वटुकोत्पत्तिवर्णनम्
सूत उवाच
यथाभवल्लिंगरूपः संपूज्यस्त्रिभवे शिवः ।
तथोक्तं वा द्विजाः प्रीत्या किमन्यच्छ्रोतुमिच्छथ
॥१॥ऋषय ऊचुः
अन्धकेश्वरलिंगस्य महिमानं वद प्रभो ।
तथान्यच्छिवलिंगानां प्रीत्या वक्तुमिहार्हसि
॥२॥सूत उवाच
पुराब्धिगर्तमाश्रित्य वसन्दैत्योऽन्धकासुरः ।
स्ववशं कारयामास त्रैलोक्यं सुरसूदनः ।
तस्माद्गर्ताच्च निस्सृत्य पीडयित्वा पुनः प्रजाः ।
प्राविशच्च तदा दैत्यस्तं गर्तं सुपराक्रमः
॥४॥देवाश्च दुःखितः सर्वे शिवं प्रार्थ्य पुनःपुनः ।
सर्वं निवेदयामासुस्स्वदुःखं च मुनीश्वराः
॥५॥सूत उवाच
तदाकर्ण्य वचस्तेषां देवानां परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा दुष्टहंता सतां गतिः
॥६॥शिव उवाच
घातयिष्यामि तं दैत्यमन्धकं सुरसूदनम् ।
सैन्यं च नीयतान्देवा ह्यायामि च गणैस्सह
॥७॥तस्माद्गर्तादंधके हि देवर्षिद्रुहि भीकरे ।
निस्सृते च तदा तस्मिन्देवा गर्तमुपाश्रिताः
॥८॥दैत्याश्च देवताश्चैव युद्धं चक्रुः सुदारुणम् ।
शिवानुग्रहतो देवाः प्रबलाश्चाभवँस्तदा
॥९॥देवैश्च पीडितः सोपि यावद्गर्तमुपागतः ।
तावच्छूलेन संप्रोतः शिवेन परमात्मना
॥१०॥तत्रत्यश्च तदा शंभुं ध्यात्वा संप्रार्थयत्तदा ।
अन्तकाले च त्वां दृष्ट्वा तादृशो भवति क्षणात्
॥११॥इत्येवं संस्तुतस्सोपि प्रसन्नः शंकरस्तदा ।
उवाच वचनं तत्र वरं ब्रूहि ददामि ते
॥१२॥इत्येवं वचनं श्रुत्वा स दैत्यः पुनरब्रवीत् ।
सुप्रणम्य शिवं स्तुत्वा सत्त्वभावमुपाश्रितः
॥१३॥अन्धक उवाच
यदि प्रसन्नो देवेश स्वभक्तिं देहि मे शुभाम् ।
कृपां कृत्वा विशेषेण संस्थितो भव चेह वै
॥१४॥सूत उवाच
इत्युक्तस्तेन दैत्यं तं तद्गर्ते चाक्षिपद्धरः ।
स्वयं तत्र स्थितो लिंगरूपोऽसौ लोककाम्यया
॥१५॥अन्धकेशं च तल्लिंगं नित्यं यः पूजयेन्नरः ।
षण्मासाज्जायते तस्य वांछासिद्धिर्न संशयः
॥१६॥वृत्त्यर्थं पूजयेल्लिंगं लोकस्य हितकारकम् ।
षण्मासं यो द्विजश्चैव स वै देवलकः स्मृतः
॥१७॥यथा देवलकश्चैव स भवेदिह वै तदा ।
देवलकश्च यः प्रोक्तो नाधिकारो द्विजस्य हि
॥१८॥ऋषय ऊचुः
देवलकश्च कः प्रोक्तः किं कार्यं तस्य विद्यते ।
तत्त्वं वद महाप्राज्ञ लोकानां हितहेतवे
॥१९॥सूत उवाच
दधीचिर्नाम विप्रो यो धर्मिष्ठो वेदपारगः ।
शिवभक्तिरतो नित्यं शिवशास्त्रपरायणः
॥२०॥तस्य पुत्रस्तथा ह्यासीत्स्मृतो नाम्ना सुदर्शनः ।
तस्य भार्या दुकूला च नाम्ना दुष्टकुलोद्भवा
॥२१॥तद्वशे स च भर्तासीत्तस्य पुत्रचतुष्टयम् ।
सोऽपि नित्यं शिवस्यैव पूजां च स्म करोत्यसौ
॥२२॥दधीचेस्तु तदा ह्यासीद्ग्रामान्तरनिवेशनम् ।
ज्ञातिसंयोगतश्चैव ज्ञातिभिर्न स मोचितः
॥२३॥कथयित्वा च पुत्रं स शिवभक्तिरतो भव ।
इत्युक्त्वा स गतो मुक्तो दाधीचिश्शैवसत्तमः
॥२४॥सुदर्शनस्तत्पुत्रोऽपि शिवपूजां चकार ह ।
एवं चिरतरः कालो व्यतीयाय मुनीश्वराः
॥२५॥एवं च शिवरात्रिश्च समायाता कदाचन ।
तस्यां चोपोषितास्सर्वे स्वयं संयोगतस्तदा
॥२६॥पूजां कृत्वा गतस्सोऽपि सुदर्शन इति स्मृतः ।
स्त्रीसंगं शिवरात्रौ तुं कृत्वा पुनरिहागतः
॥२७॥न स्नानं तेन च कृतं तद्रात्र्यां शिवपूजनम् ।
तेन तत्कर्मपाकेन क्रुद्धः प्रोवाच शङ्करः
॥२८॥महेश्वर उवाच
शिवरात्र्यां त्वया दुष्ट सेवनं च स्त्रियाः कृतम् ।
अस्नातेन मदीया च कृता पूजाविवेकिना
॥२९॥ज्ञात्वा चैवं कृतं यस्मात्तस्मात्त्वं जडतां व्रज ।
ममास्पृश्यो भव त्वं च दूरतो दर्शनं कुरु
॥३०॥सूत उवाच
इति शप्तो महेशेन दाधीचिस्स सुदर्शनः ।
जडत्वं प्राप्तवान्सद्यश्शिवमायाविमोहितः
॥३१॥एतस्मिन्समये विप्रा दधीचिः शैवसत्तमः ।
ग्रामान्तरात्समायातो वृत्तान्तं श्रुतवाँश्च सः
॥३२॥शिवेन भर्त्सितः सोऽपि दुःखितोऽभूदतीव हि ।
रुरोद हा हतोऽश्मीति दुःखेन सुतकर्मणा
॥३३॥पुनःपुनरुवाचेति स दधीचिस्सतां मतः ।
अनेनेदं कुपुत्रेण हतं मे कुलमुत्तमम्
॥३४॥स पुत्रोऽपि हतो भार्यां पुंश्चलीं कृतवान्द्रुतम् ।
पश्चात्तापमनुप्राप्य स्वपित्रा परिभर्त्सितः
॥३५॥तत्पित्रा गिरिजा तत्र पूजिता विधिभिर्वरैः ।
सुयत्नतो महाभक्त्या स्वपुत्रसुखहेतवे
॥३६॥सुदर्शनोऽपि गिरिजां पूजयामास च स्वयम् ।
चण्डीपूजनमार्गेण महाभक्त्या शुभैः स्तवैः
॥३७॥एवं तौ पितृपुत्रौ हि नानोपायैः सुभक्तितः ।
प्रसन्नां चक्रतुर्देवीं गिरिजां भक्तवत्सलाम्
॥३८॥तयोः सेवाप्रभावेण प्रसन्ना चण्डिका तदा ।
सुदर्शनं च पुत्रत्वे चकार गिरिजा मुने
॥३९॥शिवं प्रसादयामास पुत्रार्थे चण्डिका स्वयम् ।
क्रुद्धाऽक्रुद्धा पुनश्चण्डी तत्पुत्रस्य प्रसन्नधीः
॥४०॥अथाज्ञाय प्रसन्नं तं महेशं वृषभध्वजम् ।
नमस्कृत्य स्वयं तस्य ह्युत्संगे तं न्यवेशयत् ।
घृतस्नानं ततः कृत्वा पुत्रस्य गिरिजा स्वयम् ।
त्रिरावृत्तोपवीतं च ग्रन्थिनैकेन संयुतम्
॥४२॥सुदर्शनाय पुत्राय ददौ प्रीत्या तदाम्बिका ।
उद्दिश्य शिवगायत्रीं षोडशाक्षरसंयुताम्
॥४३॥तदोंनमः शिवायेति श्रीशब्द पूर्वकाय च ।
वारान्षोडश संकल्पपूजां कुर्यादयं बटुः
॥४४॥आस्नानादिप्रणामान्तं पूजयन्वृषभध्वजम् ।
मंत्रवादित्रपूजाभिस्सर्षीणां सन्निधौ तथा
॥४५॥नाममंत्राननेकांश्च पाठयामास वै तदा ।
उवाच सुप्रसन्नात्मा चण्डिका च शिवस्तथा
॥४६॥मदर्पितं च यत्किंचिद्धनधान्यादिकन्तथा ।
तत्सर्वं च त्वया ग्राह्यं न दोषाय भविष्यति
॥४७॥मम कृत्ये भवान्मुख्यो देवीकृत्ये विशेषतः ।
घृततैलादिकं सर्वं त्वया ग्राह्यं मदर्पितम्
॥४८॥प्राजापत्यं भवेद्यर्हिं तर्ह्येको हि भवान्भवेत् ।
तदा पूजा च सम्पूर्णान्यथा सर्वा च निष्फला
॥४९॥तिलकं वर्तुलं कार्यं स्नानं कार्यं सदा त्वया ।
शिवसन्ध्या च कर्तव्या गायत्री च तदीयिका
॥५०॥मत्सेवां प्रथमं कृत्वा कार्यमन्यत्कुलोचितम् ।
एवं कृतेऽखिले भद्रं दोषाः क्षान्ता मया तव
॥५१॥सूत उवाच
इत्युक्त्वा तस्य पुत्राश्च चत्वारो बटुकास्तदा ।
अभिषिक्ताश्चतुर्दिक्षु शिवेन परमात्मना
॥५२॥चण्डी चैवात्मनिकटे पुत्रं स्थाप्य सुदर्शनम् ।
तत्पुत्रान्प्रेरयामास वरान्दत्त्वा ह्यनेकशः
॥५३॥देव्युवाच
उभयोर्युवयोर्मध्ये वटुको यो भवेन्मम ।
तस्य स्याद्विजयो नित्यं नात्र कार्या विचारणा
॥५४॥भवांश्च पूजितो येन तेनैवाहं प्रपूजिता ।
कर्तव्यं हि भवद्भिश्च स्वीयं कर्म सदा सुत
॥५५॥सूत उवाच
एवं तस्मै वरान्दत्तास्सपुत्राय महात्मने ।
सुदर्शनाय कृपया शिवाभ्यां जगतां कृते
॥५६॥शिवाभ्यां स्थापिता यस्मात्तस्मात्तं वटुकाः स्मृताः ।
तपोभ्रष्टाश्च ये जाताः स्मृतास्तस्मात्तपोधमाः
॥५७॥शिवयोः कृपया सर्वे विस्तारं बहुधा गताः ।
तेषां च प्रथमा पूजा महापूजा महात्मनः
॥५८॥तेन यावत्कृता नैव पूजा वै शंकरस्य च ।
तावत्पूजा न कर्त्तव्या कृता चेन्न शुभापि सा
॥५९॥शुभं वाप्यशुभं वापि बटुकं न परित्यजेत् ।
प्राजापत्ये च भोज्ये वै वटुरेको विशिष्यते ।
शिवयोश्च तथा कार्ये विशेषोऽत्र प्रदृश्यते ।
तदेव शृणु सुप्राज्ञ यथाहं वच्मि तेऽनघ ।
' तस्यैव नगरे राज्ञो भद्रस्य नित्यभोजने ।
प्राजापत्यस्य नियमे ह्यन्धकेशसमीपतः
॥६२॥यज्जातमद्भुतं वृत्तं शिवानुग्रहकारणात् ।
श्रूयतां तच्च सुप्रीत्या कथयामि यथाश्रुतम्
॥६३॥ध्वज एकश्च तद्राज्ञे दत्तस्तुष्टेन शंभुना ।
प्रोक्तश्च कृपया राजा देवदेवेन तेन सः
॥६४॥प्रातश्च वर्ध्यतां राजन्ध्वजो रात्रौ पतिष्यति ।
मम त्वेवं च सम्पूर्णे प्राजापत्ये तथा पुनः
॥६५॥अन्यथायं ध्वजो मे हि रात्रावपि स्थिरो भवेत् ।
इत्युक्त्वान्तर्हितश्शंभू राज्ञे तुष्टः कृपानिधिः
॥६६॥तथेति नियमश्चासीत्तस्य राज्ञो महामुने ।
प्राजापत्यं कृतं नित्यं शिवपूजाविधानत ।
स्वयं प्रातर्विवर्दे्धेत ध्वजः सायं पतेदिति ।
यदि कार्यं च सम्पूर्णं जातं चैव भवेदिह
॥६८॥एकस्मिन्समये चात्र बटोः कार्यं पुरा ह्यभूत् ।
ध्वजः स पतितो वै हि ब्रह्मभोजं विनापि हि
॥६९॥दृष्ट्वा तच्च तदा तत्र पृष्टा राज्ञा च पण्डिताः ।
भुञ्जते ब्राह्मणा ह्यत्र नोत्थितो वै ध्वजस्त्विति
॥७०॥कथं च पतितः सोऽत्र ब्राह्मणा ब्रूत सत्यतः ।
ते पृष्टाश्च तदा प्रोचुर्ब्राह्मणाः पण्डितोत्तमाः
॥७१॥ब्रह्मभोजे महाराज वटुको भोजितः पुरा ।
चण्डीपुत्रश्शिवस्तुष्टस्तस्माच्च पतितो ध्वजः
॥७२॥तच्छ्रुत्वा नृपतिस्सोऽथ जनाश्चान्ये ऽपि सर्वशः ।
अभवन्विस्मितास्तत्र प्रशंसां चक्रिरे ततः
॥७३॥एवं च महिमा तेषां वर्द्धितः शङ्करेण हि ।
तस्माच्च वटुकाः श्रेष्ठाः पुरा विद्भिः प्रकीर्तिताः
॥७४॥शिवपूजा तु तैः पूर्वमुत्तार्य्या नान्यथा पुनः ।
अन्येषां नाधिकारोऽस्ति शिवस्य वचनादिह
॥७५॥उत्तारणं च कार्य्यं वै पूजा पूर्णा भवत्विति ।
एतावदेव तेषां तु शृणु नान्यत्तथैव च
॥७६॥एतत्सर्वं समाख्यातं यत्पृष्टं च मुनीश्वराः ।
यच्छ्रुत्वा शिवपूजायाः फलं प्राप्नोति वै नरः
॥७७॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वटुकोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥