मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ४०

3
कोटिरुद्रसंहिता · 40

शिवरात्रिव्रतमाहात्म्यवर्णनम्

ऋषय ऊचुः

सूत ते वचनं श्रुत्वा परानन्दं वयं गताः ।

विस्तरात्कथय प्रीत्या तदेव व्रतमुत्तमम्

॥१॥

कृतं पुरा तु केनेह सूतैतद्व्रतमुत्तमम् ।

कृत्वाप्यज्ञानतश्चैव प्राप्तं किं फलमुत्तमम्

॥२॥

सूत उवाच

श्रूयतामृषयस्सर्वे कथयामि पुरातनम् ।

इतिहासं निषादस्य सर्वपापप्रणाशनम्

॥३॥

पुरा कश्चिद्वने भिल्लो नाम्ना ह्यासीद्गुरुद्रुहः ।

कुटुम्बी बलवान्क्रूरः क्रूरकर्मपरायणः

॥४॥

निरन्तरं वने गत्वा मृगान्हन्ति स्म नित्यशः ।

चौर्य्यं च विविधं तत्र करोति स्म वने वसन्

॥५॥

बाल्यादारभ्य तेनेह कृतं किंचिच्छुभं नहि ।

महान्कालो व्यतीयाय वने तस्य दुरात्मनः

॥६॥

कदाचिच्छिवरात्रिश्च प्राप्तासीत्तत्र शोभना ।

न दुरात्मा स्म जानाति महद्वननिवासकृत्

॥७॥

एतस्मिन्समये भिल्लो मात्रा पित्रा स्त्रिया तथा ।

प्रार्थितश्च क्षुधाऽविष्टैर्भक्ष्यं देहि वनेचर

॥८॥

इति संप्रार्थितः सोऽपि धनुरादाय सत्वरम् ।

जगाम मृगहिंसार्थं बभ्राम सकलं वनम्

॥९॥

दैवयोगात्तदा तेन न प्राप्तं किंचिदेव हि ।

अस्तप्राप्तस्तदा सूर्यस्स वै दुःखमुपागतः

॥१०॥

किं कर्तव्यं क्व गंतव्यं न प्राप्तं मेऽद्य किंचन ।

बालाश्च ये गृहे तेषां किं पित्रोश्च भविष्यति

॥११॥

मदीयं वै कलत्रं च तस्याः किंचिद्भविष्यति ।

किंचिद्गृहीत्वा हि मया गंतव्यं नान्यथा भवेत्

॥१२॥

इत्थं विचार्य स व्याधो जलाशय समीपगः ।

जलावतरणं यत्र तत्र गत्वा स्वयं स्थितः

॥१३॥

अवश्यमत्र कश्चिद्वै जीवश्चैवागमिष्यति ।

तं हत्वा स्वगृहं प्रीत्या यास्यामि कृतकार्यकः

॥१४॥

इति मत्वा स वै वृक्षमेकं बिल्वेतिसंज्ञकम् ।

समारुह्य स्थितस्तत्र जलमादाय भिल्लकः

॥१५॥

कदा यास्यति कश्चिद्वै कदा हन्यामहं पुनः ।

इति बुद्धिं समास्थाय स्थितोऽसौ क्षुत्तृषान्वितः

॥१६॥

तद्रात्रौ प्रथमे यामे मृगी त्वेका समागता ।

तृषार्ता चकिता सा च प्रोत्फालं कुर्वती तदा

॥१७॥

तां दृष्ट्वा च तदा तेन तद्वधार्थमथो शरः ।

संहृष्टेन द्रुतं विष्णो धनुषि स्वे हि संदधे

॥१८॥

इत्येवं कुर्वतस्तस्य जलं बिल्वदलानि च ।

पतितानि ह्यधस्तत्र शिवलिंगमभूत्ततः

॥१९॥

यामस्य प्रथमस्यैव पूजा जाता शिवस्य च ।

तन्महिम्ना हि तस्यैव पातकं गलितन्तदा

॥२०॥

तत्रत्यं चैव तच्छब्दं श्रुत्वा सा हरिणी भिया ।

व्याधं दृष्ट्वा व्याकुला हि वचनं चेदमब्रवीत्

॥२१॥

मृग्युवाच

किं कर्तुमिच्छसि व्याध सत्यं वद ममाग्रतः ।

तच्छुत्वा हरिणीवाक्यं व्याधो वचनमब्रवीत्

॥२२॥

व्याध उवाच

कुटुम्बं क्षुधितं मेऽद्य हत्वा त्वां तर्पयाम्यहम् ।

दारुणं तद्वचश्श्रुत्वा दृष्ट्वा तं दुर्द्धरं खलम्

॥२३॥

किं करोमि क्व गच्छामि ह्युपायं रचयाम्यहम् ।

इत्थं विचार्यं सा तत्र वचनं चेदमब्रवीत्

॥२४॥

मृग्युवाच

मन्मांसेन सुखं ते स्याद्देहस्यानर्थकारिणः ।

अधिकं किं महत्पुण्यं धन्याहं नात्र संशयः

॥२५॥

उपकारकरस्यैव यत्पुण्यं जायते त्विह ।

तत्पुण्यं शक्यते नैव वक्तुं वर्षशतैरपि

॥२६॥

परं तु शिशवो मेऽद्य वर्तंते स्वाश्रमेऽखिलाः ।

भगिन्यै तान्समर्प्यैव प्रायास्ये स्वामिनेऽथ वा

॥२७॥

न मे मिथ्यावचस्त्वं हि विजानीहि वनेचर ।

आयास्येह पुनश्चेह समीपं ते न संशयः

॥२८॥

स्थिता सत्येन धरणी सत्येनैव च वारिधिः ।

सत्येन जलधाराश्च सत्ये सर्वम्प्रतिष्ठितम्

॥२९॥

सूत उवाच

इत्युक्तोऽपि तया व्याधो न मेने तद्वचो यदा ।

तदा सुविस्मिता भीता वचनं साब्रवीत्पुनः

॥३०॥

मृग्युवाच

शृणु व्याध प्रवक्ष्यामि शपथं हि करोम्यहम् ।

आगच्छेयं यथा ते न समीपं स्वगृहाद्गता

॥३१॥

ब्राह्मणो वेदविक्रेता सन्ध्याहीनस्त्रिकालकम् ।

स्त्रियस्स्वस्वामिनो ह्याज्ञां समुल्लंघ्य क्रियान्विताः

॥३२॥

कृतघ्ने चैव यत्पापं तत्पापं विमुखे हरे ।

द्रोहिणश्चैव यत्पापं तत्पापं धर्मलंघने

॥३३॥

विश्वासघातके तच्च तथा वै छलकर्तरि ।

तेन पापेन लिम्पामि यद्यहं नागमे पुनः

॥३४॥

इत्याद्यनेकशपथान्मृगी कृत्वा स्थिता यदा ।

तदा व्याधस्य विश्वस्य गच्छेति गृहमब्रवीत्

॥३५॥

मृगी हृष्टाजलं पीत्वा गता स्वाश्रममण्डलम् ।

तावच्च प्रथमो यामस्तस्य निद्रां विना गतः

॥३६॥

तदीया भगिनी या वै मृगी च परिभाविता ।

तस्या मार्गं विचिन्वन्ती ह्याजगाम जलार्थिनी

॥३७॥

तां दृष्ट्वा च स्वयं भिल्लोऽकार्षीद्बाणस्य कर्षणम् ।

पूर्ववज्जलपत्राणि पतितानि शिवोपरि

॥३८॥

यामस्य च द्वितीयस्य तेन शंभोर्महात्मनः ।

पूजा जाता प्रसंगेन व्याधस्य सुखदायिनी

॥३९॥

मृगी सा प्राह तं दृष्ट्वा किं करोषि वनेचर ।

पूर्ववत्कथितं तेन तच्छ्रुत्वाह मृगी पुनः

॥४०॥

मृग्युवाच

धन्याहं श्रूयतां व्याध सफलं देहधारणम् ।

अनित्येन शरीरेण ह्युपकारो भविष्यति

॥४१॥

परन्तु मम बालाश्च गृहे तिष्ठन्ति चार्भकाः ।

भर्त्रे तांश्च समर्प्यैव ह्यागमिष्याम्यहं पुनः

॥४२॥

व्याध उवाच

त्वया चोक्तं न मन्येहं हन्मि त्वां नात्र संशयः ।

तच्छुत्वा हरिणी प्राह शपथं कुर्वती हरे

॥४३॥

मृग्युवाच

शृणु व्याध प्रवक्ष्यामि नागच्छेयं पुनर्यदि ।

वाचा विचलितो यस्तु सुकृतं तेन हारितम्

॥४४॥

परिणीता स्त्रियं हित्वा गच्छत्यन्यां च यः पुमान् ।

वेदधर्मं समुल्लंघ्य कल्पितेन च यो व्रजेत्

॥४५॥

विष्णुभक्तिसमायुक्तः शिवनिन्दां करोति यः ।

पित्रोः क्षयाहमासाद्य शून्यं चैवाक्रमेदिह

॥४६॥

कृत्वा च पारतापं हि करोति वचनं पुनः ।

तेन पापेन लिंपामि नागच्छेयं पुनर्यदि

॥४७॥

सूत उवाच

इत्युक्तश्च तया व्याधो गच्छेत्याह मृगीं च सः ।

सा मृगी च जलं पीत्वा हृष्टाऽगच्छत्स्वमाश्रमम्

॥४८॥

तावद्द्वितीयो यामो वै तस्य निद्रां विना गतः ।

एतस्मिन्समये तत्र प्राप्ते यामे तृतीयके

॥४९॥

ज्ञात्वा विलंबं चकितस्तदन्वेषणतत्परः ।

तद्यामे मृगमद्राक्षीज्जलमार्गगतं ततः

॥५०॥

पुष्टं मृगं च तं दृष्ट्वा हृष्टो वनचरस्स वै ।

शरं धनुषि संधाय हन्तुं तं हि प्रचक्रमे

॥५१॥

तदैवं कुर्वतस्तस्य बिल्वपत्राणि कानिचित् ।

तत्प्रारब्धवशाद्विष्णो पतितानि शिवोपरि

॥५२॥

तेन तृतीययामस्य तद्रात्रौ तस्य भाग्यतः ।

पूजा जाता शिवस्यैव कृपालुत्वं प्रदर्शितम्

॥५३॥

श्रुत्वा तत्र च तं शब्दं किं करोषीति प्राह सः ।

कुटुम्बार्थमहं हन्मि त्वां व्याधश्चेति सोब्रवीत्

॥५४॥

तच्छ्रुत्वा व्याधवचनं हरिणो हृष्टमानसः ।

द्रुतमेव च तं व्याधं वचनं चेदमब्रवीत्

॥५५॥

हरिण उवाच

धन्योहं पुष्टिमानद्य भवत्तृप्तिर्भविष्यति ।

यस्यांगं नोपकाराय तस्य सर्वं वृथा गतम्

॥५६॥

यो वै सामर्थ्ययुक्तश्च नोपकारं करोति वै ।

तत्सामर्थ्यं भवेद्व्यर्थं परत्र नरकं व्रजेत्

॥५७॥

परन्तु बालकान् स्वांश्च समर्प्य जननीं शिशून् ।

आश्वास्याप्यथ तान् सर्वानागमिष्याम्यहं पुनः

॥५८॥

इत्युक्तस्तेन स व्याधो विस्मितोतीव चेतसि ।

मनाक् शुद्धमनानष्टपापपुंजो वचोऽब्रवीत्

॥५९॥

व्याध उवाच

ये ये समागताश्चात्र तेते सर्वे त्वया यथा ।

कथयित्वा गता ह्यत्र नायान्त्यद्यापि वंचकाः

॥६०॥

त्वं चापि संकटे प्राप्तो व्यलीकं च गमिष्यसि ।

मम सञ्जीवनं चाद्य भविष्यति कथं मृग

॥६१॥

मृग उवाच

शृणु व्याध प्रवक्ष्यामि नानृतं विद्यते मयि ।

सत्येन सर्वं ब्रह्माण्डं तिष्ठत्येव चराचरम्

॥६२॥

यस्य वाणी व्यलीका हि तत्पुण्यं गलितं क्षणात् ।

तथापि शृणु वै सत्यां प्रतिज्ञां मम भिल्लक

॥६३॥

सन्ध्यायां मैथुने घस्रे शिवरात्र्यां च भोजने ।

कूटसाक्ष्ये न्यासहारे संध्याहीने द्विजे तथा

॥६४॥

शिवहीनं मुखं यस्य नोपकर्ता क्षमोऽपि सन् ।

पर्वणि श्रीफलस्यैव त्रोटनेऽभक्ष्यभक्षणे

॥६५॥

असंपूज्य शिवं भस्मरहितश्चान्नभुक् च यः ।

एतेषां पातकं मे स्यान्नागच्छेयं पुनर्यदि

॥६६॥

शिव उवाच

इति श्रुत्वा वचस्तस्य गच्छ शीघ्रं समाव्रज ।

स व्याधेनैवमुक्तस्तु जलं पीत्वा गतो मृगः

॥६७॥

ते सर्वे मिलितास्तत्र स्वाश्रमे कृतसुप्रणाः ।

वृत्तांतं चैव तं सर्वं श्रुत्वा सम्यक् परस्परम्

॥६८॥

गन्तव्यं निश्चयेनेति सत्यपाशेन यंत्रिताः ।

आश्वास्य बालकांस्तत्र गन्तुमुत्कण्ठितास्तदा

॥६९॥

मृगी ज्येष्ठा च या तत्र स्वामिनं वाक्यमब्रवीत् ।

त्वां विना बालका ह्यत्र कथं स्थास्यंति वै मृग

॥७०॥

प्रथमं तु मया तत्र प्रतिज्ञा च कृता प्रभो ।

तस्मान्मया च गन्तव्यं भवद्भ्यां स्थीयतामिह

॥७१॥

इति तद्वचनं श्रुत्वा कनिष्ठा वाक्यमब्रवीत् ।

अहं त्वत्सेविका चाद्य गच्छामि स्थीयतां त्वया

॥७२॥

तच्छ्रुत्वा च मृगः प्राह गम्यते तत्र वै मया ।

भवत्यौ तिष्ठतां चात्र मातृतः शिशुरक्षणम्

॥७३॥

तत्स्वामिवचनं श्रुत्वा मेनाते तन्न धर्मतः ।

प्रोचुः प्रीत्या स्वभर्तारं वैधव्ये जीवितं च धिक्

॥७४॥

बालानाश्वास्य तांस्तत्र समर्प्य सहवासिनः ।

गतास्ते सर्व एवाशु यत्रास्ते व्याधसत्तमः

॥७५॥

ते बाला अपि सर्वे वै विलोक्यानुसमागताः ।

एतेषां या गतिः स्याद्वै ह्यस्माकं सा भवत्विति

॥७६॥

तान् दृष्ट्वा हर्षितो व्याधो बाणं धनुषि संदधे ।

पुनश्च जलपत्राणि पतितानि शिवोपरि

॥७७॥

तेन जाता चतुर्थस्य पूजा यामस्य वै शुभा ।

तस्य पापन्तदा सर्वं भस्मसादभवत् क्षणात्

॥७८॥

मृगी मृगी मृगश्चोचुश्शीघ्रं वै व्याधसत्तम ।

अस्माकं सार्थकं देहं कुरु त्वं हि कृपां कुरु

॥७९॥

शिव उवाच

इति तेषां वचश्श्रुत्वा व्याधो विस्मयमागतः ।

शिवपूजाप्रभावेण ज्ञानं दुर्लभमाप्तवान्

॥८०॥

एते धन्या मृगाश्चैव ज्ञानहीनास्सुसंमताः ।

स्वीयेनैव शरीरेण परोपकरणे रताः

॥८१॥

मानुष्यं जन्म संप्राप्य साधितं किं मयाधुना ।

परकायं च संपीड्य शरीरं पोषितं मया

॥८२॥

कुटुम्बं पोषितं नित्यं कृत्वा पापान्यनेकशः ।

एवं पापानि हा कृत्वा का गतिर्मे भविष्यति

॥८३॥

कां वा गतिं गमिष्यामि पातकं जन्मतः कृतम् ।

इदानीं चिंतयाम्येवं धिग्धिक् च जीवनं मम

॥८४॥

इति ज्ञानं समापन्नो बाणं संवारयंस्तदा ।

गम्यतां च मृगश्रेष्ठा धन्याः स्थ इति चाब्रवीत्

॥८५॥

शिव उवाच

इत्युक्ते च तदा तेन प्रसन्नश्शंकरस्तदा ।

पूजितं च स्वरूपं हि दर्शयामास संमतम्

॥८६॥

संस्पृश्य कृपया शंभुस्तं व्याधं प्रीतितोऽब्रवीत् ।

वरं ब्रूहि प्रसन्नोऽस्मि व्रतेनानेन भिल्लक

॥८७॥

व्याधोऽपि शिवरूपं च दृष्ट्वा मुक्तोऽभवत्क्षणात् ।

पपात शिवपादाग्रे सर्वं प्राप्तमिति बुवन्

॥८८॥

शिवोऽपि सुप्रन्नात्मा नाम दत्वा गुहेति च ।

विलोक्य तं कृपादृष्ट्या तस्मै दिव्यान्वरानदात्

॥८९॥

शिव उवाच

शृणु व्याधाद्य भोगांस्त्वं भुंक्ष्व दिव्यान्यथेप्सितान् ।

राजधानीं समाश्रित्य शृंगवेरपुरे पराम्

॥९०॥

अनपाया वंशवृद्धिश्श्लाघनीयः सुरैरपि ।

गृहे रामस्तव व्याध समायास्यति निश्चितम्

॥९१॥

करिष्यति त्वया मैत्री मद्भक्तस्नेहकारकः ।

मत्सेवासक्तचेतास्त्वं मुक्तिं यास्यसि दुर्लभाम्

॥९२॥

एतस्मिन्नंतरे ते तु कृत्वा शंकरदर्शनम् ।

सर्वे प्रणम्य सन्मुक्तिं मृगयोनेः प्रपेदिरे

॥९३॥

विमानं च समारुह्य दिव्यदेहा गतास्तदा ।

शिवदर्शनमात्रेण शापान्मुक्ता दिवं गताः

॥९४॥

व्याधेश्वरः शिवो जातः पर्वते ह्यर्बुदाचले ।

दर्शनात्पूजनात्सद्यो भुक्तिमुक्तिप्रदायकः

॥९५॥

व्याधोपि तद्दिनान्नूनं भोगान्स सुरसत्तम ।

भुक्त्वा रामकृपां प्राप्य शिवसायुज्यमाप्तवान्

॥९६॥

अज्ञानात्स व्रतञ्चैतत्कृत्वा सायुज्यमाप्तवान् ।

किं पुनर्भक्तिसंपन्ना यान्ति तन्मयतां शुभाम्

॥९७॥

विचार्य्य सर्वशास्त्राणि धर्मांश्चैवाप्यनेकशः ।

शिवरात्रिव्रतमिदं सर्वोत्कृष्टं प्रकीर्तितम्

॥९८॥

व्रतानि विविधान्यत्र तीर्थानि विविधानि च ।

दानानि च विचित्राणि मखाश्च विविधास्तथा

॥९९॥

तपांसि विविधान्येव जपाश्चैवाप्य नेकशः ।

नैतेन समतां यान्ति शिवरात्रिव्रतेन च

॥१००॥

तस्माच्छुभतरं चैतत्कर्तव्यं हितमीप्सुभिः ।

शिवरात्रिव्रतन्दिव्यं भुक्ति मुक्तिप्रदं सदा

॥१०१॥

एतत्सर्वं समाख्यातं शिवरात्रिव्रतं शुभम् ।

व्रतराजेति विख्यातं किमन्यच्छ्रोतुमिच्छसि

॥१०२॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥