मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय २

3
कोटिरुद्रसंहिता · 2

शिवलिंगमाहात्म्यवर्णनम्

सूत उवाच

गंगातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ।

सा हि लिंगमयी ज्ञेया शिववासस्थली स्मृता

॥१॥

लिंगं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ।

कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धबालकः

॥२॥

तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ।

गंगा सागरसंयोगे संगमेश इति स्मृतः

॥३॥

भूतेश्वरो यः संप्रोक्तो भक्तसर्वार्थदः सदा ।

नारीश्वर इति ख्यातः कौशिक्याः स समीपगः

॥४॥

वर्तते गण्डकीतीरे बटुकेश्वर एव सः ।

पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः

॥५॥

सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ।

दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा

॥६॥

शृंगेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ।

जप्येश्वरस्तथा ख्यातो यो दधी चिरणस्थले

॥७॥

गोपेश्वरः समाख्यातः रंगेश्वर इति स्मृतः ।

वामेश्वरश्च नागेशः काजेशो विमलेश्वरः

॥८॥

व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ।

भाण्डेश्वराश्च विख्यातो हुंकारेशस्तथैव च

॥९॥

सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम् ।

संगमेशस्तथा प्रोक्तो महापातकनाशनः

॥१०॥

ततश्च तप्तकातीरे कुमारेश्वर एव च ।

सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ।

रामेश्वर इति प्रोक्तः कुंभेशश्च परो मतः ।

नन्दीश्वरश्च पुंजेशः पूर्णायां पूर्णकस्तथा

॥१२॥

ब्रह्मेश्वरः प्रयोगे च ब्रह्मणा स्थापितः पुरा ।

दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः

॥१३॥

तथा सोमेश्वरस्तत्र सर्ब्वापद्विनिवारकः ।

भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः

॥१४॥

शूलटंकेश्वरः साक्षात्कामनाप्रद ईरितः ।

माधवेशश्च तत्रैव भक्तरक्षाविधायकः

॥१५॥

नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजा ।

सूर्य्यवंशोद्भवानां च विशेषेण सुखप्रदः

॥१६॥

पुरुषोत्तमपुर्यां तु भुवनेशस्तु सिद्धिदः ।

लोकेशश्च महालिंगः सर्वानन्दप्रदायकः

॥१७॥

कामेश्वरः शंभुलिंगो गंगेशः परशुद्धिकृत् ।

शक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया

॥१८॥

तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ।

सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा

॥१९॥

धौतपापेश्वरः साक्षादंशेन परमेश्वर. ।

भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः

॥२०॥

नन्देश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः ।

नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः

॥२१॥

विमलेश्वरनामा वै कंटकेश्वर एव च ।

पूर्णसागरसंयोगे धर्तुकेशस्तथैव च

॥२२॥

चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः ।

सर्वकाम प्रदश्चैव सिद्धेश्वर इति स्मृतः

॥२३॥

बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ।

यत्र वा ह्यन्धको दैत्यः शंकरेण हतः पुरा

॥२४॥

अयं स्वरूपमंशेन धृत्वा शंभुः पुनः स्थितः ।

शरणेश्वरविख्यातो लोकानां सुखदः सदा

॥२५॥

कर्दमेशः परः प्रोक्त कोटीशश्चार्बुदाचले ।

अचलेशश्च विख्यातो लोकानां सुखदः सदा

॥२६॥

नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः ।

अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः

॥२७॥

योगेश्वरश्च विख्यातो वैद्यनाथेश्वरस्तथा ।

कोटीश्वरश्च विज्ञेयः सप्तेश्वर इति स्मृतः

॥२८॥

भद्रेश्वरश्च विख्यातो भद्रनामा हरः स्वयम् ।

चण्डीश्वरस्तथा प्रोक्तः संगमेश्वर एव च

॥२९॥

पूर्वस्यां दिशि जातानि शिवलिंगानि यानि च ।

सामान्यान्यपि चान्यानि तानीह कथितानि ते

॥३०॥

दक्षिणस्यां दिशि तथा शिवलिंगानि यानि च ।

संजातानि मुनिश्रेष्ठ तानि ते कथयाम्यहम्

॥३१॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥