भीमासुरकृतोपद्रववर्णनम्
सूत उवाच
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ।
यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः
॥१॥कामरूपाभिधे देशे शंकरो लोककाम्यया ।
अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम्
॥२॥यदर्थमवतीर्णोसौ शंकरो लोकशंकरः ।
शृणुतादरतस्तच्च कथयामि मुनीश्वराः
॥३॥भीमोनाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः ।
दुःखदस्सर्वभूतानां धर्मध्वंसकरस्सदा
॥४॥कुंभकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः ।
सह्ये च पर्वते सोऽपि मात्रा वासं चकार ह
॥५॥कुंभकर्णे च रामेण हते लोकभयंकरे ।
राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा
॥६॥स बाल एकदा भीमः कर्कटीं मातरं द्विजाः ।
पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः
॥७॥भीम उवाच
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता ।
ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना
॥८॥सूत उवाच
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा ।
उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम्
॥९॥कर्कट्युवाच
पिता ते कुम्भकर्णश्च रावणानुज एव च ।
रामेण मारितस्सोयं भ्रात्रा सह महाबलः
॥१०॥अत्रागतः कदाचिद्वै कुम्भकर्णस्य राक्षसः ।
मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा
॥११॥लंकां स गतवान्मां च त्यक्त्वात्रैव महाबलः ।
मया न दृष्ट्वा सा लंका ह्यत्रैव निवसाम्यहम्
॥१२॥पिता मे कर्कटो नाम माता मे पुष्कसी मता ।
भर्ता मम विराधो हि रामेण निहतः पुरा
॥१३॥पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ।
पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ
॥१४॥भक्षणार्थं गतौ तत्र कुद्धेन सुमहात्मना ।
सुतीक्ष्णेन सुतपसाऽगस्त्यशिष्येण वै तदा
॥१५॥साऽहमेकाकिनी जाता दुःखिता पर्वते पुरा ।
निवसामि स्म दुःखार्ता निरालंबा निराश्रया
॥१६॥एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः ।
आगत्य कृतवान्संगं मां विहाय गतो हि सः
॥१७॥ततस्त्वं च समुत्पन्नो महाबलपराक्रमः ।
अवलंब्य पुनस्त्वां च कालक्षेपं करोम्यहम्
॥१८॥सूत उवाच
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः ।
कुद्धश्च चिंतयामास किं करोमि हरिं प्रति
॥१९॥पितानेन हतो मे हि तथा मातामहो ह्यपि ।
विराधश्च हतोऽनेन दुःखं बहुतरं कृतम्
॥२०॥तत्पुत्रोहं भवेयं चेद्धरिं तं पीडयाम्यहम् ।
इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ
॥२१॥ब्रह्माणां च समुद्दिश्य वर्षाणां च सहस्रकम् ।
मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा
॥२२॥ऊर्ध्वबाहुश्चैकपादस्सूर्य्ये दृष्टिं दधत्पुरा ।
संस्थितस्स बभूवाथ भीमो राक्षसपुत्रकः
॥२३॥शिरसस्तस्य संजातं तेजः परमदारुणम् ।
तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः
॥२४॥प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ।
दुःखं निवेदयांचकुर्ब्रह्मणे ते सवासवाः
॥२५॥देवा ऊचुः
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ।
यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे
॥२६॥नोचेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ।
यास्यामस्संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम्
॥२७॥सूत उवाच
इति तेषां वचश्श्रुत्वा ब्रह्मा लोकपितामहः ।
जगाम च वरं दातुं वचनं चेदमब्रवीत्
॥२८॥ब्रह्मोवाच
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ।
इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः
॥२९॥भीम उवाच
यदि प्रसन्नो देवेश यदि देयो वर स्त्वया ।
अतुलं च बलं मेऽद्य देहि त्वं कमलासन
॥३०॥सूत उवाच
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ।
ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ
॥३१॥राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ।
मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान्
॥३२॥भीम उवाच
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ।
देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः
॥३३॥सूत उवाच
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ।
स्थानान्निस्सारयामास स्वात्स्वात्तान्भीमविक्रमः
॥३४॥ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ।
ततो जेतुं रसां दैत्यः प्रारंभं कृतवान्मुदा
॥३५॥पुरा सुदक्षिणां तत्र कामरूपेश्वरं प्रभुम् ।
जेतुं गतस्ततस्तेन युद्धमासीद्भयंकरम्
॥३६॥भीमोऽथ तं महाराजं प्रभावाद्ब्रह्मणोऽसुरः ।
जिग्ये वरप्रभावेण महावीरं शिवाश्रयम्
॥३७॥स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ।
बबंध ताडयामास भीमो भीमपराक्रमः
॥३८॥गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ।
तेन भीमेन दुष्टेन शिवदासस्य भूपतेः
॥३९॥राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ।
गृहीतो निगडैस्तेन ह्येकांते स्थापितश्च सः
॥४०॥तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ।
भजनं च शिवस्यैव प्रारब्धी प्रियकाम्यया
॥४१॥गंगायास्तवनं तेन बहुधा च तदा कृतम् ।
मानसं स्नानकर्मादि कृत्वा शंकरपूजनम्
॥४२॥पार्थिवेन विधानेन चकार नृपसत्तमः ।
तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम्
॥४३॥प्रणिपातैस्तथा स्तोत्रैर्मुद्रासन पुरस्सरम् ।
कृत्वा हि सकलं तच्च स भेजे शंकरं मुदा
॥४४॥पंचाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ।
नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा
॥४५॥तत्पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ।
निधानं पार्थिवं प्रीत्या चकार नृपवल्लभा
॥४६॥दंपती त्वेकभावेन शंकरं भक्तशंकरम् ।
भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ
॥४७॥राक्षसो यज्ञकर्मादि वरदर्प विमोहितः ।
लोपयामास तत्सर्वं मह्यं वै दीयतामिति
॥४८॥बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम ।
चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः
॥४९॥वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ।
लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः
॥५०॥देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ।
अत्यन्तं दुःखमापन्ना लोकान्निस्सारिता द्विजाः
॥५१॥ते ततो विकलास्सर्वे सवासवसुरर्षयः ।
ब्रह्मविष्णू पुरोधाय शंकरं शरणं ययुः
॥५२॥स्तुत्वा स्तोत्रैरनेकैश्च शंकरं लोक शंकरम् ।
प्रसन्नं कृतवंतस्ते महाकोश्यास्तटे शुभे
॥५३॥कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ।
तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात्
॥५४॥एवं स्तुतस्तदा शंभुर्देवानां स्तवनादिभिः ।
सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत्
॥५५॥शिव उवाच
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ।
प्रसन्नोस्मि वरं ब्रूत किं कार्यं करवाणि वः
॥५६॥सूत उवाच
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ।
सुप्रणम्य करौ बद्ध्वा देवः ऊचुश्शिवं तदा
॥५७॥देवा ऊचुः
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ।
अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव
॥५८॥तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ।
त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय
॥५९॥राक्षसः कर्कटीपुत्रः कुंभकर्णोद्भवो बली ।
पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः
॥६०॥तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ।
कृपां कुरु महेशान विलंबं न कुरु प्रभो
॥६१॥सूत उवाच
इत्युक्तस्तु सुरैस्सर्वैश्शंभुवें भक्तवत्सलः ।
वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत्
॥६२॥शंभुरुवाच
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ।
तस्मै ब्रूतेति वै देवाः कार्य्यं शीघ्रं भविष्यति
॥६३॥सुदक्षिण महाराज काम रूपेश्वर प्रभो ।
मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः
॥६४॥दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ।
हनिष्यामि न संदेहस्त्वत्तिरस्कारकारिणम्
॥६५॥सूत उवाच
अथ ते निर्जरास्सर्वे तत्र गत्वा मुदान्विताः ।
तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत्
॥६६॥तमित्युक्त्वा च वै देवा आनंदं परमं गताः ।
महर्षयश्च ते सर्वे ययुश्शीप्रं निजाश्रमान्
॥६७॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ॥ २० ॥