मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ४३

3
कोटिरुद्रसंहिता · 43

ज्ञाननिरूपणम्

सूत उवाच

श्रूयतामृषयः सर्वे शिवज्ञानं यथा श्रुतम् ।

कथयामि महागुह्यं पर मुक्तिस्वरूपकम्

॥१॥

कनारदकुमाराणां व्यासस्य कपिलस्य च ।

एतेषां च समाजे तैर्निश्चित्य समुदाहृतम्

॥२॥

इति ज्ञानं सदा ज्ञेयं सर्वं शिवमयं जगत् ।

शिवः सर्वमयो ज्ञेयस्सर्वज्ञेन विपश्चिता

॥३॥

आब्रह्मतृणपर्यन्तं यत्किंचिद्दृश्यते जगत् ।

तत्सर्वं शिव एवास्ति स देवः शिव उच्यते

॥४॥

यदेच्छा तस्य जायेत तदा च क्रियते त्विदम् ।

सर्वं स एव जानाति तं न जानाति कश्चन

॥५॥

रचयित्वा स्वयं तच्च प्रविश्य दूरतः स्थितः ।

न तत्र च प्रविष्टोसौ निर्लिप्तश्चित्स्वरूपवान्

॥६॥

यथा च ज्योतिषश्चैव जलादौ प्रतिबिंबता ।

वस्तुतो न प्रवेशो वै तथैव च शिवः स्वयम्

॥७॥

वस्तुतस्तु स्वयं सर्वं क्रमो हि भासते शुभः ।

अज्ञानं च मतेर्भेदो नास्त्यन्यच्च द्वयम्पुनः

॥८॥

दर्शनेषु च सर्वेषु मतिभेदः प्रदर्श्यते ।

परं वेदान्तिनो नित्यमद्वैतं प्रतिचक्षते

॥९॥

स्वस्याप्यंशस्य जीवांशो ह्यविद्यामोहितो वशः ।

अन्योऽहमिति जानाति तया मुक्तो भवेच्छिवः

॥१०॥

सर्वं व्याप्य शिवः साक्षाद् व्यापकः सर्वजन्तुषु ।

चेतनाचेतनेशोपि सर्वत्र शंकरस्स्वयम्

॥११॥

उपायं यः करोत्यस्य दर्शनार्थं विचक्षणः ।

वेदान्तमार्गमाश्रित्य तद्दर्शनफलं लभेत्

॥१२॥

यथाग्निर्व्यापकश्चैव काष्ठेकाष्ठे च तिष्ठति ।

यो वै मंथति तत्काष्ठं स वै पश्यत्यसंशयम्

॥१३॥

भक्त्यादिसाधनानीह यः करोति विचक्षणः ।

स वै पश्यत्यवश्यं हि तं शिवं नात्र संशयः

॥१४॥

शिवःशिवःशिवश्चैव नान्यदस्तीति किंचन ।

भ्रान्त्या नानास्वरूपो हि भासते शङ्करस्सदा

॥१५॥

यथा समुद्रो मृच्चैव सुवर्णमथवा पुनः ।

उपाधितो हि नानात्वं लभते शंकरस्तथा

॥१६॥

कार्यकारणयोर्भेदो वस्तुतो न प्रवर्तते ।

केवलं भ्रान्तिबुद्ध्यैव तदाभावे स नश्यति

॥१७॥

तदा बीजात्प्ररोहश्च नानात्वं हि प्रकाशयेत् ।

अन्ते च बीजमेव स्यात्तत्प्ररोहश्च नश्यति

॥१८॥

ज्ञानी च बीजमेव स्यात्प्ररोहो विकृतीर्मता ।

तन्निवृत्तौ पुनर्ज्ञानी नात्र कार्या विचारणा

॥१९॥

सर्वं शिवः शिवं सर्वं नास्ति भेदश्च कश्चन ।

कथं च विविधं पश्यत्येकत्वं च कथं पुनः

॥२०॥

यथैकं चैव सूर्याख्यं ज्योतिर्नानाविधं जनैः ।

जलादौ च विशेषेण दृश्यते तत्तथैव सः

॥२१॥

सर्वत्र व्यापकश्चैव स्पर्शत्वं न विबध्यते ।

तथैव व्यापको देवो बध्यते न क्वचित्स वै

॥२२॥

साहंकारस्तथा जीवस्तन्मुक्तः शंकरः स्वयम् ।

जीवस्तुच्छः कर्मभोगो निर्लिप्तः शंकरो महान्

॥२३॥

यथैकं च सुवर्णादि मिलितं रजतादिना ।

४ अल्पमूल्यं प्रजायेत तथा जीवोऽप्यहंयुतः

॥२४॥

यथैव हि सुर्वणादि क्षारादेः शोधितं शुभम् ।

पूर्ववन्मूल्यतां याति तथा जीवोऽपि संस्कृतेः

॥२५॥

प्रथमं सद्गुरुं प्राप्य भक्तिभाव समन्वितः ।

शिवबुद्ध्या करोत्युच्चैः पूजनं स्मरणादिकम्

॥२६॥

तद्बुध्या देहतो याति सर्वपापादिको मलः ।

तदाऽज्ञानं च नश्येत ज्ञानवाञ्जायते यदा

॥२७॥

तदाहंकारनिर्मुक्तो जीवो निर्मलबुद्धिमान् ।

शङ्करस्य प्रसादेन प्रयाति शङ्करताम्पुनः

॥२८॥

यथाऽऽदर्शस्वरूपे च स्वीयरूपं प्रदृश्यते ।

तथा सर्वत्रगं शम्भु पश्यतीति सुनिश्चितम्

॥२९॥

जीवन्मुक्तस्य एवासौ देहः शीर्ण शिवे मिलेत् ।

प्रारब्धवशगो देहस्तद्भिन्नो ज्ञानवान् मतः

॥३०॥

शुभं लब्ध्वा न हृष्येत कुप्येल्लब्ध्वाऽशुभं न हि ।

द्वंद्वेषु समता यस्य ज्ञानवानुच्यते हि सः

॥३१॥

आत्मयोगेन तत्त्वानामथवा च विवेकतः ।

यथा शरीरतो यायाच्छरीरं मुक्तिमिच्छतः

॥३२॥

सदाशिवो विलीयेत मुक्तो विरहमेव च ।

ज्ञानमूलन्तथाध्यात्म्यं तस्य भक्तिश्शिवस्य च

॥३३॥

भक्तेश्च प्रेम संप्रोक्तं प्रेम्णश्च श्रवणन्तथा ।

श्रवणाच्चापि सत्संगस्सत्संगाच्च गुरुर्बुधः

॥३४॥

सम्पन्ने च तथा ज्ञाने मुक्तो भवति निश्चितम् ।

इति चेज्ज्ञानवान्यो वै शंभुमेव सदा भजेत्

॥३५॥

अनन्यया च भक्त्या वै युक्तः शम्भुं भजेत्पुनः ।

अन्ते च मुक्तिमायाति नात्र कार्या विचारणा

॥३६॥

अतोऽधिको न देवोऽस्ति मुक्तिप्राप्त्यै च शंकरात् ।

शरणं प्राप्य यश्चैव संसाराद्विनिवर्तते

॥३७॥

इति मे विविधं वाक्यमृषीणां च समागतैः ।

निश्चित्य कथितं विप्रा धिया धार्यं प्रयत्नतः

॥३८॥

प्रथमं विष्णवे दत्तं शंभुना लिंगसन्मुखे ।

विष्णुना ब्रह्मणे दत्तं ब्रह्मणा सनकादिषु

॥३९॥

नारदाय ततः प्रोक्तं तज्ज्ञानं सनकादिभिः ।

व्यासाय नारदेनोक्तं तेन मह्यं कृपालुना

॥४०॥

मया चैव भवद्भ्यश्च भवद्भिर्लोकहेतवे ।

स्थापनीयं प्रयत्नेन शिवप्राप्तिकरं च तत्

॥४१॥

इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।

गोपनीयं प्रयत्नेन किमन्यच्छ्रोतुमिच्छथ

॥४२॥

व्यास उवाच

एतच्छुत्वा तु ऋषय आनन्दं परमं गताः ।

हर्षगद्गदया वाचा नत्वा ते तुष्टुवुर्मुहुः ।

४३ ऋषय ऊचुः ।

व्यासशिष्य नमस्तेऽस्तु धन्यस्त्वं शैवसत्तमः ।

श्रावितं नः परं वस्तु शैवं ज्ञानमनुत्तमम्

॥४४॥

अस्माकं चेतसो भ्रान्तिर्गता हि कृपया तव ।

सन्तुष्टाश्शिवसज्ज्ञानं प्राप्य त्वत्तो विमुक्तिदम्

॥४५॥

सूत उवाच

नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ।

अभक्ताय महेशस्य न चाशुश्रुषवे द्विजाः

॥४६॥

इतिहासपुराणानि वेदाच्छास्त्राणि चासकृत् ।

विचार्य्योद्धृत्य तत्सारं मह्यं व्यासेन भाषितम्

॥४७॥

एतच्छ्रुत्वा ह्येकवारं भवेत्पापं हि भस्मसात् ।

अभक्तो भक्तिमाप्नोति भक्तस्य भक्तिवर्द्धनम्

॥४८॥

पुनश्श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुते पुनः ।

तस्मात्पुनःपुनश्श्राव्यं भुक्तिमुक्तिफलेप्सुभिः

॥४९॥

आवृत्तयः पंच कार्याः समुद्दिश्य फलं परम् ।

तत्प्राप्नोति न सन्देहो व्यासस्य वचनं त्विदम्

॥५०॥

न दुर्लभं हि तस्यैव येनेदं श्रुतमुत्तमम् ।

पंचकृत्वस्तदावृत्त्या लभ्यते शिवदर्शनम्

॥५१॥

पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ।

इदं श्रुत्वा पंचकृत्वो धिया सिद्धिं परां गताः

॥५२॥

श्रोष्यत्यद्यापि यश्चेदं मानवो भक्तितत्परः ।

विज्ञानं शिवसंज्ञं वै भुक्तिं मुक्तिं लभेच्च सः

॥५३॥

व्यास उवाच

इति तद्वचनं श्रुत्वा परमानन्दमागताः ।

समानर्चुश्च ते भूतं नानावस्तुभिरादरात

॥५४॥

नमस्कारैः स्तवैश्चैव स्वस्तिवाचनपूर्वकम् ।

आशीर्भिर्वर्द्धयामासुः संतुष्टाश्छिन्नसंशयाः

॥५५॥

परस्परं च संतुष्टाः सूतस्ते च सुबुद्धयः ।

शंभुं देवं परं मत्वा नमंति स्म भजंति च

॥५६॥

एतच्छिवसुविज्ञानं शिवस्यातिप्रियं महत् ।

भुक्तिमुक्तिप्रदं दिव्यं शिवभक्तिविवर्द्धनम्

॥५७॥

इयं हि संहिता पुण्या कोटिरुद्राह्वया परा ।

चतुर्थी शिव पुराणस्य कथिता मे मुदावहा

॥५८॥

एतां यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।

स भुक्त्वेहाखिलान्भोगानंते परगतिं लभेत्

॥५९॥

इति श्रीशिवमहापुराणे चतुर्विंशतिसाहस्र्यां वैयासिक्यां संहितायां तदन्तर्गतायां चतुर्थ्यां कोटिरुद्रसंहितायां ज्ञाननिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

समाप्तेयं शिवमहापुराणान्तर्गतकोटिरुद्रसंहिता चतुर्थी