मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ३३

3
कोटिरुद्रसंहिता · 33

धुश्मेशज्योतिर्लिंगोत्पत्तिमाहात्म्यवर्णनम्

सूत उवाच

पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ।

विरोधं सा चकाराशु न सहंती च तत्सुखम्

॥१॥

सर्वे पुत्रप्रसूतिं तां प्रशशंसुर्निरन्तरम् ।

तया तत्सह्यते न स्म शिशो रूपादिकं तथा

॥२॥

सुप्रियं तनयं तं च पित्रोस्सद्गुणभाजनम् ।

दृष्ट्वाऽभवत्तदा तस्या हृदयं तप्तमग्निवत्

॥३॥

एतस्मिन्नंतरे विप्राः कन्यां दातुं समागताः ।

विवाहं तस्य तत्रैव चकार विधिवच्च सः

॥४॥

सुधर्मा घुश्मया सार्द्धमानन्दं परमं गतः ।

सर्वे संबंधिनस्तस्यां घुश्मायां मानमादधुः

॥५॥

तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ।

अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी

॥६॥

सुधर्म्मा गृहमागत्य वधूं पुत्रं विवाहितम् ।

उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव

॥७॥

अभवद्धर्षिता घुष्मा सुदेहा दुःखमागता ।

न सहंती सुखं तच्च दुःखं कृत्वापतद्भुवि

॥८॥

घुश्माऽवदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ।

वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रममन्यत

॥९॥

भर्त्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ।

तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत्

॥१०॥

एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ।

हृदये संचिचिन्तेति दुःखशांतिः कथं भवेत्

॥११॥

सुदेहोवाच

मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ।

भविष्यति ध्रुवं शांतो नान्यथा दुःखजेन हि

॥१२॥

अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ।

अग्रे भावि भवेदेवं निश्चयः परमो मम

॥१३॥

सूत उवाच

कदर्य्याणां विचारश्च कृत्याकृत्ये भवेन्नहि ।

कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा

॥१४॥

एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ।

चिच्छिदे निशि चांगेषु गृहीत्वा छुरिकां च सा

॥१५॥

सर्वांगं खण्डयामास रात्रौ घुश्मासुतस्य सा ।

नीत्वा सरसि तत्रैवाक्षिपद्दृप्ता महाबला

॥१६॥

यत्र क्षिप्तानि लिंगानि घुश्मया नित्यमेव हि ।

तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता

॥१७॥

प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत् ।

सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत्

॥१८॥

एतस्मिन्नंतरे सा च ज्येष्ठा कार्यं गृहस्य वै ।

चकारानन्दसंयुक्ता सुशांतहृदयानला

॥१९॥

प्रातःकाले समुत्थाय वधूश्शय्यां विलोक्य सा ।

रुधिरार्द्रां देहखंडैर्युक्तां दुःखमुपागता

॥२०॥

श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः ।

शय्या च रुधिरार्द्रा वै दृश्यंते देहखंडकाः

॥२१॥

हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते ।

इत्युच्चार्य रुरोदातिविविधं तत्प्रिया च सा

॥२२॥

ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ।

बहिर्दुःखं चकारासौ मनसा हर्षसंयुता

॥२३॥

घुश्मा चापि तदा तस्या वध्वा दुखं निशम्य सा ।

न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात्

॥२४॥

मनश्चैवोत्सुकं नैव जातं तस्या मनागपि ।

भर्तापि च तथैवासीद्यावद्व्रतविधिर्भवेत्

॥२५॥

मध्याह्ने पूजनांते च दृष्ट्वा शय्यां भयावहाम् ।

तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया

॥२६॥

येनैव चार्पितश्चायं स वै रक्षां करिष्यति ।

भक्तप्रियस्स विख्यातः कालकालस्सतां गतिः

॥२७॥

यदि नो रक्षिता शंभुरीश्वरः प्रभुरेकलः ।

मालाकार इवासौ यान्युङ्क्ते तान्वियुनक्ति च

॥२८॥

अद्य मे चिंतया किं स्यादिति तत्त्वं विचार्य सा ।

न चकार तदा दुःखं शिवे धैर्यं समागता

॥२९॥

पार्थिवांश्च गृहीत्वा सा पूर्ववत्स्वस्थमानसा ।

शंभोर्नामान्युच्चरंती जगाम सरसस्तटे

॥३०॥

क्षिप्त्वा च पार्थिवांस्तत्र परावर्त्तत सा यदा ।

तदा पुत्रस्तडागस्थो दृश्यते स्म तटे तया

॥३१॥

पुत्र उवाच

मातरेहि मिलिष्यामि मृतोऽहं जीवितोऽधुना ।

तव पुण्यप्रभावाद्धि कृपया शंकरस्य वै

॥३२॥

सूत उवाच

जीवितं तं सुतं दृष्ट्वा घुष्मा सा तत्प्रसूर्द्विजाः ।

प्रहृष्ट्वा नाभवत्तत्र दुःखिता न यथा पुरा

॥३३॥

एतस्मिन्समये तत्र स्वाविरासीच्छिवो द्रुतम् ।

ज्योतिरूपो महेशश्च संतुष्टः प्रत्युवाच ह

॥३४॥

शिव उवाच

प्रसन्नोऽस्मि वरं ब्रूहि दुष्टया मारितो ह्ययम् ।

एनां च मारयिष्यामि त्रिशूलेन वरानने

॥३५॥

सूत उवाच

पुरा तदा वरं वव्रे सुप्रणम्य शिवं नता ।

रक्षणीया त्वया नाथ सुदेहेयं स्वसा मम

॥३६॥

शिव उवाच

अपकारः कृतस्तस्यामुपकारः कथं त्वया ।

क्रियते हननीया च सुदेहा दुष्टकारिणी

॥३७॥

घुश्मोवाच

तव दर्शनमात्रेण पातकं नैव तिष्ठति ।

इदानीं त्वां च वै दृष्ट्वा तत्पापं भस्मतां व्रजेत्

॥३८॥

अपकारेषु यश्चैव ह्युपकारं करोति च ।

तस्य दर्शनमात्रेण पापं दूरतरं व्रजेत्

॥३९॥

इति श्रुतं मया देव भगवद्वाक्यमद्भुतम् ।

तस्माच्चैवं कृतं येन क्रियतां च सदाशिव

॥४०॥

सूत उवाच

इत्युक्तस्तु तया तत्र प्रसन्नोऽत्यभवत्पुनः ।

महेश्वरः कृपासिंधुः समूचे भक्तवत्सलः

॥४१॥

शिव उवाच

अन्यद्वरं ब्रूहि घुश्मे ददामि च हितं तव ।

त्वद्भक्त्या सुप्रसन्नोऽस्मि निर्विकारस्वभावतः

॥४२॥

सूत उवाच

सोवाच तद्वचश्श्रुत्वा यदि देयो वरस्त्वया ।

लोकानां चैव रक्षार्थमत्र स्थेयं मदाख्यया

॥४३॥

तदोवाच शिवस्तत्र सुप्रसन्नो महेश्वरः ।

स्थास्येऽत्र तव नाम्नाहं घुश्मेशाख्यस्सुखप्रदः

॥४४॥

घुश्मेशाख्यं सुप्रसिद्धं लिंगं मे जायतां शुभम् ।

इदं सरस्तु लिंगानामालयं जायतां सदा

॥४५॥

तस्माच्छिवालयं नाम प्रसिद्धं भुवनत्रये ।

सर्वकामप्रदं ह्येतद्दर्शनात्स्यात्सदा सरः

॥४६॥

तव वंशे शतं चैकं पुरुषावधि सुव्रते ।

ईदृशाः पुत्रकाः श्रेष्ठा भविष्यंति न संशयः

॥४७॥

सुस्त्रीकास्सुधनाश्चैव स्वायुष्याश्च विचक्षणाः ।

विद्यावंतो ह्युदाराश्च भुक्तिमुक्तिफलाप्तये

॥४८॥

शतमेकोत्तरं चैव भविष्यंति गुणाधिकाः ।

ईदृशो वंशविस्तारो भविष्यति सुशोभनः

॥४९॥

सूत उवाच

इत्युक्त्वा च शिवस्तत्र लिंगरूपोऽभवत्तदा ।

घुश्मेशो नाम विख्यातः सरश्चैव शिवालयम्

॥५०॥

सुधर्मा स च घुश्मा च सुदेहा च समागताः ।

प्रदक्षिणं शिवस्याशु शतमेकोत्तरं दधुः

॥५१॥

पूजां कृत्वा महेशस्य मिलित्वा च परस्परम् ।

हित्वा चांतर्मलं तत्र लेभिरे परमं सुखम्

॥५२॥

पुत्रं दृष्ट्वा सुदेहा सा जीवितं लज्जिताभवत् ।

तौ क्षमाप्याचरद्विप्रा निजपापापहं व्रतम्

॥५३॥

घुश्मेशाख्यमिदं लिंगमित्थं जातं मुनीश्वराः ।

तं दृष्ट्वा पूजयित्वा हि सुखं संवर्द्धते सदा

॥५४॥

इति वश्च समाख्याता ज्योतिर्लिंगावली मया ।

द्वादशप्रमिता सर्वकामदा भुक्ति मुक्तिदा

॥५५॥

एतज्ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि ।

मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विंदति

॥५६॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां धुश्मेशज्योतिर्लिंगोत्पत्तिमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

इति द्वादशज्योतिर्लिंगमाहात्म्यं समाप्तम्