मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय २४

3
कोटिरुद्रसंहिता · 24

गौतमप्रभाववर्णनम्

सूत उवाच

श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम् ।

कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया

॥१॥

पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ।

अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी

॥२॥

दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ।

तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा

॥३॥

कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ।

वर्षाणां च शतं रौद्री लोका दुःखमुपागताः

॥४॥

आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ।

कुतो जलं विदृश्येत जीवानां प्राणधारकम्

॥५॥

तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ।

पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश

॥६॥

तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ।

ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम्

॥७॥

गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ।

चकार चैव षण्मासं प्राणायामपरायणः

॥८॥

ततश्च वरुणस्तस्मै वरं दातुं समागताः ।

प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत्

॥९॥

ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ।

ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः

॥१०॥

वरुण उवाच

देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ।

अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते

॥११॥

सूत उवाच

इत्येतद्वचनं तस्य वरुणस्य महात्मनः ।

परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत

॥१२॥

गौतम उवाच

यदि प्रसन्नो देवेश यदि देयो वरो मम ।

यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा

॥१३॥

यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ।

अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम्

॥१४॥

सूत उवाच

इति संप्रार्थितस्तेन वरुणो गौतमेन वै ।

उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया

॥१५॥

इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ।

जलेन पूरितस्तेन दिव्येन वरुणेन सः

॥१६॥

अथोवाच मुनिं देवो वरुणो हि जलाधिपः ।

गौतमं मुनिशार्दूलं परोपकृतिशालिनम्

॥१७॥

वरुण उवाच

अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ।

तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति

॥१८॥

अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ।

पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत्

॥१९॥

सूत उवाच

इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा ।

गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः

॥२०॥

मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ।

महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः

॥२१॥

यादृङ्नरं च सेवेत तादृशं फलमश्नुते ।

महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा

॥२२॥

सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ।

शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता

॥२३॥

उत्तमानां स्वभावोयं परदुःखासहिष्णुता ।

स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते

॥२४॥

वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ।

एते भुवि परार्थे च दक्षा एवं न केचन

॥२५॥

दयालुरमदस्पर्श उपकारी जितेन्द्रियः ।

एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही

॥२६॥

ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ।

नित्यनैमित्तिकं कर्म चकार विधिवत्तदा

॥२७॥

ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा ।

वापयामास तत्रैव हवनार्थं मुनीश्वरः

॥२८॥

धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ।

पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः

॥२९॥

तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ।

पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन्

॥३०॥

तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ।

तदक्षयकरायोगादनावृष्टिर्न दुःखदा

॥३१॥

ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ।

वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः

॥३२॥

धान्या नि वापयामासुः कालक्रमणहेतवे ।

आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च

॥३३॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥