मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय १९

3
कोटिरुद्रसंहिता · 19

नरनारायणाख्यौ याववतारौ हरेर्द्विजाः

सूत उवाच

नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ।

तेपाते भारते खण्डे बदर्याश्रम एव हि

॥१॥

ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ।

आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव

॥२॥

एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ।

चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः

॥३॥

एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ।

प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति

॥४॥

इत्युक्ते च तदा तेन नरो नारायणस्स्वयम् ।

ऊचतुर्वचनं तत्र लोकानां हितकाम्यया

॥५॥

नरनारायणावूचतुः

यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।

स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम्

॥६॥

सूत उवाच

इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ।

स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः

॥७॥

ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ।

लोकानामुपकारार्थं भक्तानां दर्शनाय वै

॥८॥

स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ।

भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि

॥९॥

देवाश्च पूजयंतीह ऋषयश्च पुरातनाः ।

मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात्

॥१०॥

भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः ।

प्राप्नुवन्ति यतः सोऽसौ भक्ताभीष्टप्रदः सदा

॥११॥

तद्दिनं हि समारभ्य केदारेश्वर एव च ।

पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम्

॥१२॥

यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ।

मायामास्थाय तत्रैव पलायनपरोऽभवत्

॥१३॥

धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ।

पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः

॥१४॥

तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ।

नयपाले शिरोभागो गतस्तद्रूपतः स्थितः

॥१५॥

स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ।

पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात्

॥१६॥

पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ।

लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः

॥१७॥

तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ।

भारतीभिः प्रजाभिश्च तथैव परिपूज्यते

॥१८॥

तत्रत्यं वलयं यो वै ददाति हरवल्लभः ।

हररूपांतिकं तच्च हररूपसमन्वितम्

॥१९॥

तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ।

जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने

॥२०॥

दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ।

केदारेश्वरशंभोश्च मुक्तभागी न संशयः

॥२१॥

केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता ।

गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा

॥२२॥

गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ।

तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति

॥२३॥

खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ।

केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः

॥२४॥

अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ।

सर्वकामप्रदश्शंभुः केदाराख्यो न संशय

॥२५॥

एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ।

श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा

॥२६॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥