मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ३

3
कोटिरुद्रसंहिता · 3

अनसूयात्रितपोवर्णनम्

सूत उवाच

ब्रह्मपुर्यां चित्रकूटं लिंगं मत्तगजेन्द्रकम् ।

ब्रह्मणा स्थापितं पूर्वं सर्वकामसमृद्धिदम्

॥१॥

तत्पूर्वदिशि कोटीशं लिंगं सर्ववरप्रदम् ।

गोदावर्य्याः पश्चिमे तल्लिंगं पशुपतिनामकम्

॥२॥

दक्षिणस्यां दिशि कश्चिदत्रीश्वर इति स्वयम् ।

लोकानामुपकारार्थमनसूयासुखाय च

॥३॥

प्रादुर्भूतः स्वयं देवो ह्यनावृष्ट्यामजीवयत् ।

स एव शंकरः साक्षादंशेन स्वयमेव हि

॥४॥

ऋषय ऊचुः

सूतसूत महाभाग कथमत्रीश्वरो हरः ।

उत्पन्नः परमो दिव्यस्तत्त्वं कथय सुव्रत

॥५॥

सूत उवाच

साधु पृष्ठमृषिश्रेष्ठाः कथयामि कथां शुभाम् ।

यां कथां सततं श्रुत्वा पातकैर्मुच्यते ध्रुवम्

॥६॥

दक्षिणस्यां दिशि महत् कामदं नाम यद्वनम् ।

चित्रकूटसमीपेस्ति तपसां हितदं सताम्

॥७॥

तत्र च ब्रह्मणः पुत्रो ह्यत्रिनामा ऋषिः स्वयम् ।

तपस्तेपेऽति कठिनमनसूयासमन्वितः

॥८॥

पूर्वं कदाचित्तत्रैव ह्यनावृष्टिरभून्मुने ।

दुःखदा प्राणिनां दैवाद्विकटा शतवार्षिकी ।

वृक्षाश्शुष्कास्तदा सर्वे पल्लवानि फलानि च ।

नित्यार्थं न जलं क्वापि दृष्टमासीन्मुनीश्वराः

॥१०॥

आर्द्रीभावो न लभ्येत खरा वाता दिशो दश ।

हाहाकारो महानासीत्पृथिव्यां दुःखदोऽति हि

॥११॥

संवर्तं चैव भूतानां दृष्ट्वात्रि गृहिणी प्रिया ।

साध्वी चैवाब्रवीदत्रिं मया दुःखं न सह्यते

॥१२॥

समाधौ च विलीनोभूदासने संस्थितः स्वयम् ।

प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा

॥१३॥

ध्यायति स्म परं ज्योतिरात्मस्थमात्मना च सः ।

अत्रिर्मुनिवरो ज्ञानी शंकरं निर्विकारकम्

॥१४॥

स्वामिनि ध्यानलीने च शिष्यास्ते दूरतो गताः ।

अन्नं विना तदा ते तु मुक्त्वा तं स्वगुरुं मुनिम्

॥१५॥

एकाकिनी तदा जाता सानसूया पतिव्रता

॥१६॥

सिषेवे सा च सततं तं मुदा मुनिसत्तमम् ।

पार्थिवं सुन्दरं कृत्वा मंत्रेण विधि पूर्वकम्

॥१७॥

मानसैरुपचारैश्च पूजयामास शंकरम् ।

तुष्टाव शंकरं भक्त्या संसेवित्वा मुहुर्मुहुः

॥१८॥

बद्धाञ्जलिपुटा भूत्वा प्रक्रम्य स्वामिनं शिवम् ।

दण्डवत्प्रणिपातेन प्रतिप्रक्रमणं तदा

॥१९॥

चकार सुचरित्रा सानसूया मुनिकामिनी ।

दैत्याश्च दानवाः सर्वे दृष्ट्वा तु सुन्दरीं तदा

॥२०॥

विह्वलाश्चाभवंस्तत्र तेजसा दूरतः स्थिताः ।

अग्निं दृष्ट्वा यथा दूरे वर्तन्ते तद्वदेव हि

॥२१॥

तथैनां च तदा दृष्ट्वा नायान्तीह समीपगाः ।

अत्रेश्च तपसश्चैवानसूया शिवसेवनम्

॥२२॥

विशिष्यते स्म विप्रेन्द्रा मनोवाक्कायसंस्कृतम।

तावत्कालं तु सा देवी परिचर्यां चकार ह

॥२३॥

यावत्कालं मुनिवरः प्राणायामपरायणः ।

तौ दम्पती तदा तत्र स्वस्व कार्यपरायणौ

॥२४॥

संस्थितौ मुनिशार्दूल नान्यः कश्चित्परः स्थितः ।

एवं जातं तदा काले ह्यत्रिश्च ऋषिसत्तमः

॥२५॥

ध्याने च परमे लीनो न व्यबुध्यत किंचन ।

अनसूयापि सा साध्वी स्वामिनं वै शिवं तथा

॥२६॥

नान्यत्परं किंचिज्जानीते स्म च सा सती ।

तस्यैव तपसा सर्वे तस्याश्च भजनेन च

॥२७॥

देवाश्च ऋषयश्चैव गंगाद्यास्सरितस्तथा ।

दर्शनार्थं तयोः सर्वाः परे प्रीत्या समाययुः

॥२८॥

दृष्ट्वा च तत्तपस्सेवां विस्मयं परमं ययुः ।

तयोस्तदद्भुतं दृष्ट्वा समूचुर्भजनं वरम्

॥२९॥

उभयोः किं विशिष्टं च तपसो भजनस्य च ।

अत्रेश्चैव तपः प्रोक्तमनसूयानुसेवनम्

॥३०॥

तत्सर्वमुभयोर्दृष्ट्वा समूचुर्भजनं वरम् ।

पूर्वैश्च ऋषिभिश्चैव दुष्करं तु तपः कृतम्

॥३१॥

एतादृशं तु केनापि क्व कृतं नैतदब्रुवन् ।

धन्योऽयं च मुनिर्धन्या तथेयमनसूयिका

॥३२॥

यदैताभ्यां परप्रीत्या क्रियते सुतपः पुनः ।

एतादृशं शुभं चैतत्तपो दुष्करमुत्तमम्

॥३३॥

त्रिलोक्यां क्रियते केन साम्प्रतं ज्ञायते न हि ।

तयोरेव प्रशंसां च कृत्वा ते तु यथागतम्

॥३४॥

गतास्ते च तदा तत्र गंगा न गिरिशं विना।

गंगा मद्भजनप्रीता साध्वी धर्मविमोहिता

॥३५॥

कृत्वोपकारमेतस्या गमिष्यामीत्युवाच सा ।

शिवोऽपि ध्यानसम्बद्धो मुनेरत्रेर्मुनीश्वराः

॥३६॥

पूर्णांशेन स्थितस्तत्र कैलासं तं जगाम ह ।

पंचाशच्च तथा चात्र चत्वारि ऋषिसत्तमाः

॥३७॥

वर्षाणि च गतान्यासन्वृष्टिर्नैवाभवत्तदा ।

यावच्चाप्यत्रिणा ह्येवं तपसा ध्यानमाश्रितम्

॥३८॥

अनसूया तदा नैव गृह्णामीतीषणा कृता ।

एवं च क्रियमाणे हि मुनिना तपसि स्थिते ।

अनसूयासुभजने यज्जातं श्रूयतामिति

॥३९॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं नाम तृतीयो ऽध्यायः ॥ ३ ॥