मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ७

3
कोटिरुद्रसंहिता · 7

नन्दिकेश्वरशिवलिंगमाहात्म्यवर्णनम्

ऋषय ऊचुः

कथं गंगा समायाता वैशाखे सप्तमीदिने ।

नर्मदायां विशेषेण सूतैतद्वर्णय प्रभो

॥१॥

ईश्वरश्च कथं जातो नन्दिकेशो हि नामतः ।

वृत्तं तदपि सुप्रीत्या कथय त्वं महामते

॥२॥

सूत उवाच

साधु पृष्टमृषिश्रेष्ठा नन्दिकेशाश्रितं वचः ।

तदहं कथयाम्यद्य श्रवणात्पुण्यवर्द्धनम्

॥३॥

ब्राह्मणी ऋषिका नाम्ना कस्यचिच्च द्विजन्मनः ।

सुता विवाहिता कस्मैचिद्द्विजाय विधानतः

॥४॥

पूर्वकर्मप्रभावेन पत्नी सा हि द्विजन्मनः ।

सुव्रतापि च विप्रेन्द्रा बालवैधव्यमागता

॥५॥

अथ सा द्विजपत्नी हि ब्रह्मचर्य्यव्रतान्विता ।

पार्थिवार्चनपूर्वं हि तपस्तेपे सुदारुणम्

॥६॥

तस्मिन्नवसरे दुष्टो मूढनामाऽसुरो बली ।

ययौ तत्र महामायी कामबाणेन ताडितः

॥७॥

तपन्तीं तां समालोक्य सुन्दरीमतिकामिनीम् ।

तया भोगं ययाचे स नानालोभं प्रदर्शयन्

॥८॥

अथ सा सुव्रता नारी शिवध्यानपरायणा ।

तस्मिन्दृष्टिं दधौ नैव कामदृष्ट्या मुनीश्वराः

॥९॥

न मानितवती तं च ब्राह्मणी सा तपोरता ।

अतीव हि तपोनिष्ठासीच्छिवध्यानमाश्रिता

॥१०॥

अथ मूढः स दैत्येन्द्रः तया तन्व्या तिरस्कृतः ।

चुक्रोध विकटं तस्यै पश्चाद्रूपमदर्शयत्

॥११॥

अथ प्रोवाच दुष्टात्मा दुर्वचो भयकारकम् ।

त्रासयामास बहुशस्तां च पत्नीं द्विजन्मनः

॥१२॥

तदा सा भयसंत्रस्ता बहुवारं शिवेति च ।

बभाषे स्नेहतस्तन्वी द्विजपत्नी शिवाश्रया

॥१३॥

विह्वलातीव सा नारी शिवनामप्रभाषिणी ।

जगाम शरणं शम्भोः स्वधर्मावनहेतवे

॥१४॥

शरणागतरक्षार्थं कर्तुं सद्वृत्तमाहितम् ।

आनन्दार्थं हि तस्यास्तु शिव आविर्बभूव ह

॥१५॥

अथ तं मूढनामानं दैत्येन्द्रं काम विह्वलम् ।

चकार भस्मसात्सद्यः शंकरो भक्तवत्सलः

॥१६॥

ततश्च परमेशानो कृपादृष्ट्या विलोक्य ताम् ।

वरं ब्रूहीति चोवाच भक्तरक्षणदक्षधीः

॥१७॥

श्रुत्वा महेशवचनं सा साध्वी द्विजकामिनी ।

ददर्श शांकरं रूपमानन्दजनकं शुभम्

॥१८॥

ततः प्रणम्य तं शंभुं परमेशसुखावहम् ।

तुष्टाव साञ्जलिः साध्वी नतस्कन्धा शुभाशया

॥१९॥

ऋषिकोवाच

देवदेव महादेव शरणागतवत्सल ।

दीनबन्धुस्त्वमीशानो भक्तरक्षाकरः सदा

॥२०॥

त्वया मे रक्षितो धर्मो मूढनाम्नोऽसुरादिह ।

यदयं निहतो दुष्टो जगद्रक्षा कृता त्वया

॥२१॥

स्वपादयोः परां भक्तिं देहि मे ह्यनपायिनीम् ।

अयमेव वरो नाथ किमन्यदधिकं ह्यतः

॥२२॥

अन्यदाकर्णय विभो प्रार्थनां मे महेश्वर ।

लोकानामुपकारार्थमिह त्वं संस्थितो भव

॥२३॥

सूत उवाच

इति स्तुत्वा महादेवमृषिका सा शुभव्रता ।

तूष्णीमासाथ गिरिशः प्रोवाच करुणाकरः

॥२४॥

गिरिश उवाच

ऋषिके सुचरित्रा त्वं मम भक्ता विशेषतः ।

दत्ता वराश्च ते सर्वे तुभ्यं येये हि याचिताः

॥२५॥

एतस्मिन्नंतरे तत्र हरिब्रह्मादयः सुराः ।

शिवाविर्भावमाज्ञाय ययुर्हर्षसमन्विताः

॥२६॥

शिवं प्रणम्य सुप्रीत्या समानर्चुश्च तेऽखिलाः ।

तुष्टुवुर्नतका विप्राः करौ बद्ध्वा सुचेतसः

॥२७॥

एतस्मिन्समये गंगा साध्वी तां स्वर्धुनी जगौ ।

ऋषिकां सुप्रसन्नात्मा प्रशंसन्तो च तीद्विधिम्

॥२८॥

गंगोवाच

ममार्थे चैव वैशाखे मासि देयं त्वया वचः ।

स्थित्यर्थं दिनमेकं मे सामीप्यं कार्य्यमेव हि

॥२९॥

सूत उवाच

गंगावचनमाकर्ण्य सा साध्वी प्राह सुव्रता ।

तथास्त्विति वचः प्रीत्या लोकानां हितहेतवे

॥३०॥

आनन्दार्थं शिवस्तस्याः सुप्रसन्नश्च पार्थिवे ।

तस्मिँल्लिंगे लयं यातः पूर्णांशेन तया हरः

॥३१॥

देवः सर्वे सुप्रसन्नाः प्रशंसंति शिवं च ताम् ।

स्वंस्वं धाम ययुर्विष्णुब्रह्माद्या अपि स्वर्णदी

॥३२॥

तद्दिनात्पावनं तीर्थमासीदीदृशमुत्तमम् ।

नन्दिकेशः शिवः ख्यातः सर्वपापविनाशनः

॥३३॥

गंगापि प्रतिवर्षं तद्दिने याति शुभेच्छया।

क्षालनार्थं स्वपापस्य यद्ग्रहीतं नृणां द्विजाः

॥३४॥

तत्र स्नातो नरः सम्यङ् नंदिकेशं समर्च्य च ।

ब्रह्महत्यादिभिः पापैर्मुच्यते ह्यखिलैरपि

॥३५॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिंगमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥