अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम्
सूत उवाच
अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ।
उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात्
॥१॥पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः
॥२॥तत्र सीता हृता विप्रा रावणेनोरुमायिना ।
प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा
॥३॥अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ।
सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह
॥४॥तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ।
सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै
॥५॥कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ।
हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे
॥६॥अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ।
सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः
॥७॥सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ।
सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः
॥८॥पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ।
दक्षिणे सागरे यो वै दृश्यते लवणाकरः
॥९॥तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ।
वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः
॥१०॥हा जानकि कुतो याता कदा चेयं मिलिष्यति ।
अगाधस्सागरश्चैवातार्या सेना च वानरी
॥११॥राक्षसो गिरिधर्त्ता च महाबलपराक्रमः ।
लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै
॥१२॥इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः ।
आश्वासितो वनौकोभिरंगदादिपुरस्सरैः
॥१३॥एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः ।
उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम्
॥१४॥राम उवाच
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ।
तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि
॥१५॥सूत उवाच
तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ।
नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः
॥१६॥वानरा ऊचुः
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया ।
महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम्
॥१७॥सूत उवाच
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ।
तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम्
॥१८॥स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ।
तदा च स्मरणं जातमित्थमस्य शिवेच्छया
॥१९॥न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ।
स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै
॥२०॥इत्युक्त्वा च जलं पीतं तदा रघुवरेण च ।
पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः
॥२१॥आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।
विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम्
॥२२॥प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः ।
प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा
॥२३॥राम उवाच
स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ।
पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम्
॥२४॥एतज्जलमगाधं च वारिधेर्भवतारण ।
रावणाख्यो महावीरो राक्षसो बलवत्तरः
॥२५॥वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ।
ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये
॥२६॥तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ।
साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम्
॥२७॥त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ।
त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित्
॥२८॥अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ।
विचार्येति त्वया कार्यः पक्षपातस्सदाशिव
॥२९॥सूत उवाच
इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ।
तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च
॥३०॥इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ।
पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह
॥३१॥प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ।
तदा च शंकरो देवस्सुप्रसन्नो बभूव ह
॥३२॥सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ।
यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम्
॥३३॥ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ।
शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत्
॥३४॥तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ।
कृतवान्राघवः पूजां शिवधर्मपरायणः
॥३५॥स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ।
जयं च प्रार्थयामास रावणाजौ तदात्मनः
॥३६॥ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ।
जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत्
॥३७॥शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ।
पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः
॥३८॥राम उवाच
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ।
परेषामुपकारार्थं यदि तुष्टोऽसि शंकर
॥३९॥सूत उवाच
इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ।
रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले
॥४०॥रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ।
रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम्
॥४१॥रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः
॥४२॥दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि
॥४३॥इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ।
अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम्
॥४४॥इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ।
रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम्
॥४५॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥