स्वगतिवर्णनम्
श्रीगणेशाय नमः
श्रीगौरीशंकराभ्यां नमः
अथ पञ्चम्युमासंहिता प्रारभ्यते
यो धत्ते भुवनानि सप्त गुणवान्स्रष्टा रजस्संश्रयस्संहर्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ।
सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि
॥१॥ऋषय ऊचुः
सूतसूत महाप्राज्ञ व्यासशिष्यन मोऽस्तु ते ।
चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया
॥२॥अथोमासंहितान्तःस्थ नानाख्यानसमन्वितम् ।
ब्रूहि शंभोश्चरित्रं वै साम्बस्य परमात्मनः
॥३॥सूत उवाच
महर्षयश्शौनकाद्याः शृणुत प्रेमतः शुभम् ।
शांकरं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम्
॥४॥इतीदृशं पुण्यप्रश्नं पृष्टवान्मुनिसत्तमः ।
व्यासस्सनत्कुमारं वै शैवं सच्चरितं जगौ
॥५॥सनत्कुमार उवाच
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ।
तदुच्यते मया व्यास चरितं हि महेशितुः
॥६॥पुरा पुत्रार्थमगमत्कैलासं शंकरालयम् ।
वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि
॥७॥अत्रोपमन्युं संदृष्ट्वा तपंतं शृंग उत्तमे ।
प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः
॥८॥श्रीकृष्ण उवाच
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ।
पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि
॥९॥ब्रूहि शंकरमाहात्म्यं सदानन्दकरं मुने ।
यच्छ्रुत्वा भक्तितः कुर्य्यां तप ऐश्वरमुत्तमम्
॥१०॥सनत्कुमार उवाच
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ।
प्रत्युवाच प्रसन्नात्मा ह्युपमन्युस्स्मरञ्छिवम्
॥११॥उपमन्युरुवाच
शृणु कृष्ण महाशैव महिमानं महेशितुः ।
यमद्राक्षमहं शंभोर्भक्तिवर्द्धनमुत्तमम्
॥१२॥तपःस्थोऽहं समद्राक्षं शंकरं च तदायुधान् ।
परिवारं समस्तं च विष्ण्वादीनमरादिकान्
॥१३॥त्रिभिरंशैश्शोभमानमजस्रसुखमव्ययम् ।
एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः
॥१४॥द्विसहस्रमयूखानां ज्योतिषाऽतिविराजितम् ।
सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात्
॥१५॥यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ।
नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे
॥१६॥महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ।
निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः
॥१७॥तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्यम् ।
गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित्
॥१८॥यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ।
विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम्
॥१९॥दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ।
पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः
॥२०॥यौवनाश्वो हतो येन मांधाता सबलः पुरा ।
चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः
॥२१॥दर्पाविष्टो हैहयश्च निः क्षिप्तो लवणासुरः ।
शत्रुघ्नं नृपतिं युद्धे समाहूय समंततः
॥२२॥तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत् ।
तच्छूलमिति तीक्ष्णाग्रं संत्रासजननं महत्
॥२३॥त्रिशिखां भृकुटीं कृत्वा तर्जयंतमिव स्थितम् ।
विधूम्रानलसंकाशं बालसूर्यमिवोदितम्
॥२४॥सूर्य्य हस्तमनिर्द्देश्यं पाशहस्तमिवांतकम् ।
परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम्
॥२५॥कल्पान्तदहनाकारं तथा पुरुषविग्रहम् ।
यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे
॥२६॥रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ।
त्रिःसप्तकृत्वो नक्षत्रं ददाह हृषितो मुनिः
॥२७॥सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ।
द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम्
॥२८॥द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ।
कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम्
॥२९॥वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वप्रनुत्तमम् ।
महाधनुः पिनाकं च सतूणीरं महाद्युतिम्
॥३०॥शक्तिं खङ्गं च पाशं च महादीप्तं समांकुशम् ।
गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान्
॥३१॥तथा च लोकपालानामस्त्राण्येतानि यानि च ।
अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः
॥३२॥सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।
विमानं दिव्यमास्थाय हंसयुक्तं मनोनुगम्
॥३३॥वामपार्श्वे तु तस्यैव शंखचक्रगदाधरः ।
वैनतेयं समास्थाय तथा नारायणः स्थितः
॥३४॥स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।
शक्राद्या देवताश्चैव सर्व एव समं ययुः
॥३५॥स्कंदश्शक्तिं समादाय मयूरस्थस्सघंटकः ।
देव्यास्समीपे संतस्थौ द्वितीय इव पावकः
॥३६॥नंदी शूलं समादाय भवाग्रे समवस्थितः ।
सर्वभूतगणाश्चैवं मातरो विविधाः स्थिताः
॥३७॥तेऽभिवाद्य महेशानं परिवार्य्य समंततः ।
अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः
॥३८॥यत्किंचित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ।
तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः
॥३९॥सुमहद्धैर्य्यमालंब्य प्रांजलिर्विविधैः स्तवैः ।
परमानन्दसंमग्नोऽभूवं कृष्णाहमद्ध्वरे
॥४०॥संमुखे शंकरं दृष्ट्वा बाष्पगद्गदया गिरा ।
अपूजयं सुविधिवदहं श्रद्धासमन्वितः
॥४१॥भगवानथ सुप्रीतश्शंकरः परमेश्वरः ।
वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव
॥४२॥न विचालयितुं शक्यो मया विप्र पुनः पुनः ।
परीक्षितोसि भद्रं ते भवान्भक्त्यान्वितो दृढः
॥४३॥तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ।
दुर्लभं सर्वदेवेषु नादेयं विद्यते तव
॥४४॥स चाहं तद्वचः श्रुत्वा शंभोः सत्प्रेमसंयुतम् ।
देवं तं प्रांजलिर्भूत्वाऽब्रुवं भक्तानुकंपिनम्
॥४५॥उपमन्युरुवाच
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ।
तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत्
॥४६॥प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ।
सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत्
॥४७॥ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ।
तव भक्तेषु सख्यं स्यादन्योन्येषु सदा भवेत्
॥४८॥एवमुक्तो मया शंभुर्विहस्य परमेश्वरः ।
कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह
॥४९॥श्रीशिव उवाच
उपमन्यो मुने तात वर्ज्जितस्त्वं भविष्यसि ।
जरामरणजैर्दोषैस्सर्वकामान्वितो भव
॥५०॥मुनीनां पूजनीयश्च यशोधनसमन्वितः ।
शीलरूपगुणैश्वर्यं मत्प्रसादात्पदेपदे
॥५१॥क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ।
तत्र ते भविता नित्यं यत्रयत्रेच्छसे मुने
॥५२॥अमृतात्मकं तु तत्क्षीरं यावत्संयाम्यते ततः ।
इमं वैवस्वतं कल्पं पश्यसे बन्धुभिस्सह
॥५३॥त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ।
सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने
॥५४॥मद्भक्तिस्तु स्थिरा चास्तु सदा दास्यामि दर्शनम् ।
स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम
॥५५॥यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ।
सर्वं प्रपूर्णतां यातु चिंतितं नात्र संशयः
॥५६॥उपमन्युरुवाच
एवमुक्त्वा स भगवान्सूर्य्यकोटिसमप्रभः ।
ममेशानो वरान्दत्त्वा तत्रैवान्तरधीयत
॥५७॥एवं दृष्टो मया कृष्ण परिवारसमन्वितः ।
शंकरः परमेशानो भक्तिमुक्तिप्रदायकः
॥५८॥शंभुना परमेशेन यदुक्तं तेन धीमता ।
तदवाप्तं च मे सर्वं देवदेवसमाधिना
॥५९॥प्रत्यक्षं चैव तै जातान्गन्धर्वाप्सरसस्तथा ।
ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान्
॥६०॥पश्य वृक्षान्मनोरम्यान्स्निग्धपत्रान्सुगंधिनः ।
सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलन्वितान्
॥६१॥सर्वमेतन्महाबाहो शंकरस्य महात्मनः ।
प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम
॥६२॥ममास्ति त्वखिलं ज्ञानं प्रसादाच्छूलपाणिनः ।
भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः
॥६३॥तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ।
यं न पश्यंत्यनाराध्य कोऽन्यो धन्यतरो मया
॥६४॥षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ।
एवं ध्यायंति विद्वांसौ महत्परममक्षरम्
॥६५॥सर्व तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ।
स एव भगवान्देवः प्रधानपुरुषेश्वरः
॥६६॥यो निजाद्दक्षिणात्पार्श्वाद्ब्रह्माणं लोककारणम् ।
वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः
॥६७॥कल्पान्ते चैव संप्राप्तेऽसृजद्रुद्रं हृदः प्रभुः ।
ततस्समहरत्कृत्स्नं जगत्स्थावरजंगमम्
॥६८॥युगांते सर्वभूतानि संवर्तक इवानलः ।
कालो भूत्वा महादेवो ग्रसमानस्स तिष्ठति
॥६९॥सर्वज्ञस्सर्वभूतात्मा सवर्भूतभवोद्भवः ।
आस्ते सर्वगतो देवो दृश्यस्सर्वैश्च दैवतैः
॥७०॥अतस्त्वं पुत्रलाभाय समाराधय शंकरम् ।
शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः
॥७१॥इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥