उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च
ऋषय उचुः ।
उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च ।
यत्कृत्वा शंकरस्साक्षात्प्रसन्नो भवति धुवम्
॥१॥सूत उवाच
श्रूयतामृषयो भक्त्या तदुद्यापनमादरात् ।
यस्यानुष्ठानतः पूर्णं व्रतं भवति तद्ध्रुवम्
॥२॥चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम् ।
एकभक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम्
॥३॥शिवरात्रिदिने प्राप्ते नित्यं संपाद्य वै विधिम् ।
शिवालयं ततो गत्वा पूजां कृत्वा यथाविधि
॥४॥ततश्च कारयेद्दिव्यं मण्डलं तत्र यत्नतः ।
गौरीतिलकनाम्ना वै प्रसिद्धं भुवनत्रये
॥५॥तन्मध्ये लेखयेद्दिव्यं लिंगतो भद्रमण्डलम् ।
अथवा सर्वतोभद्रं मण्डपान्तः प्रकल्पयेत्
॥६॥कुंभास्तत्र प्रकर्तव्याः प्राजापत्यविसंज्ञया ।
सवस्त्रास्सफलास्तत्र दक्षिणासहिताः शुभाः
॥७॥मण्डलस्य च पार्श्वे वै स्थापनीयाः प्रयत्नतः ।
मध्ये चैकश्च संस्थाप्यः सौवर्णो वापरो घटः
॥८॥तत्रोमासहितां शंभुमूर्तिन्निर्माय हाटकीम् ।
पलेन वा तदर्द्धेन यथाशक्त्याथवा व्रती
॥९॥निधाय वामभागे तु शिवामूर्त्तिमतन्द्रितः ।
मदीयां दक्षिणे भागे कृत्वा रात्रौ प्रपूजयेत्
॥१०॥आचार्यं वरयेत्तत्र चर्त्विग्भिस्सहितं शुचिम् ।
अनुज्ञातश्च तैर्भक्त्या शिवपूजां समाचरेत्
॥११॥रात्रौ जागरणं कुर्यात्पूजां यामोद्भवां चरन् ।
रात्रिमाक्रमयेत्सर्वां गीतनृत्यादिना व्रती
॥१२॥एवं सम्पूज्य विधिवत्संतोष्य प्रातरेव च ।
पुनः पूजां ततः कृत्वा होमं कुर्याद्यथाविधि
॥१३॥यथाशक्ति विधानं च प्राजापत्यं समाचरेत् ।
ब्राह्मणान्भोजयेत्प्रीत्या दद्याद्दानानि भक्तितः
॥१४॥ऋत्विजश्च सपत्नीकान्वस्त्रालङ्कारभूषणैः ।
अलङ्कृत्य विधानेन दद्याद्दानं पृथक्पृथक्
॥१५॥गां सवत्सां विधानेन यथोपस्करसंयुताम् ।
उक्त्वाचार्याय वै दद्याच्छिवो मे प्रीयतामिति
॥१६॥तत्तस्सकुम्भां तन्मूर्तिं सवस्त्रां वृषभे स्थिताम् ।
सर्वालंकारसहितामाचार्याय निवेदयेत्
॥१७॥ततः संप्रार्थयेद्देवं महेशानं महाप्रभुम् ।
कृतांजलिर्नतस्कन्धस्सुप्रीत्या गद्गदाक्षरः
॥१८॥देवदेव महादेव शरणागतवत्सल ।
व्रतेनानेन देवेश कृपां कुरु ममोपरि
॥१९॥मया भक्त्यनुसारेण व्रतमेतत्कृतं शिवा ।
न्यूनं सम्पूर्णतां यातु प्रसादात्तव शङ्कर
॥२०॥अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु कृपया सफलं तव शङ्कर
॥२१॥एवं पुष्पांजलिं दत्त्वा शिवाय परमात्मने ।
नमस्कारं ततः कुर्यात्प्रार्थनां पुनरेव च
॥२२॥एवं व्रतं कृतं येन न्यूनं तस्य न विद्यते ।
मनोभीष्टां ततः सिद्धिं लभते नात्र संशयः
॥२३॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटित्त्वसंहितायां शिवरात्रिव्रतोद्यापनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥