त्वया सूत महाभाग श्राविता ह्यद्भुता कथा
ऋषय ऊचुः
त्वया सूत महाभाग श्राविता ह्यद्भुता कथा ।
महाकालाख्यलिंगस्य निजभक्तसुरक्षिकः
॥१॥ज्योतिर्लिंगं चतुर्थं च कृपया वद वित्तम ।
ॐकारं परमेशस्य सर्वपातकहारिणः
॥२॥सूत उवाच
ॐकारे परमेशाख्यं लिंगमासीद्यथा द्विजाः ।
तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः ।
कस्मिंश्चित्समये चाञ नारदो भगवान्मुनिः ।
गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान्
॥४॥ततस्स आगतो विन्ध्यं नगेशं मुनिसत्तमः ।
तत्रैव पूजितस्तेन बहुमानपुरस्सरम्
॥५॥मयि सर्वं विद्यते च न न्यूनं हि कदाचन ।
इति भावं समास्थाय संस्थितो नारदाग्रतः
॥६॥तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः ।
निश्श्वस्य संस्थितस्तत्र श्रुत्वाविन्ध्योऽब्रवीदिदम्
॥७॥विन्ध्य उवाच
किं न्यूनं च त्वया दृष्टं मयि निश्श्वासकारणम् ।
तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः
॥८॥नारद उवाच
विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ।
देवेष्वपि विभागोऽस्य न तवास्ति कदाचन
॥९॥सूत उवाच
इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ।
विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम्
॥१०॥विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ।
इति निश्चित्य मनसा शंकर शरणं गतः
॥११॥जगाम तत्र सुप्रीत्या ह्योंकारो यत्र वै स्वयम् ।
चकार च पुनस्तत्र शिवमूर्तिश्च पार्थिवीम्
॥१२॥आराध्य च तदा शंभुं षण्मासं स निरन्तरम् ।
न चचाल तपस्थानाच्छिवध्यानपरायणः
॥१३॥एवं विंध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ।
स्वरूपं दर्शयामास दुर्ल्लभं योगिनामपि
॥१४॥प्रसन्नस्स तदोवाच ब्रूहि त्वं मनसेप्सितम् ।
तपसा ते प्रसन्नोस्मि भक्तानामीप्सितप्रदः
॥१५॥विन्ध्य उवाच
यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ।
स्वकार्यसाधिनीं शंभो त्वं सदा भक्तवत्सलः
॥१६॥सूत उवाच
तच्छ्रुत्वा भगवाञ्छंभुश्चिचेत हृदये चिरम् ।
परोपतापदं विन्ध्यो वरमिच्छति मूढधीः
॥१७॥किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ।
मद्दत्तं परदुःखाय वरदानं यथा नहि
॥१८॥सूत उवाच
तथापि दत्तवाञ् शंभुस्तस्मै तद्वरमुत्तमम् ।
विध्यपर्वतराज त्वं यथेच्छसि तथा कुरु
॥१९॥एवं च समये देवा ऋपयश्चामलाशयाः ।
संपूज्य शंकरं तत्र स्थातव्यमिति चाबुवन्
॥२०॥तच्छुत्वा देववचनं प्रसन्नः परमेश्वरः ।
तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे
॥२१॥ॐ कारं चैव यल्लिंगमेकं तच्च द्विधा गतम् ।
प्रणवे चैव ॐकारनामासीत्स सदाशिवः
॥२२॥पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ।
भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः
॥२३॥तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ।
प्रापुर्वराननेकांश्च संतोष्य वृषभध्वजम्
॥२४॥स्वस्वस्थानं ययुर्देवा विन्ध्योपि मुदितोऽधिकम् ।
कार्य्यं साधितवान्स्वीयं परितापं जहौ द्विजाः
॥२५॥य एवं पूजयेच्छंभुं मातृगर्भं वसेन्न हि ।
यदभीष्टफलं तच्च प्राप्नुयान्नात्र संशय
॥२६॥सूत उवाच
एतत्ते सर्वमाख्यातमोंकारप्रभवे फलम् ।
अतः परं प्रवक्ष्यामि केदारं लिंगमुत्तमम्
॥२७॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥