सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः
ऋषय ऊचुः
सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता
॥१॥उत्तरस्यां दिशायां च शिवलिंगानि यानि च ।
तेषां माहात्म्यमनघ वद त्वं पापनाशकम्
॥२॥सूत उवाच
शृणुतादरतो विप्रा औत्तराणां विशेषतः ।
माहात्म्यं शिवलिंगानां प्रवदामि समासतः
॥३॥गोकर्णं क्षेत्रमपरं महापातकनाशनम् ।
महावनं च तत्रास्ति पवित्रमतिविस्तरम्
॥४॥तत्रास्ति चन्द्रभालाख्यं शिवलिंगमनुत्तमम् ।
रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम्
॥५॥तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ।
सर्वलोकहितार्थाय करुणासागरस्य च
॥६॥स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ।
शिवलोकमवाप्नोति सत्यंसत्यं न संशयः
॥७॥चन्द्रभालस्य लिंगस्य महिमा परमाद्भुतः ।
न शक्यो वर्णितुं व्यासाद्भक्तस्नेहितरस्य हि
॥८॥चन्द्रभालमहादेव लिंगस्य महिमा महान् ।
यथाकथंचित्संप्रोक्तः परलिंगस्य वै शृणु
॥९॥दाधीचं शिवलिंगं तु मिश्रर्षिवरतीर्थके ।
दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम्
॥१०॥तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ।
शिवलिंगं समर्चेद्वै दाधीचेश्वरमादरात्
॥११॥दाधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ।
शिवप्रीत्यर्थमेवाशु तीर्थयात्रा फलार्थिभिः
॥१२॥एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ।
इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात्
॥१३॥नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ।
ऋषीश्वरमिति ख्यातं शिवलिंगं सुखप्रदम्
॥१४॥तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ।
भुक्तिमुक्तिश्च तेषां तु परत्रेह मुनीश्वराः
॥१५॥हत्याहरणतीर्थे तु शिवलिंगमघापहम् ।
पूजनीयं विशेषेण हत्याकोटिविनाशनम्
॥१६॥देवप्रयागतीर्थे तु ललितेश्वरनामकम् ।
शिवलिंगं सदा पूज्यं नरैस्सर्वाघनाशनम्
॥१७॥नयपालाख्यपुर्य्यां तु प्रसिद्धायां महीतले ।
लिंगं पशुपतीशाख्यं सर्वकामफलप्रदम्
॥१८॥शिरोभागस्वरूपेण शिवलिंगं तदस्ति हि ।
तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने
॥१९॥तदारान्मुक्तिनाथाख्यं शिवलिंगं महाद्भुतम् ।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते
॥२०॥इति वश्च समाख्यातं लिंगवर्णनमुत्तमम् ।
चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ
॥२१॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥