मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ४२

3
कोटिरुद्रसंहिता · 42

सगुणनिर्गुणभेदवर्णनम्

ऋषय ऊचुः

शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ।

एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम्

॥१॥

सूत उवाच

यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ।

तदेव शिवसंज्ञं हि वेदवेदांतिनो विदुः

॥२॥

तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ।

ताभ्यान्तपः कृतं तत्र मूलस्थे च जले सुधीः

॥३॥

पञ्चकोशीति विख्याता काशी सर्वातिवल्लभा ।

व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम्

॥४॥

संभाव्य मायया युक्तस्तत्र सुप्तो हरिस्स वै ।

नारायणेति विख्यातः प्रकृतिर्नारायणी मता

॥५॥

तन्नाभिकमले यो वै जातस्स च पितामहः ।

तेनैव तपसा दृष्टस्स वै विष्णुरुदाहृतः ।

उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ।

महादेवेति विख्यातं निर्गुणेन शिवेन हि

॥७॥

तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ।

रुद्रो नाम स विख्यातो लोकानुग्रहकारकः

॥८॥

ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ।

स एव च शिवस्साक्षाद्भक्तवात्सल्यकारकः

॥९॥

शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ।

वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा

॥१०॥

समानरूपकर्माणौ समभक्तगतिप्रदौ ।

समानाखिलसंसेव्यौ नानालीलाविहारिणौ

॥११॥

सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः ।

उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत्

॥१२॥

अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ।

यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते

॥१३॥

ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ।

इमान्रुद्रो मिलित्वा तु न याति श्रुतिशासनम्

॥१४॥

सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ।

स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन

॥१५॥

अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ।

तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः

॥१६॥

रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ।

अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी

॥१७॥

अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ।

तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः

॥१८॥

ब्रह्मादि तृणपर्यंतं यत्किंचिद्दृश्यते त्विह ।

तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना

॥१९॥

सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा ।

सृष्टेरन्ते शिवः प्रोक्तस्सर्वशून्ये तदा शिवः

॥२०॥

तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः ।

स एव सगुणो ज्ञेयः शक्तिमत्त्वाद्द्विधापि सः

॥२१॥

येनैव विष्णवे दत्तास्सर्वे वेदास्सनातनाः ।

वर्णा मात्रा ह्यनैकाश्च ध्यानं स्वस्य च पूजनम्

॥२२॥

ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ।

वेदकर्ता वेदपतिस्तस्माच्छंभुरुदाहृतः

॥२३॥

स एव शंकरः साक्षात्सर्वानुग्रहकारकः ।

कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः

॥२४॥

अन्येषां कालमानं च कालस्य कलना न हि ।

महाकालस्स्वयं साक्षान्महाकालीसमाश्रितः

॥२५॥

तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते ।

सर्वं ताभ्यान्ततः प्राप्तमिच्छया सत्यलीलया

॥२६॥

न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ।

स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः

॥२७॥

स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ।

एकोव्यनेकतां यातोप्यनेकोप्येकतां व्रजेत्

॥२८॥

एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ।

बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः

॥२९॥

एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ।

जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः

॥३०॥

मुनय ऊचुः

ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवताम्व्रजेत् ।

कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च

॥३१॥

व्यास उवाच

एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ।

स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः

॥३२॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥