शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया
सूत उवाच
शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया ।
स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात्
॥१॥एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च ।
अत्यंतं ध्यानमारब्धं पार्थिवस्य पुरस्तदा
॥२॥केनचित्तत्र गत्वा च राक्षसाय निवेदितम् ।
राजा किंचित्करोत्येवं त्वदर्थं ह्याभिचारिकम्
॥३॥सूत उवाच
राक्षसस्स च तच्छुत्वा क्रुद्धस्तद्धननेच्छया ।
गृहीत्वा करवालं च जगाम नृपतिं प्रति
॥४॥तद्दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् ।
तदर्थं तत्स्वरूपं च दृष्ट्वा किंचित्करोत्यसौ
॥५॥अत एनं बलादद्य हन्मि सोपस्करं नृपम् ।
विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम्
॥६॥भीम उवाच
रेरे पार्थिव दुष्टात्मन्क्रियते किं त्वयाधुना ।
सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम्
॥७॥सूत उवाच
इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ।
मनसीति चिचिन्ताशु शिवविश्वासपूरितः
॥८॥भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ।
प्रारब्धाधीनमेवात्र प्रारब्धस्स शिवः स्मृतः
॥९॥कृपालुश्शंकरश्चात्र पार्थिवे वर्तते ध्रुवम् ।
मदर्थं न करोतीह कुतः कोयं च राक्षसः
॥१०॥स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति ।
सत्यप्रतिज्ञो भगवाञ्छिवश्चेति श्रुतौ श्रुतः
॥११॥मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः ।
तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः
॥१२॥एवं धैर्य्यं समालंब्य ध्यात्वा देवं च शंकरम् ।
प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः
॥१३॥त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु ।
सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम्
॥१४॥एवं मनसि स ध्यात्वा सत्यपाशेन मंत्रितः ।
प्राह सत्यं वचो राजा राक्षसं चावमानयन्
॥१५॥नृप उवाच
भजामि शंकरं देवं स्वभक्तपरिपालकम् ।
चराचराणां सर्वेषामीश्वरं निर्विकारकम्
॥१६॥सूत उवाच
इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ।
क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत्
॥१७॥भीम उवाच
शंकरस्ते मया ज्ञातः किं करिष्यति वै मम ।
यो मे पितृव्यकेनैव स्थापितः किंकरो यथा
॥१८॥तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे ।
तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा
॥१९॥यावन्मया न दृष्टो हि शंकरस्त्वत्प्रपालकः ।
तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित्
॥२०॥मया दृष्टे च तत्सर्वं स्फुटं स्यात्सर्वथा नृप ।
तस्मात्त्वं वै शिवस्येदं रूपं दूरतरं कुरु
॥२१॥अन्यथा हि भयं तेऽद्य भविष्यति न संशयः ।
स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः
॥२२॥सूत उवाच
इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः ।
दृढं शंकरविश्वासो द्रुतं वाक्यमुवाच तम्
॥२३॥राजोवाच
अहं च पामरो दुष्टो न मोक्ष्ये शंकरं पुनः ।
सर्वोत्कृष्टश्च मे स्वामी न मां मुंचति कर्हिचित्
॥२४॥सूत उवाच
एवं वचस्तदा श्रुत्वा तस्य राज्ञश्शिवात्मनः ।
तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत्
॥२५॥भीम उवाच
मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् ।
योगिनां का च निष्ठा वै भक्तानां प्रतिपालने
॥२६॥इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा ।
अहं च तव स स्वामी युद्धं वै करवावहे
॥२७॥सूत उवाच
इत्युक्तस्य नृपश्रेष्ठश्शंभुभक्तो दृढव्रतः ।
प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा
॥२८॥राजोवाच
शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते ।
त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि
॥२९॥सूत उवाच
इत्युक्तस्सैन्यमादाय राजानं परिभर्त्स्य तम् ।
करालं करवालं च पार्थिवे प्राक्षिपत्तदा
॥३०॥पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् ।
इत्युवाच विहस्यैव राक्षसैस्स महाबलः
॥३१॥करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः ।
यावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः
॥३२॥पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् ।
मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा
॥३३॥एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् ।
इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः
॥३४॥पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा ।
तच्छूलं शतधा नीतमपि दुष्टस्य शंभुना
॥३५॥पुनश्शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः ।
शंभुना सापि बाणैस्स्वैर्लक्षधा च कृता द्रुतम्
॥३६॥पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि ।
शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात्
॥३७॥ततश्शिवगणानां च राक्षसानां परस्परम् ।
युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम्
॥३८॥ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् ।
समुद्राश्च तदा सर्वे चुक्षुभुस्समहीधराः
॥३९॥देवाश्च ऋषयस्सर्वे बभूवुर्विकला अति ।
ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितश्शिवः
॥४०॥नारदश्च समागत्य शंकरं दुःखदाहकम् ।
प्रार्थयामास तत्रैव सांजलिर्नतमस्तकः
॥४१॥नारद उवाच
क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक ।
तृणेकश्च कुठारो वै हन्यतां शीघ्रमेव हि
॥४२॥इति संप्रार्थितश्शंभुः सर्वान्रक्षोगणान्प्रभुः ।
हुंकारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा
॥४३॥सर्वे ते राक्षसा दग्धाः शंकरेण क्षणं मुने ।
बभूवुस्तत्र सर्वेषां देवानां पश्यताद्भुतम्
॥४४॥दावानलगतो वह्निर्यथा च वनमादहेत् ।
तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात्
॥४५॥भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा ।
परिवारयुतो दग्धो नाम न श्रूयते क्वचित्
॥४६॥ततश्शिवस्य कृपया शांतिं प्राप्ता मुनीश्वराः ।
देवास्सर्वे च शक्राद्यास्स्वास्थ्यं प्रापाखिलं जगत्
॥४७॥क्रोधज्वाला महेशस्य निस्ससार वनाद्वनम् ।
राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम्
॥४८॥ततश्चौषधयो जाता नानाकार्यकरास्तथा ।
रूपान्तरं ततो नॄणां भवेद्वेषांतरं तथा
॥४९॥भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् ।
तन्न कार्यं च यच्चैव ततो न भवति द्विजाः
॥५०॥ततः प्रार्थितश्शम्भुर्मुनिभिश्च विशेषतः ।
स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे
॥५१॥अयं वै कुत्सितो देश अयोध्यालोकदुःखदः ।
भवंतं च तदा दृष्ट्वा कल्याणं संभविष्यति
॥५२॥भीमशंकरनामा त्वं भविता सर्वसाधकः ।
एतल्लिंगं सदा पूज्यं सर्वापद्विनिवारकम्
॥५३॥सूत उवाच
इत्येवं प्रार्थितश्शम्भुर्लोकानां हितकारकः ।
तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः
॥५४॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥