अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः
सूत उवाच
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ।
ज्योतीरूपं यथा जातं परमं लिंगमुत्तमम्
॥१॥दारुका राक्षसी काचित्पार्वती वरदर्पिता ।
दारुकश्च पतिस्तस्या बभूव बलवत्तरः
॥२॥बहुभी राक्षसैस्तत्र चकार कदनं सताम् ।
यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत्
॥३॥पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ।
योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम्
॥४॥दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ।
भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम्
॥५॥दारुकायै ददौ देवी तद्वनस्यावलोकनम् ।
प्रयाति तद्वनं सा हि पत्या सह यदृच्छया
॥६॥तत्र स्थित्वा तदा सोपि सर्वेषां च भयं ददौ ।
दारुको राक्षसः पत्न्या तया दारुकया सह
॥७॥ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ।
नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः
॥८॥लोका ऊचुः
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ।
सर्वं कर्तुं समर्थोसि तेजसा दीप्तिमानसि
॥९॥पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ।
यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः
॥१०॥त्वां दृष्ट्वा राश्रसास्सर्वे पला यंते विदूरतः ।
त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा
॥११॥सूत उवाच
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः ।
शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत्
॥१२॥और्व उवाच
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ।
स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः
॥१३॥यदा यज्ञा न हन्येरंस्तदा प्राणैर्वियोजिताः ।
भवंतु राक्षसास्सर्वे सत्यमेतन्मयोच्यते
॥१४॥सूत उवाच
इत्युक्त्वा वचनं तेभ्यस्समाश्वास्य प्रजाः पुनः ।
तपश्चकार विविधमौर्वो लोकसुखावहः
॥१५॥देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ।
युद्धाय च समुद्योगं चक्रुर्देवारिभिस्सह
॥१६॥सर्वैश्चैव प्रयत्नैश्च नानायुधधरास्सुराः ।
सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः
॥१७॥तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ।
बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः
॥१८॥राक्षसा ऊचुः
किं कर्तव्यं क्व गंतव्यं संकटं समुपागताः ।
युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते
॥१९॥तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ।
दुःखं हि सर्वथा जातं क एनं विनिवारयेत्
॥२०॥सूत उवाच
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ।
उपायं न विजानन्तो दुःखं प्राप्तास्सदा हि वै
॥२१॥दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ।
भवान्याश्च वरं तञ्च कथयामास सा तदा
॥२२॥दारुकोवाच
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ।
वनं गच्छ निजैः सार्धं यत्र गंतुं त्वमिच्छसि
॥२३॥तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ।
जलं वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः
॥२४॥भूत उवाच
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ।
उचुस्सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा
॥२५॥धन्येयं कृतकृत्येयं राज्ञ्या वै जीवितास्स्वयम् ।
नत्वा तस्यै च तत्सर्वं कथयामासुरादरात्
॥२६॥यदि गंतुं भवेच्छक्तिर्गम्यतां किं विचार्यते ।
तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः
॥२७॥एतस्मिन्नंतरे लोका देवैस्सार्द्धं समागताः ।
युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा
॥२८॥पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ।
समग्रं नगरं नीत्वा जलस्थलसमन्वितम्
॥२९॥जयजयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ।
तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा
॥३०॥समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ।
सकलैः परिवारैश्च मुमुदेति शिवानुगा
॥३१॥तत्र सिंधौ च ते स्थित्वा नगरे च विलासिनः ।
राक्षसाश्च सुखं प्रापु्र्निर्भयाश्च विजह्रिरे
॥३२॥राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ।
मुनेश्शापभयादेव बभ्रमुस्ते चले तदा
॥३३॥नौषु स्थिताञ्जनान्नीत्वा नगरे तत्र तांस्तदा ।
चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते
॥३४॥यथायथा पुनः पीडां चक्रुस्ते राक्षसास्तदा ।
तत्रस्थिता भवान्याश्च वरदानाच्च निर्भयाः
॥३५॥यथापूर्वं स्थले लोके भयं चासीन्निरन्तरम् ।
तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः
॥३६॥कदाचिद्राक्षसी सा च निस्सृता नगराज्जले ।
रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि
॥३७॥एतस्मिन्नंतरे तत्र नावो बहुतराः शुभाः ।
आगता बहुधा तत्र सर्वतो लोकसंवृताः
॥३८॥ता नावश्च तदा दृष्ट्वा हर्षं संप्राप्य राक्षसाः ।
द्रुतं गत्वा हि तत्रस्थान्वेगात्संदध्रिरे खलाः
॥३९॥आजग्मुर्नगरं ते च तानादाय महाबलाः ।
चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः
॥४०॥बद्धास्ते निगडैर्लोका संस्थिता बंधनालये ।
अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः
॥४१॥तेषां मध्ये च योऽधीशस्स वैश्यस्सुप्रियाभिधः ।
शिवप्रियश्शुभाचारश्शैवश्चासीत्सदातनः
॥४२॥विना च शिवपूजां वै न तिष्ठति कदाचन ।
सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः
॥४३॥यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ।
अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम्
॥४४॥कारागृहगतस्सोपि बहूंश्चाशिक्षयत्तदा ।
शिवमंत्रं च पूजां च पार्थिवीमृषिसत्तमाः
॥४५॥ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ।
चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम्
॥४६॥केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ।
मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः
॥४७॥तदधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ।
कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः
॥४८॥अन्ये च ये न जानन्ति विधानं स्मरणं परम् ।
नमश्शिवाय मंत्रेण ध्यायंतश्शंकरं स्थिताः
॥४९॥सुप्रियो नाम यश्चासीद्वैश्यवर्यश्शिवप्रियः ।
ध्यायंश्च मनसा तत्र चकार शिवपूजनम्
॥५०॥यथोक्तरूपी शंभुश्च प्रत्यक्षं सर्वमाददे ।
सोपि स्वयं न जानाति गृह्यते न शिवेन वै
॥५१॥एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ।
व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः
॥५२॥अतः परं च यज्जातं चरितं शशिमौलिनः ।
तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा
॥५३॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्र संहितायां नागेश्वरज्योतिर्लिंगमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥