मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय २७

3
कोटिरुद्रसंहिता · 27

गंगा च जलरूपेण कुतो जाता वद प्रभो

ऋषय ऊचुः

गंगा च जलरूपेण कुतो जाता वद प्रभो ।

तन्माहात्म्यं विशेषेण कुतो जात वद प्रभो

॥१॥

यैर्विप्रैर्गौतमायेव दुःखं दत्तं दुरात्मभिः ।

तेषां किंच ततो जातमुच्यतां व्यास सद्गुरो

॥२॥

सूत उवाच

एवं संप्रार्थिता गंगा गौतमेन तदा स्वयम् ।

ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत्

॥३॥

औदुंबरस्य शाखायास्तत्प्रवाहो विनिस्सृतः ।

तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः

॥४॥

गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ।

समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः

॥५॥

गंगाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ।

सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमः

॥६॥

गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ।

स्नानार्थं तांश्च सा दृष्ट्वा ह्यंतर्धानं गता द्रुतम्

॥७॥

मामेति गौतमस्तत्र व्याजहार वचो द्रुतम् ।

मुहुर्मुहुः स्तुवन् गंगां सांजलिर्नतमस्तकः

॥८॥

गौतम उवाच

इमे च श्रीमदांधाश्च साधवो वाप्यसाधवः ।

एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया

॥९॥

सूत उवाच

ततो वाणी समुत्पन्ना गंगाया व्योममंडलात् ।

तच्छृणुध्वमृषिश्रेष्ठा गंगावचनमुत्तमम्

॥१०॥

एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ।

जाल्माः पाखंडिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा

॥११॥

गौतम उवाच

मातश्च श्रूयतामेतन्महता गिर एव च ।

तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद्वचः

॥१२॥

अपकारिषु यो लोक उपकारं करोति वै ।

तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम्

॥१३॥

सूत उवाच

इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ।

पुनर्वाणी समुत्पन्ना गंगाया व्योममंडलात्

॥१४॥

कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ।

तथापि संग्रहार्थ च प्रायश्चितं चरंतु वै

॥१५॥

शतमेकोत्तरं चात्र कार्य्यं प्रक्रमणं गिरेः ।

भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः

॥१६॥

ततश्चैवाधिकारश्च जायते दुष्टकारिणाम् ।

मद्दर्शने विशेषेण सत्यमुक्तं मया मुने

॥१७॥

सूत उवाच

इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाऽखिलाः ।

संप्रार्थ्य गौतमं दीनाः क्षंतव्यो नोऽपराधकः

॥१८॥

एवं कृते तदा तेन गौतमेन तदाज्ञया ।

कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम्

॥१९॥

ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ।

कुशावर्तं च विख्यातं तीर्थमासीत्तदुत्तमम्

॥२०॥

तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ।

त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम्

॥२१॥

गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ।

लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा

॥२२॥

ऋषय ऊचुः

अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे ।

गौतमस्तान्द्विजान् क्रुद्धश्शशापेति प्रबुध्यताम्

॥२३॥

सूत उवाच

द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ।

वर्णयामि विशेषेण तां कथामपि सुव्रता

॥२४॥

गौतमोपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ।

तपश्चकार सुमहद्वरुणस्य महात्मनः

॥२५॥

अक्षय्यं कल्पयामास जलं वरुणदां यया ।

ततो व्रीहीन्यवांश्चैव वापयामास भूरिशः

॥२६॥

एवं परोपकारी स गौतमो मुनिसत्तमाः ।

आहारं कल्पयामास तेभ्यः स्वतपसो बलात्

॥२७॥

कदाचित्तत्स्त्रियो दुष्टा जलार्थमपमानिताः ।

ऊचु पतिभ्यस्ताः क्रुद्धा गौतमेर्ष्याकरं वचः

॥२८॥

ततस्ते भिन्नमतयो गां कृत्वा कृत्रिमां द्विजाः ।

तद्धान्यभक्षणासक्तां चक्रुस्तां कुटिलाशयाः

॥२९॥

स्वधान्यभक्षणासक्तां गां दृष्ट्वा गौतमस्तदा ।

तृणेन ताडयामास शनैस्तां संनिवारयन्

॥३०॥

तृणसंस्पर्शमात्रेण सा भूमौ पतिता च गौः ।

मृता ह्यभूत्क्षणं विप्रा भाविकर्मवशात्तदा

॥३१॥

गौर्हता गौतमेनेति तदा ते कुटिलाशयाः ।

एकत्रीभूय तत्रत्यैः सकला ऋषयोऽवदन्

॥३२॥

ततस्स गौतमो भीतो गौर्हतेति बभूव ह ।

चकार विस्मयं नार्यहल्याशिष्यैश्शिवानुगः

॥३३॥

ततस्स गौतमो ज्ञात्वा तां गां क्रोधसमाकुलः ।

शशाप तानृषीन् सर्वान् गौतमो मुनिसत्तमः

॥३४॥

गौतम उवाच

यूयं सर्वे दुरात्मानो दुःखदा मे विशेषतः ।

शिवभक्तस्य सततं स्युर्वेदविमुखास्सदा

॥३५॥

अद्यप्रभृति वेदोक्ते सत्कर्मणि विशेषतः ।

मा भूयाद्भवतां श्रद्धा शैवमार्गे विमुक्तिदे

॥३६॥

अद्यप्रभृति दुर्मार्गे तत्र श्रद्धा भवेत्तु वः ।

मोक्षमार्गविहीने हि सदा श्रुतिबहिर्मुखे

॥३७॥

अद्यप्रभृति भालानि मृल्लिप्तानि भवन्तु वः ।

स्रसध्वं नरके यूयं भालमृल्लेपनाद्द्विजाः

॥३८॥

भवंतो मा भविष्यंतु शिवैक परदैवताः ।

अन्यदेवसमत्वेन जानंतु शिवमद्वयम्

॥३९॥

मा भूयाद्भवतां प्रीतिश्शिवपूजादिकर्मणि ।

शिवनिष्ठेषु भक्तेषु शिवपर्वसु सर्वदा

॥४०॥

अद्य दत्ता मया शापा यावंतो दुःखदायकाः ।

तावंतस्संतु भवतां संततावपि सर्वदा

॥४१॥

अशैवास्संतु भवतां पुत्रपौत्रादयो द्विजाः ।

पुत्रैस्सहैव तिष्ठंतु भवंतो नरके ध्रुवम्

॥४२॥

ततो भवंतु चण्डाला दुःखदारिद्र्यपीडिताः ।

शठा निन्दाकरास्सर्वे तप्तमुद्रांकितास्सदा

॥४३॥

सूत उवाच

इति शप्त्वा मुनीन् सर्वान् गौतमस्स्वाश्रमं ययौ ।

शिवभक्तिं चकाराति स बभूव सुपावनः

॥४४॥

ततस्तैः खिन्नहृदया ऋषयस्तेखिला द्विजाः ।

कांच्यां चक्रुर्निवासं हि शैवधर्मबहिष्कृताः

॥४५॥

तत्पुत्राश्चाभवन्सर्वे शैवधर्मबहिष्कृताः ।

अग्रे तद्वद्भविष्यंति कलौ बहुजनाः खलाः

॥४६॥

इति प्रोक्तमशेषेण तद्वृत्तं मुनिसत्तमाः ।

पूर्ववृत्तमपि प्राज्ञाः श्रुतं सर्वैस्तु चादरात्

॥४७॥

इति वश्च समाख्यातो गौतम्याश्च समुद्भवः ।

माहात्म्यमुत्तमं चैव सर्वपापहरं परम्

॥४८॥

त्र्यंबकस्य च माहात्म्यं ज्योतिर्लिंगस्य कीर्तितम् ।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

॥४९॥

अतः परं प्रवक्ष्यामि वैद्यनाथेश्वरस्य हि ।

ज्योतिर्लिंगस्य माहात्म्यं श्रूयतां पापहारकम्

॥५०॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरज्योतिर्लिंग माहात्म्यवर्णनं नाम सप्तविंशोध्यायः ॥ २७ ॥