराकारश्च साकारः पुनश्चैवाभवत्प्रभुः

॥४९॥

प्रसन्नश्च स देवानां क्षेत्रमाहात्म्यहेतवे ।

चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शंकरः

॥५०॥

सोमेश्वरश्च नामासीद्विख्यातो भुवन त्रये ।

क्षयकुष्ठादिरोगाणां नाशकः पूजनाद्द्विजाः

॥५१॥

धन्योऽयं कृतकृत्योयं यन्नाम्ना शंकरस्स्वयम् ।

स्थितश्च जगतां नाथः पावयञ्जगतीतलम्

॥५२॥

तत्कुंडं तैश्च तत्रैव सर्वैर्देवैः प्रतिष्ठितम् ।

शिवेन ब्रह्मणा तत्र ह्यविभक्तं तु तत्पुनः

॥५३॥

चन्द्रकुण्डं प्रसिद्धं च पृथिव्यां पापनाशनम् ।

तत्र स्नाति नरो यस्स सर्वैः पापैः प्रमुच्यते

॥५४॥

रोगास्सर्वे क्षयाद्याश्च ह्यसाध्या ये भवंति वै ।

ते सर्वे च क्षयं यान्ति षण्मासं स्नानमात्रतः

॥५५॥

प्रभासं च परिक्रम्य पृथिवीक्रमसंभवम् ।

फलं प्राप्नोति शुद्धात्मा मृतः स्वर्गे महीयते

॥५६॥

सोमलिंगं नरो दृष्ट्वा सर्वपापात्प्रमुच्यते ।

लब्ध्वा फलं मनोभीष्टं मृतस्स्वर्गं समीहते

॥५७॥

यद्यत्फलं समुद्दिश्य कुरुते तीर्थमुत्तमम् ।

तत्तत्फलमवाप्नोति सर्वथा नात्र संशयः

॥५८॥

इति ते ऋषयो देवाः फलं दृष्ट्वा तथाविधम् ।

मुदा शिवं नमस्कृत्य गृहीत्वा चन्द्रमक्षयम्

॥५९॥

परिक्रम्य च तत्तीर्थं प्रशंसन्तश्च ते ययुः ।

चंद्रश्चापि स्वकीयं च कार्य्यं चक्रे पुरातनम्

॥६०॥

इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ।

एवं सोमेश्वरं लिंगं समुत्पन्नं मुनीश्वराः

॥६१॥

यः शृणोति तदुत्पत्तिं श्रावयेद्वा परान्नरः ।

सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते

॥६२॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥