मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय २६

3
कोटिरुद्रसंहिता · 26

त्र्यंबकेश्वरमाहात्म्यवर्णनम्

सूत उवाच

एवं कृते तु ऋषिणा सस्त्रीकेन द्विजाश्शिवः ।

आविर्बभूव स शिवः प्रसन्नस्सगणस्तदा

॥१॥

अथ प्रसन्नस्स शिवो वरं ब्रूहि महामुने ।

प्रसन्नोऽहं सुभक्त्या त इत्युवाच कृपानिधिः

॥२॥

तदा तत्सुंदरं रूपं दृष्ट्वा शंभोर्महात्मनः ।

प्रणम्य शंकरं भक्त्या स्तुतिं चक्रे मुदान्वितः

॥३॥

स्तुत्वा बहु प्रणम्येशं बद्धाञ्जलिपुटः स्थितः ।

निष्पापं कुरु मां देवाब्रवीदिति स गौतमः

॥४॥

सूत उवाच

इत्याकर्ण्य वचस्तस्य गौतमस्य महात्मनः ।

सुप्रसन्नतरो भूत्वा शिवो वाक्यमुपाददे

॥५॥

शिव उवाच

धन्योऽसि कृतकृत्योऽसि निष्पापोऽसि सदा मुने ।

एतैर्दुष्टैः किल त्वं च च्छलितोऽसि खिलात्मभिः

॥६॥

त्वदीयदर्शनाल्लोका निष्पापाश्च भवंति हि ।

किं पुनस्त्वं सपापोऽसि मद्भक्तिनिरतस्सदा

॥७॥

उपद्रवस्त्वयि मुने यैः कृतस्तु दुरात्मभिः ।

ते पापाश्च दुराचारा हत्यावंतस्त एव हि

॥८॥

एतेषां दर्शनादन्ये पापिष्ठाः संभवंतु च ।

कृतघ्नाश्च तथा जाता नैतेषां निष्कृतिः क्वचित्

॥९॥

सूत उवाच

इत्युक्त्वा शंकरस्तस्मै तेषां दुश्चरितं तदा ।

बहूवाच प्रभुर्विप्राः सत्कदोऽसत्सु दंडदः

॥१०॥

शर्वोक्तमिति स श्रुत्वा सुविस्मितमना ऋषिः ।

सुप्रणम्य शिवं भक्त्या सांजलिः पुनरब्रवीत्

॥११॥

गौतम उवाच

ऋषिभिस्तैर्महेशान ह्युपकारः कृतो महान् ।

यद्येवं न कृतं तैस्तु दर्शनं ते कुतो भवेत्

॥१२॥

धन्यास्ते ऋषयो यैस्तु मह्यं शुभतरं कृतम् ।

तद्दुराचरणादेव मम स्वार्थो महानभूत्

॥१३॥

सूत उवाच

इत्येवं तद्वचश्श्रुत्वा सुप्रसन्नो महेश्वरः ।

गौतमं प्रत्युवाचाशु कृपादृष्ट्या विलोक्य च

॥१४॥

शिव उवाच

ऋषि धन्योसि विप्रेंद्र ऋषे श्रेष्ठतरोऽसि वै ।

ज्ञात्वा मां सुप्रसन्नं हि वृणु त्वं वरमुत्तमम्

॥१५॥

सूत उवाच

गौतमोऽपि विचार्यैव लोके विश्रुतमित्युत ।

अन्यथा न भवेदेव तस्मादुक्तं समाचरेत्

॥१६॥

निश्चित्यैवं मुनिश्रेष्ठो गौतमश्शिवभक्तिमान् ।

सांजलिर्नतशीर्षो हि शंकरं वाक्यमब्रवीत्

॥१७॥

गौतम उवाच

सत्यं नाथ ब्रवीषि त्वं तथापि पंचभिः कृतम् ।

नान्यथा भवतीत्यत्र यज्जातं जायतां तु तत्

॥१८॥

यदि प्रसन्नो देवेश गंगा च दीयतां मम ।

कुरु लोकोपकारं हि नमस्तेऽस्तु नमोऽस्तु ते

॥१९॥

सूत उवाच

इत्युक्त्वा वचनं तस्य धृत्वा वै पादपंकजम् ।

नमश्चकार देवेशं गौतमो लोककाम्यया

॥२०॥

ततस्तु शंकरो देवः पृथिव्याश्च दिवश्च सः ।

सारं चैव समुद्धृत्य रक्षितं पूर्वमेव तत्

॥२१॥

विवाहे ब्रह्मणा दत्तमवशिष्टं च किंचन ।

तत्तस्मै दत्तवाञ्च्छंभुर्मुनये भक्तवत्सलः

॥२२॥

गंगाजलं तदा तत्र स्त्रीरूपमभवत्परम् ।

तस्याश्चैव ऋषिश्रेष्ठः स्तुतिं कृत्वा नतिं व्यधात्

॥२३॥

गौतम उवाच

धन्यासि कृतकृत्यासि पावितं भुवनं त्वया ।

मां च पावय गंगे त्वं पततं निरये ध्रुवम्

॥२४॥

सूत उवाच

शंभुश्चापि तदोवाच सर्वेषां हितकृच्छृणु ।

गंगे गौतममेनं त्वं पावयस्व मदाज्ञया

॥२५॥

सूत उवाच

इति श्रुत्वा वचस्तस्य शंभोश्च गौतमस्य च ।

उवाचैव शिवं गंगा शिवभक्तिर्हि पावनी

॥२६॥

गंगोवाच

ऋषिं तु पावयित्वाहं परिवारयुतं प्रभो ।

गमिष्यामि निजस्थानं वचस्सत्यं ब्रवीमि ह

॥२७॥

सूत उवाच

इत्युक्तो गंगया तत्र महेशो भक्तवत्सलः ।

लोकोपकरणार्थाय पुनर्गगां वचोऽब्रवीत्

॥२८॥

शिव उवाच

त्वया स्थातव्यमत्रैव व्रजेद्यावत्कलिर्युगः ।

वैवस्वतो मनुर्देवि ह्यष्टाविंशत्तमो भवेत्

॥२९॥

सूत उवाच

इति श्रुत्वा वचस्तस्य स्वामिनश्शंकरस्य तत् ।

प्रत्युवाच पुनर्गंगा पावनी सा सरिद्वरा

॥३०॥

गंगोवाच

माहात्म्यमधिकं चेत्स्यान्मम स्वामिन्महेश्वर ।

सर्वेभ्यश्च तदा स्थास्ये धरायां त्रिपुरान्तकः

॥३१॥

किं चान्यच्च शृणु स्वामिन्वपुषा सुन्दरेण ह ।

तिष्ठ त्वं मत्समीपे वै सगणसांबिकः प्रभो

॥३२॥

सूत उवाच

एवं तस्या वचः श्रुत्वा शंकरो भक्तवत्सलः ।

लोकोपकरणार्थाय पुनर्गंगां वचोब्रवीत्

॥३३॥

शिव उवाच

धन्यासि श्रूयतां गंगे ह्यहं भिन्नस्त्वया न हि ।

तथापि स्थीयते ह्यत्र स्थीयतां च त्वयापि हि

॥३४॥

सूत उवाच

इत्येवं वचनं श्रुत्वा स्वामिनः परमेशितुः ।

प्रसन्नमानसा भूत्वा गंगा च प्रत्यपूजयत्

॥३५॥

एतस्मिन्नंतरे देवा ऋषयश्च पुरातनाः ।

सुतार्थान्यप्यनेकानि क्षेत्राणि विविधानि च

॥३६॥

आगत्य गौतमं सर्वे गंगां च गिरिशं तथा ।

जयजयेति भाषंतः पूजयामासुरादरात्

॥३७॥

ततस्ते निर्जरा सर्वे तेषां चक्रुः स्तुतिं मुदा ।

करान् बद्ध्वा नतस्कंधा हरिब्रह्मादयस्तदा

॥३८॥

गंगा प्रसन्ना तेभ्यश्च गिरिशश्चोचतुस्तदा ।

वरं ब्रूत सुरश्रेष्ठा दद्वो वः प्रियकाम्यया

॥३९॥

देवा ऊचुः

यदि प्रसन्नो देवेश प्रसन्ना त्वं सरिद्वरे ।

स्थातव्यमत्र कृपया नः प्रियार्थं तथा नृणाम्

॥४०॥

गंगोवाच

यूयं सर्वप्रियार्थं च तिष्ठथात्र न किं पुनः ।

गौतमं क्षालयित्वाहं गमिष्यामि यथागतम्

॥४१॥

भवत्सु मे विशेषोत्र ज्ञेयश्चैव कथं सुराः ।

तत्प्रमाणं कृतं चेत्स्यात्तदा तिष्ठाम्यसंशयम्

॥४२॥

सर्वे ऊचुः

सिंहराशौ यदा स्याद्वै गुरुस्सर्वसुहृत्तमः ।

तदा वयं च सर्वे त्वागमिष्यामो न संशयः

॥४३॥

एकादश च वर्षाणि लोकानां पातकं त्विह ।

क्षालितं यद्भवेदेवं मलिनास्स्मः सरिद्वरे

॥४४॥

तस्यैव क्षालनाय त्वायास्यामस्सर्वथा प्रिये ।

त्वत्सकाशं महादेवि प्रोच्यते सत्यमादरात्

॥४५॥

अनुग्रहाय लोकानामस्माकं प्रियकाम्यया ।

स्थातव्यं शंकरेणापि त्वया चैव सरिद्वरे

॥४६॥

यावत्सिंहे गुरुश्चैव स्थास्यामस्तावदेव हि ।

त्वयि स्नानं त्रिकालं च शंकरस्य च दर्शनम्

॥४७॥

कृत्वा स्वपापं निखिलं विमोक्ष्यामो न संशयः ।

स्वदेशांश्च गमिष्यामो भवच्छासनतो वयम्

॥४८॥

सूत उवाच

इत्येवं प्रार्थितस्तैस्तु गौतमेन महर्षिणा ।

स्थितोऽसौ शंकरः प्रीत्या स्थिता सा च सरिद्वरा

॥४९॥

सा गंगा गौतमी नाम्ना लिंगं त्र्यंबकमीरितम् ।

ख्याता ख्यातं बभूवाथ महापातकनाशनम्

॥५०॥

तद्दिनं हि समारभ्य सिंहस्थे च बृहस्पतौ ।

आयांति सर्वतीर्थानि क्षेत्राणि देवतानि च

॥५१॥

सरांसि पुष्करादीनि गंगाद्यास्सरितस्तथा ।

वासुदेवादयो देवाः संति वै गोतमीतटे

॥५२॥

यावत्तत्र स्थितानीह तावत्तेषां फलं न हि ।

स्वप्रदेशे समायातास्तर्ह्येतेषां फलं भवेत्

॥५३॥

ज्योतिर्लिंगमिदं प्रोक्तं त्र्यंबकं नाम विश्रुतम् ।

स्थितं तटे हि गौतम्या महापातकनाशनम्

॥५४॥

यः पश्येद्भक्तितो ज्योतिर्लिंगं त्र्यंबकनामकम् ।

पूजयेत्प्रणमेत्स्तुत्वा सर्वपापैः प्रमुच्यते

॥५५॥

ज्योतिर्लिंगं त्र्यंबकं हि पूजितं गौतमेन ह ।

सर्वकामप्रदं चात्र परत्र परमुक्तिदम्

॥५६॥

इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।

किमन्यदिच्छथ श्रोतुं तद् ब्रूयां वो न संशयः

॥५७॥

इति श्री शिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥