महाकालज्योतिर्लिंगमाहात्म्यवर्णनम्
ऋषय ऊचुः
सूत सर्वं विजानासि वस्तु व्यास प्रसादतः ।
ज्योतिषां च कथां श्रुत्वा तृप्तिर्नैव प्रजायते
॥१॥तस्मात्त्वं हि विशेषेण कृपां कृत्वातुलां प्रभो ।
ज्योतिर्लिंगं तृतीयं च कथय त्वं हि नोऽधुना
॥२॥सूत उवाच
धन्योऽहं कृतकृत्योऽहं श्रीमतां भवतां यदि ।
गतश्च संगमं विप्रा धन्या वै साधुसंगतिः
॥३॥अतो मत्वा स्वभाग्यं हि कथयिष्यामि पावनीम् ।
पापप्रणाशिनीं दिव्यां कथां च शृणुतादरात्
॥४॥अवंती नगरी रम्या मुक्तिदा सर्वदेहिनाम् ।
शिवप्रिया महापुण्या वर्तते लोकपावनी
॥५॥तत्रासीद्बाह्मणश्रेष्ठश्शुभकर्मपरायणः ।
वेदाध्ययनकर्त्ता च वेदकर्मरतस्सदा
॥६॥अग्न्याधानसमायुक्तश्शिवपूजारतस्सदा ।
पार्थिवीं प्रत्यहं मूर्तिं पूजयामास वै द्विजः
॥७॥सर्वकर्मफलं प्राप्य द्विजो वेदप्रियस्सदा ।
सतां गतिं समालेभे सम्यग्ज्ञानपरायणः
॥८॥तत्पुत्रास्तादृशाश्चासंश्चत्वारो मुनिसत्तमाः ।
शिवपूजारता नित्यं पित्रोरनवमास्सदा
॥९॥देवप्रियश्च तज्ज्येष्ठः प्रियमेधास्ततः परम् ।
तृतीयस्तु कृतो नाम धर्मवाही च सुव्रतः
॥१०॥तेषां पुण्यप्रतापाच्च पृथिव्यां सुखमैधत ।
शुक्लपक्षे यथा चन्द्रो वर्द्धते च निरंतरम्
॥११॥तथा तेषां गुणास्तत्र वर्द्धन्ते स्म सुखावहाः ।
ब्रह्मतेजोमयी सा वै नगरी चाभवत्तदा
॥१२॥एतस्मिन्नन्तरे तत्र यज्जातं वृत्तमुत्तमम् ।
श्रूयतां तद्द्विजश्रेष्ठाः कथयामि यथाश्रुतम्
॥१३॥पर्वते रत्नमाले च दूषणाख्यो महासुरः ।
बलवान्दैत्यराजश्च धर्मद्वेषी निरन्तरम्
॥१४॥ब्रह्मणो वरदानाच्च जगतुच्छीचकार ह ।
देवा पराजितास्तेन स्थानान्निस्सारितास्तथा
॥१५॥पृथिव्यां वेदधर्माश्च स्मृतिधर्माश्च सर्वशः ।
स्फोटितास्तेन दुष्टेन सिंहेनेव शशा खलु
॥१६॥यावंतो वेदधर्माश्च तावंतो दूरतः कृताः ।
तीर्थेतीर्थे तथा क्षेत्रे धर्मो नीतश्च दूरतः
॥१७॥अवंती नगरी रम्या तत्रैका दृश्यते पुनः ।
इत्थं विचार्य तेनैव यत्कृतं श्रूयतां हि तत्
॥१८॥बहुसैन्यसमायुक्तो दूषणस्स महासुरः ।
तत्रस्थान्ब्रह्मणान्सर्वानुद्दिश्य समुपाययौ
॥१९॥तत्रागत्य स दैत्येन्द्रश्चतुरो दैत्यसत्तमान् ।
प्रोवाचाहूय वचनं विप्र द्रोही महाखलः
॥२०॥दैत्य उवाच
किमेते ब्राह्मणा दुष्टा न कुर्वंति वचो मम ।
वेदधर्मरता एते सर्वे दंड्या मते मम
॥२१॥सर्वे देवा मया लोके राजानश्च पराजिताः ।
वशे किं ब्राह्मणाश्शक्या न कर्तुं दैत्यसत्तमाः
॥२२॥यदि जीवितुमिच्छा स्यात्तदा धर्मं शिवस्य च ।
वेदानां परमं धर्मं त्यक्त्वा सुखसुभागिनः
॥२३॥अन्यथा जीवने तेषां संशयश्च भविष्यति ।
इति सत्यं मया प्रोक्तं तत्कुरुध्वं विशंकिताः
॥२४॥सूत उवाच
इति निश्चित्य ते दैत्याश्चत्वारः पावका इव ।
चतुर्दिक्षु तदा जाताः प्रलये च यथा पुरा
॥२५॥ते ब्राह्मणास्तथा श्रुत्वा दैत्यानामुद्यमं तदा ।
न दुःखं लेभिरे तत्र शिवध्यान परायणाः
॥२६॥धैर्यं समाश्रितास्ते च रेखामात्रं तदा द्विजाः ।
न चेलुः परमध्यानाद्वराकाः के शिवाग्रतः
॥२७॥एतस्मिन्नन्तरे तैस्तु व्याप्तासीन्नगरी शुभा ।
लोकाश्च पीडितास्तैस्तु ब्राह्मणान्समुपाययुः
॥२८॥लोका ऊचुः
स्वामिनः किं च कर्त्तव्यं दुष्टाश्च समुपागताः ।
हिंसिता बहवो लोका आगताश्च समीपतः
॥२९॥सूत उवाच
तेषामिति वचश्श्रुत्वा वेदप्रियसुताश्च ते ।
समूचुर्ब्राह्मणास्तान्वै विश्वस्ताश्शंकरे सदा
॥३०॥ब्राह्मणा ऊचुः
श्रूयतां विद्यते नैव बलं दुष्टभयावहम् ।
न शस्त्राणि तथा संति यच्च ते विमुखाः पुनः
॥३१॥सामान्यस्यापमानो नो ह्याश्रयस्य भवेदिह ।
पुनश्च किं समर्थस्य शिवस्येह भविष्यति
॥३२॥शिवो रक्षां करोत्वद्यासुराणां भयतः प्रभुः ।
नान्यथा शरणं लोके भक्तवत्सलतश्शिवात्
॥३३॥सूत उवाच
इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ।
कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ।
दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि
॥३४॥दूषणेन वचः प्रोक्तं हन्यतां वध्यतामिति ।
तच्छ्रुतं तैस्तदा नैव दैत्यप्रोक्तं वचो द्विजैः ।
वेदप्रियसुतैश्शंभोर्ध्यानमार्गपरायणैः
॥३५॥अथ यावत्स दुष्टात्मा हन्तुमैच्छद्द्विजांश्च तान् ।
तावच्च प्रार्थिवस्थाने गर्त्तं आसीत्सशब्दकः
॥३६॥गर्तात्ततस्समुत्पन्नः शिवो विकटरूपधृक् ।
महाकाल इति ख्यातो दुष्टहंता सतां गतिः
॥३७॥महाकालस्समुत्पन्नो दुष्टानां त्वादृशामहम् ।
खल त्वं ब्राह्मणानां हि समीपाद्दूरतो व्रज
॥३८॥इत्युक्त्वा हुंकृतेनैव भस्मसात्कृतवांस्तदा ।
दूषणं च महाकालः शंकरस्सबलं द्रुतम्
॥३९॥कियत्सैन्यं हतं तेन किंचित्सैन्यं पलायितम् ।
दूषणश्च हतस्तेन शिवेनेह परात्मना
॥४०॥सूर्यं दृष्ट्वा यथा याति संक्षयं सर्वशस्तमः ।
तथैव च शिवं दृष्ट्वा तत्सैन्यं विननाश ह
॥४१॥देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
देवास्समाययुस्सर्वे हरिब्रह्मादयस्तथा
॥४२॥भक्त्या प्रणम्य तं देवं शंकरं लोकशंकरम् ।
तुष्टुवुर्विविधैः स्तोत्रैः कृतांजलिपुटा द्विजाः
॥४३॥ब्राह्मणांश्च समाश्वास्य सुप्रसन्नश्शिवस्स्वयम् ।
वरं ब्रूतेति चोवाच महाकालो महेश्वरः
॥४४॥तच्छ्रुत्वा ते द्विजास्सर्वे कृताञ्जलिपुटास्तदा ।
सुप्रणम्य शिवं भक्त्या प्रोचुस्संनतमस्तकाः
॥४५॥द्विजा ऊचुः
महाकाल महादेव दुष्टदण्डकर प्रभो ।
मुक्तिं प्रयच्छ नश्शंभो संसारांबुधितश्शिव
॥४६॥अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव ।
स्वदर्शकान्नराञ्छम्भो तारय त्वं सदा प्रभो
॥४७॥सूत उवाच
इत्युक्तस्तैश्शिवस्तत्र तस्थौ गर्ते सुशोभने ।
भक्तानां चैव रक्षार्थं दत्त्वा तेभ्यश्च सद्गतिम्
॥४८॥द्विजास्ते मुक्तिमापन्नाश्चतुर्द्दिक्षु शिवास्पदम् ।
क्रोशमात्रं तदा जातं लिंगरूपिण एव च
॥४९॥महाकालेश्वरो नाम शिवः ख्यातश्च भूतले ।
तं दृष्ट्वा न भवेत्स्वप्ने किंचिद्दुःखमपि द्विजाः
॥५०॥यंयं काममपेक्ष्यैव तल्लिंगं भजते तु यः ।
तंतं काममवाप्नोति लभेन्मोक्षं परत्र च
॥५१॥एतत्सर्वं समाख्यातं महाकालस्य सुव्रताः ।
समुद्भवश्च माहात्म्यं किमन्यच्छ्रोतुमिच्छथ
॥५२॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥