मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ३८

3
कोटिरुद्रसंहिता · 38

धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव

ऋषय ऊचुः

धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ।

यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम्

॥१॥

बहुभिश्चर्षिभि स्सूत श्रुतं यद्यपि वस्तु सत् ।

सन्देहो न मतोऽस्माकं तदेतत्कथयामि ते

॥२॥

केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ।

कुशलश्शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम्

॥३॥

भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ।

तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते

॥४॥

सूत उवाच

सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ।

स्मृत्वा शिवपदांभोजं कथयामि यथाश्रुतम्

॥५॥

यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ।

हरिणा शिवया चैव तथा वै शंकरं प्रति

॥६॥

कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ।

केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि

॥७॥

इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ।

तदहं कथयाम्यद्य शृण्वतां पापहारकम्

॥८॥

शिव उवाच

भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ।

मुख्यानि तत्र ज्ञेयानि दशसंख्यानि तानि वै

॥९॥

दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ।

तानि व्रतानि यत्नेन कार्याण्येव द्विजैस्सदा

॥१०॥

प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ।

कालाष्टम्यां विशेषेण हरे त्याज्यं हि भोजनम्

॥११॥

एकादश्यां सितायां तु त्याज्यं विष्णो हि भोजनम् ।

असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे

॥१२॥

त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ।

असितायां तु भूतायां तत्र कार्यं शिवव्रतैः

॥१३॥

निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ।

उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिव तत्परैः

॥१४॥

व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ।

यथाशक्ति द्विजश्रेष्ठा व्रतसंपूर्तिहेतवे

॥१५॥

व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ।

व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः

॥१६॥

मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ।

मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम्

॥१७॥

शिवार्चनं रुद्रजपं उपवासश्शिवालये ।

वाराणस्यां च मरणं मुक्तिरेषा सनातनी

॥१८॥

अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी ।

शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा

॥१९॥

चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे ।

तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः

॥२०॥

एतस्माच्च मतादन्यन्नास्ति नृणां हितावहम् ।

एतद्व्रतन्तु सर्वेषां धर्मसाधनमुत्तमम्

॥२१॥

निष्कामानां सकामानां सर्वेषां च नृणान्तथा ।

वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे

॥२२॥

दासानां दासिकानां च देवादीनां तथैव च ।

शरीरिणां च सर्वेषां हितमेतद्व्रतं वरम्

॥२३॥

माघस्य ह्यसिते पक्षे विशिष्टा सातिकीर्तिता ।

निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी

॥२४॥

तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ।

श्रूयतान्तन्मनो दत्त्वा सुप्रीत्या कथयामि ते

॥२५॥

प्रातरुत्थाय मेधावी परमानन्दसंयुतः ।

समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः

॥२६॥

शिवालये ततो गत्वा पूजयित्वा यथाविधि ।

नमस्कृत्य शिवं पश्चात्संकल्पं सम्यगाचरेत्

॥२७॥

देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ।

कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव

॥२८॥

तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ।

कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि

॥२९॥

एवं संकल्पमास्थाय पूजाद्रव्यं समाहरेत् ।

सुस्थले चैव यल्लिंगं प्रसिद्धं चागमेषु वै

॥३०॥

रात्रौ तत्र स्वयं गत्वा संपाद्य विधिमुत्तमम् ।

शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे

॥३१॥

निधाय चैव तद्द्रव्यं पूजार्थं शिवसन्निधौ ।

पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः

॥३२॥

परिधाय शुभं वस्त्रमन्तर्वासश्शुभन्तथा ।

आचम्य च त्रिवारं हि पूजारंभं समाचरेत्

॥३३॥

यस्य मंत्रस्य यद्द्रव्यं तेन पूजां समाचरेत् ।

अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च

॥३४॥

गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः ।

पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद्बुधः

॥३५॥

पार्थिवं च तदा श्रेष्ठं विदध्यान्मंत्रवान्यदि ।

कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत्

॥३६॥

प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ।

स्तोत्रैर्नानाविधैर्देवं तोषयेद्वृषभध्वजम्

॥३७॥

माहात्म्यं व्रतसंभूतं पठितव्यं सुधीमता ।

श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया

॥३८॥

चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ।

कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात्

॥३९॥

कार्यं जागरणं प्रीत्या महोत्सव समन्वितम् ।

प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम्

॥४०॥

ततः संप्रार्थयेच्छंभुं नतस्कन्धः कृताञ्जलिः ।

कृतसम्पूर्ण व्रतको नत्वा तं च पुनः पुनः

॥४१॥

नियमो यो महादेव कृतश्चैव त्वदाज्ञया ।

विसृज्यते मया स्वामिन्व्रतं जातमनुत्तमम्

॥४२॥

व्रतेनानेन देवेश यथाशक्तिकृतेन च ।

सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि

॥४३॥

पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ।

नमस्कृत्य शिवायैव नियमं तं विसर्जयेत्

॥४४॥

यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ।

भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत्

॥४५॥

यामेयामे यथा पूजा कार्या भक्तवरैर्हरे ।

शिवरात्रौ विशेषेण तामहं कथयामि ते

॥४६॥

प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ।

पूजयेत्परया भक्त्या सूपचारैरनेकशः

॥४७॥

पंचद्रव्यैश्च प्रथमं पूजनीयो हरस्सदा ।

तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत्

॥४८॥

तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ।

पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद्बुधः

॥४९॥

शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ।

पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम्

॥५०॥

गुरुदत्तेन मंत्रेण पूजयेद्वृषभध्जम् ।

अन्यथा नाममंत्रेण पूजयेद्वै सदाशिवम्

॥५१॥

चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ।

कृष्णैश्चैव तिलैः पूजा कार्या शंभोः परात्मनः

॥५२॥

पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ।

अष्टभिर्नाममंत्रैश्चार्पयेत्पुष्पाणि शंकरे

॥५३॥

भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ।

उग्रो महांस्तथा भीम ईशान इति तानि वै

॥५४॥

श्रीपूर्वैश्च चतुर्थ्यंतैर्नामभिः पूजयेच्छिवम् ।

पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम्

॥५५॥

आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद्बुधः ।

अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत्

॥५६॥

नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ।

अन्यथा पंचवर्णेन तोषयेत्तेन शंकरम्

॥५७॥

धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ।

पंचब्राह्मणभोजं च कल्पयेद्वै यथाबलम्

॥५८॥

महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ।

ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत्

॥५९॥

पुनर्द्वितीये यामे च संकल्पं सुसमा चरेत् ।

अथवैकदैव संकल्प्य कुर्यात्पूजां तथाविधाम्

॥६०॥

द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत् ।

पूर्वतो द्विगुणं मंत्रं समुच्चार्यार्चयेच्छिवम्

॥६१॥

पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ।

बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम्

॥६२॥

अर्घ्यं च बीजपूरेण नैवेद्यं पायसन्तथा ।

मंत्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन

॥६३॥

ततश्च ब्राह्मणानां हि भोज्यो संकल्पमाचरेत् ।

अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि

॥६४॥

यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत् ।

यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च

॥६५॥

धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ।

नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि

॥६६॥

कृत्वैव चाथ कर्पूरैरारार्तिक विधिं चरेत ।

अर्घ्यं सदाडिमं दद्याद्द्विगुणं जपमाचरेत्

॥६७॥

ततश्च ब्रह्मभोजस्य संकल्पं च सदक्षिणम् ।

उत्सवं पूर्ववत्कुर्या द्यावद्यामावधिर्भवेत्

॥६८॥

यामे चतुर्थे संप्राते कुर्यात्तस्य विसर्जनम् ।

प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत्

॥६९॥

माषैः प्रियंगुभिर्मुद्गैस्सप्तधान्यैस्तथाथवा ।

शंखीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम्

॥७०॥

नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि ।

अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम्

॥७१॥

अर्घं दद्यात्कदल्याश्च फलेनैवाथवा हरे ।

विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च

॥७२॥

पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ।

संकल्पं ब्रह्मभोजस्य यथाशक्ति चरेद्बुधः

॥७३॥

गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ।

महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः

॥७४॥

उदये च तथा जाते पुनस्स्नात्वार्चयेच्छिवम् ।

नानापूजोपहारैश्च स्वाभिषेकमथाचरेत्

॥७५॥

नानाविधानि दानानि भोज्यं च विविधन्तथा ।

ब्राह्मणानां यतीनां च कर्तव्यं यामसंख्यया

॥७६॥

शंकराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ।

प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः

॥७७॥

तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।

कृपानिधे इति ज्ञात्वा यथा योग्यं तथा कुरु

॥७८॥

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।

कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे

॥७९॥

अनेनैवोपवासेन यज्जातं फलमेव च ।

तेनैव प्रीयतां देवः शंकरः सुखदायकः

॥८०॥

कुले मम महादेव भजनं तेऽस्तु सर्वदा ।

माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता

॥८१॥

पुष्पांजलिं समर्प्यैवं तिलकाशिष एव च ।

गृह्णीयाद्ब्राह्मणेभ्यश्च ततश्शंभुं विसर्जयेत्

॥८२॥

एवं व्रतं कृतं येन तस्माद्दूरो हरो न हि ।

न शक्यते फलं वक्तुं नादेयं विद्यते मम

॥८३॥

अनायासतया चेद्वै कृतं व्रतमिदम्परम् ।

तस्य वै मुक्तिबीजं च जातं नात्र विचारणा

॥८४॥

प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ।

उद्यापनविधिं पश्चात्कृत्वा सांगफलं लभेत्

॥८५॥

व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ।

दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम्

॥८६॥

सूत उवाच

इति शिववचनं निशम्य विष्णुर्हिततरमद्भुतमाजगाम धाम ।

तदनु व्रतमुत्तमं जनेषु समचरदात्महितेषु चैतदेव

॥८७॥

कदाचिन्नारदायाथ शिवरात्रिव्रतन्त्विदम् ।

भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः

॥८८॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणंनामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥