एवं वाराणसी पुण्या यदि सूत महापुरी
ऋषय ऊचुः
एवं वाराणसी पुण्या यदि सूत महापुरी ।
तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो
॥१॥सूत उवाच
वक्ष्ये संक्षेपतस्सम्यग्वाराणस्यास्सुशोभनम् ।
विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः
॥२॥कदाचित्पार्वती देवी शङ्करं परया मुदा ।
लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः
॥३॥पार्वत्युवाच
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्य शेषतः ।
ममोपरि कृपां कृत्वा लोकानां हितकाम्यया
॥४॥सूत उवाच
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः ।
प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे
॥५॥परमेश्वर उवाच
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ।
कथयामि यथार्थं वै महा त्म्यमविमुक्तयोः
॥६॥इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वथा
॥७॥अस्मिन्सिद्धास्सदा क्षेत्रे मदीयं व्रतमाश्रिताः ।
नानालिंगधरा नित्यं मम लोकाभिकांक्षिणः
॥८॥अभ्यस्यंति महायोगं जितात्मानो जितेन्द्रियाः ।
परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम्
॥९॥रोचते मे सदा वासो वाराणस्यां महेश्वरि ।
हेतुना येन सर्वाणि विहाय शृणु तद्ध्रुवम्
॥१०॥यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ।
तीर्थापेक्षा च न तयोर्विहिता विहिते समौ
॥११॥जीवन्मुक्तौ तु तौ ज्ञेयौ यत्रकुत्रापि वै मृतौ ।
प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः
॥१२॥अत्र तीर्थे विशेषोस्त्यविमुक्ताख्ये परोत्तमे ।
श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया
॥१३॥सर्वे वर्णा आश्रमाश्च बालयौवनवार्द्धकाः ।
अस्यां पुर्यां मृताश्चेत्त्स्युर्मुक्ता एव न संशयः
॥१४॥अशुचिश्च शुचिर्वापि कन्या परिणता तथा ।
विधवा वाथ वा वंध्या रजोदोषयुतापि वा
॥१५॥प्रसूता संस्कृता कापि यादृशी तादृशी द्विजाः ।
अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ् नात्र संशयः
॥१६॥स्वेदजश्चांडजो वापि द्युद्भिज्जोऽथ जरायुजः ।
मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित्
॥१७॥ज्ञानापेक्षा न चात्रैव भत्तयपेक्षा न वै पुनः ।
कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि
॥१८॥संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ।
नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न
॥१९॥मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ।
यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम्
॥२०॥एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं प्रिये ।
ब्रह्मादयोऽपि जानंति माहात्म्यं नास्य पार्वति
॥२१॥महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ।
सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते
॥२२॥धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ।
क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः
॥२३॥कामं भुंजन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ।
अविमुक्ते त्यजन्प्राणाञ्जंतुर्मोक्षाय कल्पते
॥२४॥कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ।
न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना
॥२५॥तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ।
अव्यक्तलिंगं मुनिभिर्ध्यायते च सदाशिवः
॥२६॥यद्यत्फलं समुद्दिश्य तपन्त्यत्र नरः प्रिये ।
तेभ्यश्चाहं प्रय च्छामि सम्यक्तत्तत्फलं धुवम्
॥२७॥सायुज्यमात्मनः पश्चादीप्सितं स्थानमेव च ।
न कुतश्चित्कर्मबंधस्त्यजतामत्र वै तनुम्
॥२८॥ब्रह्मा देवर्षिभिस्सार्द्धं विष्णुर्वापि दिवाकरः ।
उपासते महात्मानस्सर्वे मामिह चापरे
॥२९॥विषयासक्तचित्तोऽपि त्यक्त धर्मरुचिर्नरः ।
इह क्षेत्रे मृतो यो वै संसारं न पुनर्विशेत्
॥३०॥किं पुनर्निर्ममा धीरासत्त्वस्था दंभवर्जिताः ।
कृतिनश्च निरारंभास्सर्वे ते मयि भाविताः
॥३१॥जन्मांतरसहस्रेषु जन्म योगी समाप्नुयात् ।
तदिहैव परं मोक्षं मरणादधिगच्छति
॥३२॥अत्र लिंगान्यनेकानि भक्तैस्संस्थापितानि हि ।
सर्वकामप्रदानीह मोक्षदानि च पार्वति
॥३३॥पंचक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।
समंताच्च तथा जंतोर्मृतिकालेऽमृतप्रदम्
॥३४॥अपापश्च मृतो यो वै सद्यो मोक्षं समश्नुते ।
सपापश्च मृतौ यस्स्यात्कायव्यूहान्समश्नुते
॥३५॥यातनां सोनुभूयैव पश्चान्मोक्षमवाप्नुयात् ।
पातकं योऽविमुक्ताख्ये क्षेत्रेऽस्मिन्कुरुते ध्रुवम्
॥३६॥भैरवीं यातनां प्राप्य वर्षाणामयुते पुनः ।
ततो मोक्षमवाप्नोति भुक्त्वा पापं च सुन्दरि
॥३७॥इति ते च समाख्याता पापाचारे च या गतिः ।
एवं ज्ञात्वा नरस्सम्यक्सेवयेदविमुक्तकम्
॥३८॥कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
॥३९॥केवलं चाशुभं कर्म नरकाय भवेदिह ।
शुभं स्वर्गाय जायेत द्वाभ्यां मानुष्यमीरितम्
॥४०॥जन्म सम्यगसम्यक् च न्यूनाधिक्ये भवेदिह ।
उभयोश्च क्षयो मुक्तिर्भवेत्सत्यं हि पार्वति
॥४१॥कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ।
संचितं क्रियमाणं च प्रारब्धं चेति बंधकृत्
॥४२॥पूर्वजन्मसमुद्भूतं संचितं समुदाहृतम् ।
भुज्यते च शरीरेण प्रारब्धं परिकीर्तितम्
॥४३॥जन्मना यच्च क्रियते कर्म सांप्रतम् ।
शुभाशुभं च देवेशि क्रियमाणं विदुर्बुधाः
॥४४॥प्रारब्धकर्मणो भोगात्क्षयश्चैव चान्यथा ।
उपायेन द्वयोर्नाशः कर्मणोः पूजनादिना
॥४५॥सर्वेषां कर्मणां नाशो नास्ति काशीं पुरीं विना ।
सर्वं च सुलभं तीर्थं दुर्ल्लभा काशिका पुरी
॥४६॥पूर्वजन्मकृतं चेद्वै काशीदर्शनमादरात् ।
तदा काशीं च संप्राप्य लभेन्मृत्युं न चान्यथा
॥४७॥काशीं प्राप्य नरो यस्तु गंगायां स्नानमाचरेत् ।
तदा च क्रियमाणस्य संचितस्यापि संक्षयः
॥४८॥प्रारब्धं न विना भोगो नश्य तीति सुनिश्चितम् ।
मृतिश्च तस्य संजाता तदा तस्य क्षयो भवेत्
॥४९॥पूर्वं चैव कृता काशी पश्चात्पापं समाचरेत् ।
तद्बीजेन बलवता नीयते काशिका पुनः
॥५०॥तदा सर्वाणि पापानि भस्मसाच्च भवंति हि ।
तस्मात्काशीं नरस्सेवेत्कर्मनिर्मूलनीं ध्रुवम्
॥५१॥एकोऽपि ब्राह्मणो येन काश्यां संवासितः प्रिये ।
काशीवासमवाप्यैव ततो मुक्तिं स विंदति
॥५२॥काश्यां यो वै मृतश्चैव तस्य जन्म पुनर्नहि ।
समुद्दिश्य प्रयागे च मृतस्य कामनाफले
॥५३॥संयोगश्च तयोश्चेत्स्यात्काशीजन्यफलं वृथा ।
यदि न स्यात्तयोर्योगस्तीर्थराजफलं वृथा
॥५४॥तस्मान्मच्छासनाद्विष्णुस्सृष्टिं साक्षाद्धि नूतनाम् ।
विधाय मनसोद्दिष्टां तत्सिद्धिं यच्छति ध्रुवम्
॥५५॥सूत उवाच
इत्यादि बहुमाहात्म्यं काश्यां वै मुनिसत्तमाः ।
तथा विश्वेश्वरस्यापि भुक्तिमुक्तिप्रदं सताम्
॥५६॥अतः परं प्रवक्ष्यामि माहात्म्यं त्र्यंबकस्य च ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्
॥५७॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनंनामत्रयोविंशोध्याय. ॥ २३ ॥