मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय १२

3
कोटिरुद्रसंहिता · 12

लिंगस्वरूपकारणवर्णनम्

ऋषय ऊचुः

सूत जानासि सकलं वस्तु व्यासप्रसादतः ।

तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम्

॥१॥

लिंगं च पूज्यते लोके तत्त्वया कथितं च यत् ।

तत्तथैव न चान्यद्वा कारणं विद्यते त्विह

॥२॥

बाणरूपा श्रुता लोके पार्वती शिववल्लभा ।

एतत्किं कारणं सूत कथय त्वं यथाश्रुतम्

॥३॥

सूत उवाच

कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ।

तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः

॥४॥

पुरा दारुवने जातं यद्वृत्तं तु द्विजन्मनाम् ।

तदेव श्रूयतां सम्यक् कथयामि कथाश्रुतम्

॥५॥

दारुनामवनं श्रेष्ठं तत्रासन्नृषिसत्तमाः ।

शिवभक्तास्सदा नित्यं शिवध्यानपरायणाः

॥६॥

त्रिकालं शिवपूजां च कुर्वंति स्म निरन्तरम् ।

नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः

॥७॥

ते कदाचिद्वने यातास्समिधाहरणाय च ।

सर्वे द्विजर्षभाश्शैवाश्शिवध्यानपरायणाः

॥८॥

एतस्मिन्नंतरे साक्षाच्छंकरो नील लोहितः ।

विरूपं च समास्थाय परीक्षार्थं समागतः

॥९॥

दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः ।

स चेष्टामकरोद्दुष्टां हस्ते लिंगं विधारयन्

॥१०॥

मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ।

जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम्

॥११॥

तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ।

विह्वला विस्मिताश्चान्यास्समाजग्मुस्तथा पुनः

॥१२॥

अलिलिंगुस्तथा चान्याः करं धृत्या तथापराः ।

परस्परं तु संघर्षात्संमग्नास्ताः स्त्रियस्तदा

॥१३॥

एतस्मिन्नेव समये ऋषिवर्याः समागमन् ।

विरुद्धं तं च ते दृष्ट्वा दुःखिताः क्रोधमूर्च्छिताः

॥१४॥

तदा दुःखमनुप्राप्ताः कोयं कोयं तथाऽबुवन् ।

समस्ता ऋषयस्ते वै शिवमायाविमोहिताः

॥१५॥

यदा च नोक्तवान्किंचित्सोवधूतो दिगम्बरः ।

ऊचुस्तं पुरुषं भीमं तदा ते परमर्षयः

॥१६॥

त्वया विरुद्धं क्रियते वेदमार्ग विलोपि यत् ।

ततस्त्वदीयं तल्लिंगं पततां पृथिवीतले

॥१७॥

सूत उवाच

इत्युक्ते तु तदा तैश्च लिंगं च पतितं क्षणात् ।

अवधूतस्य तस्याशु शिवस्याद्भुतरूपिणः

॥१८॥

तल्लिंगं चाग्निवत्सर्वं यद्ददाह पुरा स्थितम् ।

यत्रयत्र च तद्याति तत्रतत्र दहेत्पुनः

॥१९॥

पाताले च गतं तश्च स्वर्गे चापि तथैव च ।

भूमौ सर्वत्र तद्यातं न कुत्रापि स्थिरं हि तत्

॥२०॥

लोकाश्च व्याकुला जाता ऋषयस्तेतिदुःखिताः ।

न शर्म लेभिरे केचिद्देवाश्च ऋषयस्तथा

॥२१॥

न ज्ञातस्तु शिवो यैस्तु ते सर्वे च सुरर्षयः ।

दुःखिता मिलिताश्शीघ्रं ब्रह्माणं शरणं ययुः

॥२२॥

तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं द्विजाः ।

तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे

॥२३॥

ब्रह्मा तद्वचनं श्रुत्वा शिवमायाविमोहितान् ।

ज्ञात्वा ताञ्च्छंकरं नत्वा प्रोवाच ऋषिसत्तमान्

॥२४॥

ब्रह्मोवाच

ज्ञातारश्च भवन्तो वै कुर्वते गर्हितं द्विजाः ।

अज्ञातारो यदा कुर्युः किं पुनः कथ्यते पुनः

॥२५॥

विरुद्ध्यैवं शिवं देवं कुशलं कस्समीहते ।

मध्याह्नसमये यो वै नातिथिं च परामृशेत्

॥२६॥

तस्यैव सुकृतं नीत्वा स्वीयं च दुष्कृतं पुनः ।

संस्थाप्य चातिथिर्याति किं पुनः शिवमेव वा

॥२७॥

यावल्लिंगं स्थिरं नैव जगतां त्रितये शुभम् ।

जायते न तदा क्वापि सत्यमेतद्वदाम्यहम्

॥२८॥

भवद्भिश्च तथा कार्यं यथा स्वास्थ्यं भवेदिह ।

शिवलिंगस्य ऋषयो मनसा संविचार्य्यताम्

॥२९॥

सूत उवाच

इत्युक्तास्ते प्रणम्योचुर्ब्रह्माणमृषयश्च वै ।

किमस्माभिर्विधे कार्यं तत्कार्यं त्वं समादिश

॥३०॥

इत्युक्तश्च मुनीशैस्तैस्सर्वलोकपितामहः ।

मुनीशांस्तांस्तदा ब्रह्मा स्वयं प्रोवाच वै तदा

॥३१॥

ब्रह्मोवाच

आराध्य गिरिजां देवीं प्रार्थयन्तु सुराश्शिवम् ।

योनिरूपा भवेच्चेद्वै तदा तत्स्थिरतां व्रजेत्

॥३२॥

तद्विधिम्प्रवदाम्यद्य सर्वे शृणुत सत्तमाः ।

तामेव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति

॥३३॥

कुम्भमेकं च संस्थाप्य कृत्वाष्टदलमुत्तमम् ।

दूर्वायवांकुरैस्तीर्थोदकमापूरयेत्ततः

॥३४॥

वेदमंत्रैस्ततस्तं वै कुंभं चैवाभिमंत्रयेत् ।

श्रुत्युक्तविधिना तस्य पूजां कृत्वा शिवं स्मरन्

॥३५॥

तल्लिंगं तज्जलेनाभिषेचयेत्परमर्षयः ।

शतरुद्रियमंत्रैस्तु प्रोक्षितं शांतिमाप्नुयात्

॥३६॥

गिरिजां योनिरूपां च बाणं स्थाप्य शुभं पुनः ।

तत्र लिंगं च तत्स्थाप्यं पुनश्चैवाभिमंत्रयेत्

॥३७॥

सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ।

नैवेद्यादिकपूजाभिस्तोषयेत्परमेश्वरम्

॥३८॥

प्रणिपातैः स्तवैः पुण्यैर्वाद्यैर्गानैस्तथा पुनः ।

ततः स्वस्त्ययनं कृत्वा जयेति व्याहरेत्तथा

॥३९॥

प्रसन्नो भव देवेश जगदाह्लादकारक ।

कर्ता पालयिता त्वञ्च संहर्ता त्वं निरक्षरः

॥४०॥

जगदादिर्जगद्योनिर्जगदन्तर्गतोपि च ।

शान्तो भव महेशान सर्वांल्लोकांश्च पालय

॥४१॥

एवं कृते विधौ स्वास्थ्यं भविष्यति न संशय ।

विकारो न त्रिलोकेस्मिन्भविष्यति सुखं सदा

॥४२॥

सूत उवाच

इत्युक्तास्ते द्विजा देवाः प्रणिपत्य पितामहम् ।

शिवं तं शरणं प्राप्तस्सर्वलोकसुखेप्सया

॥४३॥

पूजितः परया भक्त्या प्रार्थितः शंकरस्तदा ।

सुप्रसन्नस्ततो भूत्वा तानुवाच महेश्वरः

॥४४॥

महेश्वर उवाच

हे देवा ऋषयः सर्वे मद्वचः शृणुतादरात् ।

योनिरूपेण मल्लिंगं धृतं चेत्स्यात्तदा सुखम्

॥४५॥

पार्वतीं च विना नान्या लिंगं धारयितुं क्षमा ।

तया धृतं च मल्लिंगं द्रुतं शान्तिं गमिष्यति

॥४६॥

सूत उवाच

तच्छ्रुत्वा ऋषिभिर्देवैस्सुप्रसन्नैर्मुनीश्वराः ।

गृहीत्वा चैव ब्रह्माणं गिरिजा प्रार्थिता तदा

॥४७॥

प्रसन्नां गिरिजां कृत्वा वृषभध्वजमेव च ।

पूर्वोक्तं च विधिं कृत्वा स्थापितं लिंगमुत्तमम्

॥४८॥

मंत्रोक्तेन विधानेन देवाश्च ऋषयस्तथा ।

चक्रुः प्रसन्नां गिरिजां शिवं च धर्महेतवे

॥४९॥

समानर्चुर्विशेषेण सर्वे देवर्षयः शिवम् ।

ब्रह्मा विष्णुः परे चैव त्रैलोक्यं सचराचरम्

॥५०॥

सुप्रसन्नः शिवो जातः शिवा च जगदम्बिका ।

धृतं तया च तल्लिंगं तेन रूपेण वै तदा

॥५१॥

लोकानां स्थापिते लिंगे कल्याणं चाभवत्तदा ।

प्रसिद्धं चैव तल्लिंगं त्रिलोक्यामभवद्द्विजाः

॥५२॥

हाटकेशमिति ख्यातं तच्छिवाशिवमित्यपि ।

पूजनात्तस्य लोकानां सुखं भवति सर्वथा

॥५३॥

इह सर्वसमृद्धिः स्यान्नानासुखवहाधिका ।

परत्र परमा मुक्तिर्नात्र कार्या विचारणा

॥५४॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां लिंगस्वरूपकारणवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥