मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ४

3
कोटिरुद्रसंहिता · 4

अत्रीश्वरमाहात्म्यवर्णनम्

सूत उवाच

कदाचित्स ऋषिश्रेष्ठो ह्यत्रिर्ब्रह्मविदां वरः ।

जागृतश्च जलं देहि प्रत्युवाच प्रियामिति

॥१॥

सापि साध्वी त्ववश्यं च गृहीत्वाथ कमण्डलुम् ।

जगाम विपिने तत्र जलं मे नीयते कुतः

॥२॥

किं करोमि क्व गच्छामि कुतो नीयेत वै जलम् ।

इति विस्मयमापन्ना तां गंगां हि ददर्श सा

॥३॥

तामनुव्रजती यावत् साब्रवीच्च सदा हि ताम् ।

गंगा सरिद्वरा देवी बिभ्रती सुन्दरां तनुम्

॥४॥

गंगोवाच

प्रसन्नास्मि च ते देवि कुत्र यासि वदाधुना ।

धन्या त्वं सुभगे सत्यं तवाज्ञां च करोम्यहम्

॥५॥

सूत उवाच

तद्वचश्च तदा श्रुत्वा ऋषिपत्नी तपस्विनी ।

प्रत्युवाच वचः प्रीत्या स्वयं सुचकिता द्विजाः

॥६॥

अनसूयोवाच

का त्वं कमलपत्राक्षि कुतो वा त्वं समागता ।

तथ्यं ब्रूहि कृपां कृत्वा साध्वी सुप्रवदा सती

॥७॥

सूत उवाच

इत्युक्ते च तया तत्र मुनिपत्न्या मुनीश्वराः ।

सरिद्वरा दिव्यरूपा गंगा वाक्यमथाब्रवीत्

॥८॥

गंगोवाच

स्वामिनः सेवनं दृष्ट्वा शिवस्य च परात्मनः ।

साध्वि धर्मं च ते दृष्ट्वा स्थितास्मि तव सन्निधौ

॥९॥

अहं गंगा समायाता भजनात्ते शुचिस्मिते ।

वशीभूता ह्यहं जाता यदिच्छसि वृणीष्व तत्

॥१०॥

सूत उवाच

इत्युक्ते गंगया साध्वी नमस्कृत्य पुरः स्थिता ।

उवाचेति जलं देहि चेत्प्रसन्ना ममाऽधुना

॥११॥

इत्येतद्वचनं श्रुत्वा गर्तं कुर्ष्विति साऽब्रवीत् ।

शीघ्रं चायाच्च तत्कृत्वा स्थिता तत्क्षणमात्रतः

॥१२॥

तत्र सा च प्रविष्टा च जलरूपमभूत्तदा ।

आश्चर्य्यं परमं गत्वा गृहीतं च जलं तया

॥१३॥

उवाच वचनं चैतल्लोकानां सुखहेतवे ।

अनसूया मुनेः पत्नी दिव्यरूपां सरिद्वराम्

॥१४॥

अनसूयोवाच

यदि त्वं सुप्रसन्ना मे वर्तसे च कृपामयि ।

स्थातव्यं च त्वया तावन्मत्स्वामी यावदा व्रजेत्

॥१५॥

सूत उवाच

इति श्रुत्वानसूयाया वचनं सुखदं सताम् ।

गंगोवाच प्रसन्नाति ह्यत्रेर्दास्यसि मेऽनघे

॥१६॥

इत्युक्ते च तया तत्र ह्यनपायि कृतन्तथा ।

स्वामिने तज्जलं दिव्यं दत्त्वा तत्पुरतः स्थिता

॥१७॥

स ऋषिश्चापि सुप्रीत्या स्वाचम्य विधिपूर्वकम् ।

पपौ दिव्यं जलं तच्च पीत्वा सुखमवाप ह

॥१८॥

अहो नित्यं जलं यच्च पीयते तज्जलं न हि ।

विचार्येति च तेनाशु परितश्चावलोकितम्

॥१९॥

शुष्कान्वृक्षान्समालोक्य दिशो रूक्षतरास्तथा ।

उवाच तामृषिश्रेष्ठो न जातं वर्षणं पुनः

॥२०॥

तदुक्तं तत्समाकर्ण्य नेतिनेति प्रियान्तदा ।

तामुवाच पुनः सोऽपि जलं नीतं कुतस्त्वया

॥२१॥

इत्युक्ते तु तदा तेन विस्मयं परमं गता ।

अनसूया स्वमनसि सचिन्ता तु मुनीश्वराः

॥२२॥

निवेद्यते मया चेद्वै तदोत्कर्षो भवेन्मम ।

निवेद्यते यदा नैव व्रतभङ्गो भवेन्मम

॥२३॥

नोभयं च तथा स्याद्वै निवेद्यं तत्तथा मम ।

इति यावद्विचार्येत तावत्पृष्टा पुनः पुनः

॥२४॥

अथानुग्रहतः शंभोः प्राप्तबुद्धिः पतिव्रता ।

उवाच श्रूयतां स्वामिन्यज्जातं कथयामि ते

॥२५॥

अनसूयोवाच

शंकरस्य प्रतापाच्च तवैव सुकृतैस्तथा ।

गंगा समागतात्रैव तदीयं सलिलन्त्विदम्

॥२६॥

सूत उवाच

एवं वचस्तदा श्रुत्वा मुनिर्विस्मयमानसः ।

प्रियामुवाच सुप्रीत्या शंकरं मनसा स्मरन्

॥२७॥

अत्रिरुवाच

प्रिये सुन्दरि त्वं सत्यमथ वाचं व्यलीककाम् ।

ब्रवीषि च यथार्थं त्वं न मन्ये दुर्लभन्त्विदम्

॥२८॥

असाध्यं योगिभिर्यच्च देवैरपि सदा शुभे ।

तच्चैवाद्य कथं जातं विस्मयः परमो मम

॥२९॥

यद्येवं दृश्यते चेद्वै तन्मयेहं न चान्यथा ।

इति तद्वचनं श्रुत्वा प्रत्युवाच पतिप्रिया

॥३०॥

अनसूयोवाच

आगम्यतां मया सार्द्धं त्वया नाथ महामुने ।

सरिद्वराया गंगाया द्रष्टुमिच्छा भवेद्यदि

॥३१॥

सूत उवाच

इत्युक्त्वा तु समादाय पतिं तं सा पतिव्रता ।

गता द्रुतं शिवं स्मृत्वा यत्र गंगा सरिद्वरा

॥३२॥

दर्शयामास तां तत्र गंगां पत्ये पतिव्रता ।

गर्ते च संस्थितां तत्र स्वयं दिव्यस्वरूपिणीम्

॥३३॥

तत्र गत्वा ऋषिश्रेष्ठो गर्तं च जलपूरितम् ।

आकण्ठं सुन्दरं दृष्ट्वा धन्येयमिति चाब्रवीत्

॥३४॥

किं मदीयं तपश्चैव किमन्येषां पुनस्तदा ।

इत्युक्तो मुनिशार्दूलो भक्त्या तुष्टाव तां तदा

॥३५॥

ततो हि स मुनिस्तत्र सुस्नातः सुभगे जले ।

आचम्य पुनरेवात्र स्तुतिं चक्रे पुनः पुनः

॥३६॥

अनसूयापि संस्नाता सुन्दरे तज्जले तदा ।

नित्यं चक्रे मुनिः कर्म सानसूयापि सुव्रता

॥३७॥

ततस्सोवाच तां गंगा गम्यते स्वस्थलं मया ।

इत्युक्ते च पुनः साध्वी तामुवाच सरिद्वराम्

॥३८॥

अनसूयोवाच

यदि प्रसन्ना देवेशि यद्यस्ति च कृपा मयि ।

त्वया स्थेयं निश्चलत्वादस्मिन्देवि तपोवने

॥३९॥

महतां च स्वभावश्च नांगीकृत्य परित्यजेत् ।

इत्युक्ता च करौ बद्ध्वा तां तुष्टाव पुनःपुनः

॥४०॥

ऋषिश्चापि तथोवाच त्वया स्थेयं सरिद्वरे ।

सानुकूला भव त्वं हि सनाथान्देवि नः कुरु

॥४१॥

तदीयं तद्वचः श्रुत्वा रम्यं गंगा सरिद्वरा ।

प्रसन्नमानसा गंगाऽनसूयां वाक्यमब्रवीत्

॥४२॥

गंगोवाच

शंकरार्चनसंभूतफलं वर्षस्य यच्छसि ।

स्वामिनश्च तदा स्थास्ये देवानामुपकारणात

॥४३॥

तथा दानैर्न मे तुष्टिस्तीर्थस्नानैस्तथा च वै ।

यज्ञैस्तथाथ वा योगैर्यथा पातिव्रतेन च

॥४४॥

पतिव्रतां यथा दृष्ट्वा मनसः प्रीणनं भवेत् ।

तथा नान्यैरुपायैश्च सत्यं मे व्याहृतं सति

॥४५॥

पतिव्रतां स्त्रियं दृष्ट्वा पापनाशो भवेन्मम ।

शुद्धा जाता विशेषेण गौरीतुल्या पतिव्रता

॥४६॥

तस्माच्च यदि लोकस्य हिताय तत्प्रयच्छसि ।

तर्ह्यहं स्थिरतां यास्ये यदि कल्याणमिच्छसि

॥४७॥

सूत उवाच

इत्येवं वचनं श्रुत्वाऽनसूया सा पतिव्रता ।

गंगायै प्रददौ पुण्यं सर्वं तद्वर्षसंभवम्

॥४८॥

महतां च स्वभावो हि परेषां हितमावहेत् ।

सुवर्णं चन्दनं चेक्षुरसस्तत्र निदर्शनम्

॥४९॥

एतद्दृष्ट्वानसूयं तत्कर्म पातिव्रतं महत् ।

प्रसन्नोभून्महादेवः पार्थिवादाविराशु वै

॥५०॥

शंभुरुवाच

दृष्ट्वा ते कर्म साध्व्येतत् प्रसन्नोऽस्मि पतिव्रते ।

वरं ब्रूहि प्रिये मत्तो यतः प्रियतरासि मे

॥५१॥

अथ तौ दम्पती शंभुमभूतां सुन्दराकृतिम् ।

पञ्चवक्त्रादिसंयुक्तं हरं प्रेक्ष्य सुविस्मितौ

॥५२॥

नत्वा स्तुत्वा करौ बद्ध्वा महाभक्तिसमन्वितौ ।

अवोचेतां समभ्यर्च्य शंकरं लोकशंकरम्

॥५३॥

दम्पती ऊचतुः

यदि प्रसन्नो देवेश प्रसन्ना जगदम्बिका ।

अस्मिंस्तपोवने तिष्ठ लोकानां सुखदो भव

॥५४॥

प्रसन्ना च तदा गंगा प्रसन्नश्च शिवस्तदा ।

उभौ तौ च स्थितौ तत्र यत्रासीदृषिसत्तमः

॥५५॥

अत्रीश्वरश्च नाम्नासीदीश्वरः परदुःखहा ।

गंगा सापि स्थिता तत्र तदा गर्तेथ मायया

॥५६॥

तद्दिनं हि समारभ्य तत्राक्षय्यजलं सदा ।

हस्तमात्रे हि तद्गर्ते गंगा मन्दाकिनी ह्यभूत्

॥५७॥

तत्रैव ऋषयो दिव्याः समाजग्मुस्सहांगनाः ।

तीर्थात्तीर्थाच्च ते सर्वे ते पुरा निर्गता द्विजाः

॥५८॥

यवाश्च व्रीहयश्चैव यज्ञयागपरायणाः ।

युक्ता ऋषिवरैस्तैश्च होमं चक्रुश्च ते जनाः

॥५९॥

कर्मभिस्तैश्च संतुष्टा वृष्टिं चक्रुर्घनास्तदा ।

आनन्दः परमो लोके बभूवातिमुनीश्वराः

॥६०॥

अत्रीश्वरस्य माहात्म्यमित्युक्तं वः सुखावहम् ।

भुक्तिमुक्तिप्रदं सर्वकामदं भक्ति वर्द्धनम्

॥६१॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥