मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय १०

3
कोटिरुद्रसंहिता · 10

महाबाह्वशिवलिंगमाहात्म्यवर्णनम्

सूत उवाच

श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ।

आसीन्मित्रसहो नाम श्रेष्ठस्सर्वधनुष्मताम्

॥१॥

तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा ।

दमयन्ती नलस्येव बभूव विदिता सती

॥२॥

स एकदा हि मृगयास्नेही मित्रसहो नृपः ।

महद्बलेन संयुक्तो जगाम गहनं वनम्

॥३॥

विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ।

निजघान महादुष्टं साधुपीडाकरं खलम्

॥४॥

अथ तस्यानुजः पापी जयेयं छद्मनैव तम् ।

मत्वा जगाम नृपतेरन्तिक च्छद्मकारकः

॥५॥

तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ।

चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः

॥६॥

अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ।

निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा

॥७॥

पितुः क्षयाहे सम्प्राप्ते निमंत्र्य स्वगुरुं नृपः ।

वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः

॥८॥

रक्षसा सूदरूपेण संमिश्रितनरामिषम् ।

शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत्

॥९॥

गुरुरुवाच

धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ।

खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि

॥१०॥

रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ।

पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम्

॥११॥

स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ।

जलांजलिं समादाय गुरुं शप्तुं समुद्यतः

॥१२॥

तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ।

पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत्

॥१३॥

ततो निवृत्तशापस्तु तस्या वचनगौरवात् ।

तत्याज पादयोरंभः पादौ कल्मषतां गतौ

॥१४॥

ततःप्रभृति राजाभूत्स लोकेस्मिन्मुनीश्वराः ।

कल्मषांघ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि

॥१५॥

राजा मित्रसहः शापाद्गुरो ऋषिवरस्य हि ।

बभूव राक्षसो घोरो हिंसको वनगोचरः

॥१६॥

स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ।

चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः

॥१७॥

स कदाचिद्वने क्वापि रममाणौ किशोरकौ ।

अपश्यदन्तकाकारो नवोढौ मुनिदम्पती

॥१८॥

राक्षसः स नराहारः किशोरं मुनिनन्दनम् ।

जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा

॥१९॥

कुक्षौ गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया ।

सा चक्रे प्रार्थनं तस्मै वदंती करुणं वचः

॥२०॥

प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः ।

चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः ।

अथ साध्वी च सा दीना विलप्य भृशदुःखिता ।

आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम्

॥२२॥

भर्तारमनुगच्छन्ती संविशंती हुताशनम् ।

राजानं राक्षसाकारं सा शशाप द्विजाङ्गना

॥२३॥

अद्यप्रभृति नारीषु यदा त्वं संगतो भवेः ।

तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती

॥२४॥

सोपि राजा गुरोश्शापमनुभूय कृतावधिम् ।

पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ

॥२५॥

ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ।

पतिं निवारयामास वैधव्यादतिबिभ्यती

॥२६॥

अनपत्यो विनिर्विण्णो राज्यभोगेषु पार्थिवः ।

विसृज्य सकलां लक्ष्मीं वनमेव जगाम ह

॥२७॥

स्वपृष्ठतः समायान्तीं ब्रह्महत्यां सुदुःखदाम् ।

ददर्श विकटाकारां तर्जयन्ती मुहुर्मुहुः

॥२८॥

तस्या निर्भद्रमन्विच्छन् राजा निर्विण्णमानसः ।

चकार नानोपायान्स जपव्रतमखादिकान्

॥२९॥

नानोपायैर्यदा राज्ञस्तीर्थस्नानादिभिर्द्विजाः ।

न निवृत्ता ब्रह्महत्या मिथिलां स ययौ तदा

॥३०॥

बाह्योद्यानगतस्तस्याश्चितया परयार्दितः ।

ददर्श मुनिमायान्तं गौतमं पार्थिवश्च सः

॥३१॥

अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ।

तद्दर्शनाप्तकिंचित्कः प्रणनाम मुहुर्मुहुः ।

अथ तत्पृष्टकुशलो दीर्घमुष्णं च निश्वसन् ।

तत्कृपादृष्टिसंप्राप्तसुख प्रोवाच तं नृपः

॥३३॥

राजोवाच

मुने मां बाधते ह्येषा ब्रह्महत्या दुरत्यया ।

अलक्षिता परैस्तात तर्जयंती पदेपदे

॥३४॥

यन्मया शापदग्धेन विप्रपुत्रश्च भक्षितः ।

तत्पापस्य न शान्तिर्हि प्रायश्चित्तसहस्रकैः

॥३५॥

नानोपायाः कृता मे हि तच्छान्त्यै भ्रमता मुने ।

न निवृत्ता ब्रह्महत्या मम पापात्मनः किमु

॥३६॥

अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्षये ।

यतस्त्वद्दर्शनादेव ममानन्दभरोऽभवत्

॥३७॥

अद्य मे तवपादाब्ज शरणस्य कृतैनसः ।

शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम्

॥३८॥

सूत उवाच

इति राज्ञा समादिष्टो गौतमः करुणार्द्रधीः ।

समादिदेश घोराणामघानां साधु निष्कृतिम्

॥३९॥

गौतम उवाच

साधु राजेन्द्र धन्योसि महाघेभ्यो भयन्त्यज ।

शिवे शास्तरि भक्तानां क्व भयं शरणैषिणाम्

॥४०॥

शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ।

महापातकसंहारि गोकर्णाख्यं शिवालयम्

॥४१॥

तत्र स्थितिर्न पापानां महद्भ्यो महतामपि ।

महाबलाभिधानेन शिवः संनिहितः स्वयम्

॥४२॥

सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ।

चतुर्युगे चतुर्वर्णस्सर्वपापापहारकः

॥४३॥

पश्चिमाम्बुधितीरस्थं गोकर्णं तीर्थमुत्तमम् ।

तत्रास्ति शिवलिंगं तन्महापातकनाशकम्

॥४४॥

तत्र गत्वा महापापाः स्नात्वा तीर्थेषु भूरिशः ।

महाबलं च संपूज्य प्रयाताश्शांकरम्पदम्

॥४५॥

तथा त्वमपि राजेन्द्र गोकर्ण गिरिशालयम् ।

गत्वा सम्पूज्य तल्लिंगं कृतकृत्यत्वमाप्नुयाः

॥४६॥

तत्र सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य महाबलम् ।

सर्वपापविनिर्मुक्तः शिवलोकन्त्वमाप्नुयाः

॥४७॥

सूत उवाच

इत्यादिष्टः स मुनिना गौतमेन महात्मना ।

महाहृष्टमना राजा गोकर्णं प्रत्यपद्यत

॥४८॥

तत्र तीर्थेषु सुस्नात्वा समभ्यर्च्य महाबलम् ।

निर्धूताशेषपापौघोऽलभच्छंभोः परम्पदम्

॥४९॥

य इमां शृणुयान्नित्यं महाबलकथां प्रियाम् ।

त्रिसप्तकुलजैस्सार्द्धं शिवलोके व्रजत्यसौ

॥५०॥

इति वश्च समाख्यातं माहात्म्यं परमाद्भुतम् ।

महाबलस्य गिरिशलिंगस्य निखिलाघहृत्

॥५१॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबाह्वशिवलिंगमाहात्म्यवर्णनं नाम दशमोऽध्यायः ॥ १० ॥