मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ३४

3
कोटिरुद्रसंहिता · 34

विष्णुसुदर्शनचक्रलाभवर्णनम्

व्यास उवाच

इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ।

समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया

॥१॥

ऋषय ऊचुः

सूत सर्वं विजानासि ततः पृच्छामहे वयम् ।

हरीश्वरस्य लिंगस्य महिमानं वद प्रभो

॥२॥

चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ।

तदाराधनतस्तात तत्कथा च विशेषतः

॥३॥

सूत उवाच

श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ।

यतस्सुदर्शनं लब्धं विष्णुना शंकरात्पुरा

॥४॥

कस्मिंश्चित्समये दैत्याः संजाता बलवत्तराः ।

लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे

॥५॥

ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ।

स्वं दुखं कथयामासुर्विष्णुं निर्जररक्षकम्

॥६॥

देवा ऊचुः

कृपां कुरु प्रभो त्वं च दैत्यैस्संपीडिता भृशम् ।

कुत्र यामश्च किं कुर्मश्शरण्यं त्वां समाश्रिताः

॥७॥

सूत उवाच

इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ।

स्मृत्वा शिवपदांभोजं विष्णुर्वचनमब्रवीत

॥८॥

विष्णुरुवाच

करिष्यामि च वः कार्य्यमाराध्य गिरिशं सुराः ।

बलिष्ठाश्शत्रवो ह्येते विजेतव्याः प्रयत्नतः

॥९॥

सूत उवाच

इत्युक्तास्ते सुरास्सर्वे विष्णुना प्रभविष्णुना ।

मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकंस्वकम्

॥१०॥

विष्णुरप्यमराणां तु जयार्थमभजच्छिवम् ।

सर्वामराणामधिपं सर्वसाक्षिणमव्ययम्

॥११॥

गत्वा कैलासनिकटे तपस्तेपे हरिस्स्वयम् ।

कृत्वा कुंडं च संस्थाप्य जातवेदसमग्रतः

॥१२॥

पार्थिवेन विधानेन मंत्रैर्नानाविधैरपि ।

स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा

॥१३॥

कमलैस्सरसो जातैर्मानसाख्यान्मुनीश्वराः ।

बद्ध्वा चैवासनं तत्र न चचाल हरिस्स्वयम्

॥१४॥

प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ।

इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः

॥१५॥

यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ।

तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत्

॥१६॥

विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ।

तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः

॥१७॥

ततस्तु विस्मितो विष्णुर्भक्त्या परमयान्वितः

॥१९॥

सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम्

॥१८॥

प्रत्येकं कमलं तस्मै नाममंत्रमुदीर्य च ।

पूजयामास वै शंभुं शरणागतवत्सलम्

॥१९॥

परीक्षार्थं विष्णुभक्तेस्तदा वै शंकरेण ह ।

कमलानां सहस्रात्तु हृतमेकं च नीरजम्

॥२०॥

न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ।

न्यूनं तच्चापि सञ्ज्ञाय तदन्वेषणतत्परः

॥२१॥

बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ।

तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत्

॥२२॥

तं दृष्ट्वा स प्रसन्नोऽभूच्छंकरस्सर्वदुःखहा ।

आविर्बभूव तत्रैव जगाद वचनं हरिम्

॥२३॥

शिव उवाच

प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ।

मनोऽभिलषितं दद्मि नादेयं विद्यते तव

॥२४॥

सूत उवाच

तच्छ्रुत्वा शंभुवचनं केशवः प्रीतमानसः ।

महाहर्षसमापन्नो ह्यब्रवीत्सांजलिश्शिवम्

॥२५॥

विष्णुरुवाच

वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ।

तथापि कथ्यते नाथ तव शासनगौरवात्

॥२६॥

दैत्यैश्च पीडितं विश्वं सुखं नो नस्सदा शिव ।

दैत्यान्हंतुं मम स्वामिन्स्वायुधं न प्रवर्त्तते

॥२७॥

किं करोमि क्व गच्छामि नान्यो मे रक्षकः परः ।

अतोऽहं परमेशान शरणं त्वां समागतः

॥२८॥

सूत उवाच

इत्युक्त्वा च नमस्कृत्य शिवाय परमात्मने ।

स्थितश्चैवाग्रतश्शंभोः स्वयं च पुरुपीडितः

॥२९॥

सूत उवाच

इति श्रुत्वा वचो विष्णोर्देवदेवो महेश्वरः ।

ददौ तस्मै स्वकं चक्रं तेजोराशिं सुदर्शनम्

॥३०॥

तत्प्राप्य भगवान्विष्णुर्दैत्यांस्तान्बलवत्तरान् ।

जघान तेन चक्रेण द्रुतं सर्वान्विना श्रमम्

॥३१॥

जगत्स्वास्थ्यं परं लेभे बभूवुस्सुखिनस्सुराः ।

सुप्रीतः स्वायुधं प्राप्य हरिरासीन्महासुखी

॥३२॥

ऋषय ऊचुः

किं तन्नामसहस्रं वै कथय त्वं हि शांकरम् ।

येन तुष्टो ददौ चक्रं हरये स महेश्वरः

॥३३॥

तन्माहात्म्यम्मम ब्रूहि शिवसंवादपूर्वकम् ।

कृपालुत्वं च शंभोर्हि विष्णूपरि यथातथम्

॥३४॥

व्यास उवाच

इति तेषां वचश्श्रुत्वा मुनीनां भावितात्मनाम् ।

स्मृत्वा शिवपदांभोजं सूतो वचनमब्रवीत्

॥३५॥

इति श्रीशिव महापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥