रावणः राक्षसश्रेष्ठो मानी मानपरायणः
सूत उवाच
रावणः राक्षसश्रेष्ठो मानी मानपरायणः ।
आरराध हरं भक्त्या कैलासे पर्वतोत्तमे
॥१॥आराधितः कियत्कालं न प्रसन्नो हरो यदा ।
तदा चान्यत्तपश्चक्रे प्रासादार्थे शिवस्य सः
॥२॥नतश्चायं हिमवतस्सिद्धिस्थानस्य वै गिरेः ।
पौलस्त्यो रावणश्श्रीमान्दक्षिणे वृक्षखंडके ।
भूमौ गर्तं वर कृत्वा तत्राग्निं स्थाप्य स द्विजाः ।
तत्सन्निधौ शिवं स्थाप्य हवनं स चकार ह
॥४॥ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थंडिलेशयः ।
शीते जलांतरस्थो हि त्रिधा चक्रे तपश्च सः
॥५॥चकारैवं बहुतपो न प्रसन्नस्तदापि हि ।
परमात्मा महेशानो दुराराध्यो दुरात्मभिः
॥६॥ततश्शिरांसि छित्त्वा च पूजनं शंकरस्य वै ।
प्रारब्धं दैत्यपतिना रावणेन महात्मना
॥७॥एकैकं च शिरश्छिन्नं विधिना शिवपूजने ।
एवं सत्क्रमतस्तेन च्छिन्नानि नव वै यदा
॥८॥एकस्मिन्नवशिष्टे तु प्रसन्नश्शंकरस्तदा ।
आविर्बभूव तत्रैव संतुष्टो भक्तवत्सलः
॥९॥शिरांसि पूर्ववत्कृत्वा नीरुजानि तथा प्रभुः ।
मनोरथं ददौ तस्मादतुलं बलमुत्तमम्
॥१०॥प्रसादं तस्य संप्राप्य रावणस्स च राक्षसः ।
प्रत्युवाच शिवं शम्भुं नतस्कंधः कृतांजलिः
॥११॥रावण उवाच
प्रसन्नो भव देवेश लंकां च त्वां नयाम्यहम् ।
सफलं कुरु मे कामं त्वामहं शरणं गतः
॥१२॥सूत उवाच
इत्युक्तश्च तदा तेन शंभुर्वै रावणेन सः ।
प्रत्युवाच विचेतस्कः संकटं परमं गतः
॥१३॥शिव उवाच
श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया ।
नीयतां स्वगृहे मे हि सद्भक्त्या लिंगमुत्तमम्
॥१४॥भूमौ लिंगं यदा त्वं च स्थापयिष्यसि तत्र वै ।
स्थास्यत्यत्र न संदेहो यथेच्छसि तथा कुरु
॥१५॥सूत उवाच
इत्युक्तश्शंभुना तेन रावणो राक्षसेश्वरः।
तथेति तत्समादाय जगाम भवनं निजम्
॥१६॥आसीन्मूत्रोत्सर्गकामो मार्गे हि शिवमायया ।
तत्स्तंभितुं न शक्तोभूत्पौलस्त्यो रावणः प्रभुः
॥१७॥दृष्ट्वैकं तत्र वै गोपं प्रार्थ्य लिंगं ददौ च तत् ।
मुहूर्तके ह्यतिक्रांते गोपोभूद्विकलस्तदा
॥१८॥भूमौ संस्थापयामास तद्भारेणातिपीडितः ।
तत्रैव तत्स्थितं लिंगं वजसारसमुद्भवम् ।
सर्वकामप्रदं चैव दर्शनात्पापहारकम्
॥१९॥वैद्यनाथेश्वरं नाम्ना तल्लिंगमभवन्मुने ।
प्रसिद्धं त्रिषु लोकेषु भुक्तिमुक्तिप्रदं सताम्
॥२०॥ज्योतिर्लिंगमिदं श्रेष्ठं दर्शनात्पूजनादपि ।
सर्वपापहरं दिव्यं भुक्तिवर्द्धनमुत्तमम्
॥२१॥तस्मिँलिंगे स्थिते तत्र सर्वलोकहिताय वै ।
रावणः स्वगृहं गत्वा वरं प्राप्य महोत्तमम् ।
प्रियायै सर्वमाचख्यौ सुखेनाति महासुरः
॥२२॥तच्छ्रुत्वा सकला देवाश्शक्राद्या मुनयस्तथा ।
परस्परं समामन्त्र्य शिवासक्तधियोऽमलाः
॥२३॥तस्मिन्काले सुरास्सर्वे हरिब्रह्मादयो मुने ।
आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषतः
॥२४॥प्रत्यक्षं तं तदा दृष्ट्वा प्रतिष्ठाप्य च ते सुराः ।
वैद्यनाथेति संप्रोच्य नत्वा नुत्वा दिवं ययुः
॥२५॥ऋषय ऊचुः
तस्मिँल्लिंगे स्थिते तत्र रावणे च गृहं गते ।
किं कि चरित्रमभूत्तात ततस्तद्वद विस्तरात्
॥२६॥सूत उवाच
रावणोपि गृहं गत्वा वरं प्राप्य महोत्तमम् ।
प्रियायै सर्वमाचख्यौ मुमोदाति महासुरः
॥२७॥तच्छ्रुत्वा सकलं देवाश्शक्राद्या मुनयस्तथा ।
परस्परं सुमूचुस्ते समुद्विग्ना मुनीश्वराः
॥२८॥देवादय ऊचुः
रावणोयं दुरात्मा हि देवद्रोही खलः कुधीः ।
शिवाद्वरं च संप्राप्य दुःखं दास्यति नोऽपि सः
॥२९॥किं कुर्मः क्व च गच्छामः किं भविष्यति वा पुनः ।
दुष्टश्च दक्षतां प्राप्तः किंकिं नो साधयिष्यति
॥३०॥इति दुःखं समापन्नाश्शक्राद्या मुनयस्सुराः ।
नारदं च समाहूय पप्रच्छुर्विकलास्तदा
॥३१॥देवा ऊचुः
सर्वं कार्य्यं समर्थोसि कर्तुं त्वं मुनिसत्तम ।
उपायं कुरु देवर्षे देवानां दुःखनाशने
॥३२॥रावणोयं महादुष्टः किंकि नैव करिष्यति ।
क्व यास्यामो वयं चात्र दुष्टेनापीडिता वयम्
॥३३॥नारद उवाच
दुःखं त्यजत भो देवा युक्तिं कृत्वा च याम्यहम् ।
देवकार्यं करिष्यामि कृपया शंकरस्य वै
॥३४॥सूत उवाच
इत्युक्त्वा स तु देवर्षिरगमद्रावणालयम् ।
सत्कारं समनुप्राप्य प्रीत्योवाचाखिलं च तत्
॥३५॥नारद उवाच
राक्षसोत्तम धन्यस्त्वं शैववर्य्यस्तपोमनाः ।
त्वां दृष्ट्वा च मनो मेद्य प्रसन्नमति रावण
॥३६॥स्ववृत्तं ब्रूह्यशेषेण शिवाराधनसंभवम् ।
इति पृष्टस्तदा तेन रावणो वाक्यमब्रवीत्
॥३७॥रावण उवाच
गत्वा मया तु कैलासे तपोर्थं च महामुने ।
तत्रैव बहुकालं वै तपस्तप्तं सुदारुणम्
॥३८॥यदा न शंकरस्तुष्टस्ततश्च परिवर्तितम् ।
आगत्य वृक्षखंडे वै पुनस्तप्तं मया मुने
॥३९॥ग्रीष्मे पंचाग्निमध्ये तु वर्षासु स्थंडिलेशयः ।
शीते जलांतरस्थो हि कृतं चैव त्रिधा तपः
॥४०॥एवं मया कृतं तत्र तपोत्युग्रं मुनीश्वर ।
तथापि शंकरो मह्यं न प्रसन्नोऽभवन्मनाक्
॥४१॥तदा मया तु क्रुद्धेन भूमौ गर्तं विधाय च ।
तत्राग्निं समाधाय पार्थिवं च प्रकल्प्य च
॥४२॥गंधैश्च चंदनैश्चैव धूपैश्च विविधैस्तदा ।
नैवेद्यैः पूजितश्शम्भुरारार्तिकविधानतः
॥४३॥प्रणिपातैः स्तवैः पुण्यैस्तोषितश्शंकरो मया ।
गीतैर्नृत्यैश्च वाद्यैश्च मुखांगुलिसमर्पणैः
॥४४॥एतैश्च विविधैश्चान्यैरुपायैर्भूरिभिर्मुने ।
शास्त्रोक्तेन विधानेन पूजितो भगवान् हरः
॥४५॥न तुष्टः सन्मुखो जातो यदा च भगवान्हरः ।
तदाहं दुःखितोभूवं तपसोऽप्राप्य सत्फलम्
॥४६॥धिक् शरीरं बलं चैव धिक् तपः करणं मम ।
इत्युक्त्वा तु मया तत्र स्थापितेग्नौ हुतं बहु
॥४७॥पुनश्चेति विचार्यैव त्वक्षाम्यग्नौ निजां तनुम् ।
संछिन्नानि शिरांस्येव तस्मिन् प्रज्वलिते शुचौ
॥४८॥सुच्छित्वैकैकशस्तानि कृत्वा शुद्धानि सर्वशः ।
शंकरायार्पितान्येव नवसंख्यानि वै मया
॥४९॥यावच्च दशमं छेत्तुं प्रारब्धमृषिसत्तम ।
तावदाविरभूत्तत्र ज्योतीरूपो हरस्स्वयम्
॥५०॥मामेति व्याहरत् प्रीत्या द्रुतं वै भक्तवत्सलः ।
प्रसन्नश्च वरं ब्रूहि ददामि मनसेप्सितम्
॥५१॥इत्युक्ते च तदा तेन मया दृष्टो महेश्वरः ।
प्राणतस्संस्तुतश्चैव करौ बद्ध्वा सुभक्तितः
॥५२॥तदा वृतं मयैतच्च देहि मे ह्यतुलं बलम् ।
यदि प्रसन्नो देवेश दुर्ल्लभं किं भवेन्मम
॥५३॥शिवेन परितुष्टेन सर्वं दत्तं कृपालुना ।
मह्यं मनोभिलषितं गिरा प्रोच्य तथास्त्विति
॥५४॥अमोघया सुदृष्ट्या वै वैद्यवद्योजितानि मे ।
शिरांसि संधयित्वा तु दृष्टानि परमात्मना
॥५५॥एवंकृते तदा तत्र शरीरं पूर्ववन्मम ।
जातं तस्य प्रसादाच्च सर्वं प्राप्तं फलं मया
॥५६॥तदा च प्रार्थितो मे संस्थितोसौ वृषभध्वजः ।
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये
॥५७॥दर्शनात्पूजनाज्ज्योतिर्लिंगरूपो महेश्वरः ।
भुक्तिमुक्तिप्रदो लोके सर्वेषां हितकारकः
॥५८॥ज्योतिर्लिंगमहं तद्वै पूजयित्वा विशेषतः ।
प्रणिपत्यागतश्चात्र विजेतुं भुवनत्रयम्
॥५९॥सूत उवाच
तदीयं तद्वचः श्रुत्वा देवर्षिर्जातसंभ्रमः ।
विहस्य च मनस्येव रावणं नारदोऽब्रवीत्
॥६०॥नारद उवाच
श्रूयतां राक्षसश्रेष्ठ कथयामि हितं तव ।
त्वया तदेव कर्त्तव्यं मदुक्तं नान्यथा क्वचित्
॥६१॥त्वयोक्तं यच्छिवेनैव हितं दत्तं ममाधुना ।
तत्सर्वं च त्वया सत्यं न मन्तव्यं कदाचन
॥६२॥अयं वै विकृतिं प्राप्तः किं किं नैव ब्रवीति च ।
सत्यं नैव भवेत्तद्वै कथं ज्ञेयं प्रियोस्ति मे
॥६३॥इति गत्वा पुनः कार्य्यं कुरु त्वं ह्यहिताय वै ।
कैलासोद्धरणे यत्नः कर्तव्यश्च त्वया पुनः
॥६४॥यदि चैवोद्धृतश्चायं कैलासो हि भविष्यति ।
तदैव सफलं सर्वं भविष्यति न संशयः
॥६५॥पूर्ववत्स्थापयित्वा त्वं पुनरागच्छ वै सुखम् ।
निश्चयं परमं गत्वा यथेच्छसि तथा कुरु
॥६६॥सूत उवाच
इत्युक्तस्स हितं मेने रावणो विधिमोहित ।
सत्यं मत्वा मुनेर्वाक्यं कैलासमगमत्तदा
॥६७॥गत्वा तत्र समुद्धारं चक्रे तस्य गिरेस्स च ।
तत्रस्थं चैव तत्सर्वं विपर्यस्तं परस्परम्
॥६८॥गिरीशोपि तदा दृष्ट्वा किं जातमिति सोब्रवीत् ।
गिरिजा च तदा शंभुं प्रत्युवाच विहस्य तम्
॥६९॥गिरिजोवाच
सच्छिश्यस्य फलं जातं सम्यग्जातं तु शिष्यतः ।
शान्तात्मने सुवीराय दत्तं यदतुलं बलम्
॥७०॥सूत उवाच
गिरिजायाश्च साकूतं वचः श्रुत्वा महेश्वरः ।
कृतघ्नं रावणं मत्वा शशाप बलदर्पितम्
॥७१॥महादेव उवाच
रे रे रावण दुर्भक्त मा गर्वं वह दुर्मते ।
शीघ्रं च तव हस्तानां दर्पघ्नश्च भवेदिह
॥७२॥सूत उवाव ।
इति तत्र च यज्जातं नारदः श्रुतवांस्तदा ।
रावणोपि प्रसन्नात्माऽगात्स्वधाम यथागतम्
॥७३॥निश्चयं परमं कृत्वा बली बलविमोहितः ।
जगद्वशं हि कृतवान्रावणः परदर्पहा
॥७४॥शिवाज्ञया च प्राप्तेन दिव्यास्त्रेण महौजसा ।
रावणस्य प्रति भटो नालं कश्चिदभूत्तदा
॥७५॥इत्येतच्च समाख्यातं वैद्यनाथेश्वरस्य च ।
माहात्म्यं शृण्वतां पापं नृणां भवति भस्मसात्
॥७६॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वैद्यनाथेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥